Showing posts with label sanskrit. Show all posts
Showing posts with label sanskrit. Show all posts

Whitepaper: Hacking Kannada gTTS for Sanskrit Phonology

 

Abstract

As Text-to-Speech (TTS) models become increasingly advanced, they are heavily optimized for modern, conversational speech. While this yields natural-sounding voice assistants, it presents a unique challenge for generating audio for ancient, highly phonetic languages like Sanskrit. This paper documents the engineering and linguistic challenges encountered while adapting Google's Kannada TTS (gTTS) engine to accurately chant complex Sanskrit texts (specifically the Advaita Vedanta Bhashyas), and details the specific phonetic hacks required to bypass the neural model's conversational biases.

The Core Challenge: Conversational Bias vs. Phonetic Precision

Modern neural TTS models are trained on massive datasets of colloquial speech. In the case of the Kannada TTS engine, the model leans heavily toward the dominant conversational dialects (such as those of Bengaluru). This introduces several unwanted behaviors when processing Sanskrit:

  1. Linguistic Assimilation: Lazy articulation of complex consonant clusters.
  2. Conversational Drag: Unnatural elongation of word-final syllables to mimic human thought pauses.
  3. Aspiration Shifts: Merging alpa-prana (unaspirated) and maha-prana (aspirated) consonants due to regional colloquial influence.

Because the engine's internal phonemizer cannot be retrained locally, we had to intercept the text and apply invisible phonetic hacks—creating a custom text-preprocessing wrapper that tricks the engine into perfect pronunciation before the audio is ever generated.


Identified Bugs and Phonetic Solutions

1. The Dynamic Visarga (ः / ಃ)

The Problem: The visarga is a voiceless glottal fricative whose pronunciation dynamically changes based on the preceding vowel. Traditional South Indian chanting resolves the visarga phonetically as an echo of the preceding vowel (aḥ becomes aha, iḥ becomes ihi, uḥ becomes uhu, aiḥ becomes aihi). Modern TTS engines simply default to a generic "ha" (ह) sound for all of them, destroying the meter and phonetics (e.g., tasmaiḥ pronounced as tasmaiha).

The Fix: We implemented a dynamic Regular Expression preprocessor that intercepts the visarga and substitutes it with hardcoded phonetic equivalents based on the preceding vowel:

  • a / aa + visarga → ha / haa
  • i / ee / ai + visarga → hi
  • u / oo / au + visarga → hu
  • e + visarga → he
  • o + visarga → ho

2. The Rya (र्य / ರ್ಯ) Ligature Assimilation (The "Arrama" Roga)

The Problem: Complex consonant clusters involving the Repha (the 'r' sound preceding another consonant, known as arkavattu in Kannada typography) are notoriously difficult for TTS engines to articulate at high speeds. When the Kannada gTTS encountered the word अर्यमा (aryamā), the model lazily assimilated the 'y' into the 'r', producing a doubled r. The resulting audio sounded like अर्रमा (arrama).

The Fix: Breaking the ligature using invisible Unicode. We implemented a codebase-wide substitution replacing the standard r + virama + y with a hidden Zero-Width Non-Joiner (ZWNJ, \u200C):
र् + \u200C + (renders as ರ್‍ಯ in Kannada).
By forcing this micro-split in the text rendering, we forced the neural model to stop its lazy assimilation, take a microsecond pause, and articulate both consonants distinctly.

3. The Word-Final MakAra (म् / ಮ್)

The Problem: Sanskrit frequently uses words ending in a pure consonant 'm' with a halant/virama (e.g., ज्ञानम्). The TTS engine often struggled to neatly terminate the sound, sometimes awkwardly stretching the consonant.

The Fix: We intercepted any word-final m + virama and phonetically converted it into an Anusvara (ं / ಂ). The engine's acoustic model handled the Anusvara gracefully at word boundaries, producing a clean, resonant termination.

4. Accepted Quirks: Word-Final Elongation and Geminate Swallowing

Not all neural biases can be easily hacked. We observed two distinct quirks:

  • Conversational Drag: The engine elongates word-final short vowels (e.g., becomes चा, becomes रा), treating standalone words as conversational fade-outs.
  • Geminate Swallowing: The engine compresses double consonants at word boundaries (e.g., तस्मान्न compressed to तस्मान).

Attempted Fixes: We tested appending ZWNJs, ZWJs, hyphens, and commas directly to the syllables to force a short stop. However, doing so sometimes triggered a worse linguistic disease: schwa-deletion (similar to modern Hindi), completely killing the inherent 'a' sound (e.g., सत्यं वद became सत्यं वद्). Ultimately, we accepted the slight elongation of word-final as a stylistic conversational quirk rather than risk breaking the schwa entirely.


Conclusion

Adapting a modern conversational TTS engine for ancient Sanskrit chanting is an exercise in reverse-engineering neural biases. By treating the TTS engine as a black box and applying an intelligent, invisible phonetic wrapper (using Unicode joiners and regex substitutions), we successfully coerced an everyday Kannada voice model into a precise, resonant vehicle for ancient Sanskrit texts.

जीवः कर्ता न वा?

 श्रीगुरुभ्यो नमः॥


२.३.१६ तक्षाधिकरणमित्यस्मिन्विषये कश्चन विचारः क्रियते।

ननु बुद्धिः न कर्त्री इत्युक्त्वा, आत्मा कर्ता इति स्थापयित्वा, अद्य तु तत्कर्तृत्वं वास्तविकं नास्ति, किन्तु औपाधिकमित्युच्यते। एवं सति वास्तविकं कर्तृत्वं कस्य भवति, यतोहि वास्तविकानुभवं विना भ्रमो न सम्भवति।  तन्न, अवास्तिकसर्पेण सर्पचित्रेणापि रज्ज्वां सर्पभ्रमसम्भवात्। 


ननु तत्रापि वास्तविकसर्पचित्रं त्वस्तीति चेत्नैष दोषः, प्रेतादर्शनेपि प्रेतभयसम्भवात्। 


ननु कर्तृत्वं बुद्धेर्न, जडत्वात्, नापि चेतनस्य आत्मनः, किन्तु बुद्धिविशिष्टचैतन्यस्य इति यदुक्तं तत् अवयवभूताः अचेतनाः, किन्तु समूहे चैतन्यमिति चार्वाकमतवदिति चेन्न, चार्वाकाणां तु समूहे उत्पन्नं चैतन्यं वास्तविकम्, सिद्धान्ते तु कर्तृत्वं कल्पितमिति न दोषापत्तिरिति सिद्धम्।


गुरुपादुकाभ्याम्।



ओम्।

Incidentally, today being upakarma, I scribbed a small ode on Yajnopavita early this morning as I woke up with this thought:


भो यज्ञोपवीत,

किन्नु पाशवद्बध्नासि।

जपविद्याकर्मभिः पुष्टं सत्,

ज्ञानदाह्यमपि न दग्धमसि।

उपकर्मणा त्वां पुनर्नमामि, यतोहि,

असत्सु तेषु तु कदापि न दहसि।

तादृशेनापि त्वया, भो उभयपाश,

अलङ्कृतोस्म्यहमलङ्कृतोस्मि।


गुरुपादुकाभ्याम्।

प्रवीणभट्टः।

Brahmatattvaprakashika, a vritti on Brahmasutras by Bhagavan Sadashivabrahmendra 1.4

 

चतुर्थः पादः॥


पूर्वमीक्षत्यधिकरणे गतिसामान्यमशब्दत्वं च प्रतिज्ञाय तत्र वेदान्तानां ब्रह्मणि गतिसामान्यं पादत्रयेण प्रत्यपादि। अधुना प्रधानस्याशब्दत्वमाक्षिप्य समाधीयत इत्याक्षेपसङ्गत्या चतुर्थपादोऽयमारभ्यते। पूर्वम् 'सुषुप्त्युत्क्रान्त्योर्भेदेन' इत्यत्र

प्रसिद्धजीवोक्तिभङ्गेनाप्रसिद्धब्रह्मोक्तिवदप्रसिद्धप्रधानोक्तिपरमेव काठकवाक्यमस्त्विति दृष्टान्तसङ्गत्येदमधिकरणमारभ्यते—

... आनुमानिकाधिकरणम्।

आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च॥१..१॥

अत्र पूर्वपक्षे ब्रह्मण्येव वेदान्तानां समन्वय इति नियमाभावः फलम्, सिद्धान्ते तादृङ्नियम इति विवेकः। कठवल्लीषु श्रूयते— 'महतः परमव्यक्तमव्यक्तात्पुरुषः परः' इति। तत्र किमव्यक्तशब्देन प्रधानमुच्यते, उत पूर्वप्रकृतं शरीरमिति संशये, साङ्ख्यस्मृतौ

महदव्यक्तपुरुषशब्दानां तत्तत्प्रत्यये प्रसिद्धत्वात् आनुमानिकम् अनुमानगम्यं प्रधानमप्येकेषां शाखिनां प्रत्यक्षमव्यक्तशब्देन पठ्यत इति अशब्दत्वमसिद्धमिति चेदिति पूर्वः पक्षः। सिद्धान्तस्तु— न प्रधानम्। कुतः, शरीररूपकविन्यस्तगृहीतेः 'शरीरं रथमेव तु' इत्यस्मिन्पूर्ववाक्ये शरीरस्य रथरूपकेण विन्यस्तस्य कल्पितस्याव्यक्तशब्देन गृहीतेः ग्रहणात्। कथं तच्छब्दग्राह्यं शरीरमित्यत आह— दर्शयति च। पूर्वापरवाक्यसन्दर्भः पर्यालोच्यमान औचित्येन प्रकृतं शरीरमेवाव्यक्तशब्दग्राह्यं दर्शयतीत्यर्थः॥


ननु स्थूलशरीरस्य व्यक्तशब्दार्हस्य कथमव्यक्तशब्दार्हत्वमित्यत आह—

सूक्ष्मं तु तदर्हत्वात्॥१..२॥

दर्शयतीत्यनुषङ्गः। तुशब्दः शङ्कानिरासार्थः। स्थूलशरीरारम्भकं भूतसूक्ष्मं कारणमव्यक्तशब्देन दर्शयति। कुतः, तदर्हत्वात् अव्यक्तशब्दार्हत्वादित्यर्थः। 'गोभिः श्रीणीतमत्सरम्' इत्यादिवत्प्रकृतिवाचकशब्देन विकारो लक्ष्यत इति भावः॥


ननु भूतसूक्ष्माव्यक्ताङ्गीकारे तस्यैव प्रधानत्वेन साङ्ख्यैरङ्गीकृतत्वात्तद्वादः प्राप्त इत्यत आह—

तदधीनत्वादर्थवत्॥१..३॥

न स्वतन्त्रप्रधानवादोऽस्माभिरङ्गीकृतः। कस्मात् तदधीनत्वात् ईश्वराधीनत्वादव्यक्तस्य। तर्हि ईश्वरादेवास्तु जगदुत्पत्तिः, किं तेन। अत आह— अर्थवत्। 'मायिनं तु महेश्वरम्' इति श्रुतावव्यक्तस्येश्वरसहकारित्वावगमात्प्रयोजनवदव्यक्तमित्यर्थः॥


अव्यक्तं न प्रधानमित्यत्र हेत्वन्तरमाह—

ज्ञेयत्वावचनाच्च॥१..४॥

प्रधानपुरुषविवेकात्कैवल्यं वदद्भिः साङ्ख्यैर्ज्ञेयत्वेन प्रधानमभिधीयते। न चात्राव्यक्तशब्दमात्रमन्तरेण ज्ञातव्यमव्यक्तमिति वचः समस्ति। अतो ज्ञेयत्वस्य अवचनात् अनभिधानात् नाव्यक्तं प्रधानमित्यर्थः॥


ननु ज्ञेयत्वावचनमसङ्गतमित्याशङ्क्याह—

वदतीति चेन्न प्राज्ञो हि प्रकरणात्॥१..५॥

'महतः परं ध्रुवं निचाय्य' इत्युत्तरवाक्यमव्यक्तशब्दितं प्रधानं ज्ञेयत्वेन वदतीति चेत्, न। प्राज्ञो हि परमात्मा हि निचाय्यत्वेन निर्दिष्टः, न प्रधानम्। कस्मात्, 'पुरुषान्न परं किञ्चित्' इत्याद्यात्मप्रकरणादित्यर्थः॥


इतश्च न प्रधानमंत्र ग्राह्यमित्याह—

त्रयाणामेव चैवमुपन्यासः प्रश्नश्च॥१..६॥

त्रयाणामेव अग्निजीवपरमात्मनामेव। एवम् उत्तरवाक्यपर्यालोचनया वक्तव्यत्वेनोपन्यासः। तद्विषय एव प्रश्नोऽपि दृश्यते कठवल्लयाम्— 'स त्वमग्निम्' इत्याद्यग्निप्रश्नः। 'येयं प्रेते विचिकित्सा' इति जीवप्रश्नः। 'अन्यत्र धर्मात्' इत्यादि परमात्मप्रश्नः। अतो नाव्यक्तं प्रधानमित्यर्थः॥


श्रौतोऽव्यक्तशब्दो न साङ्ख्यासाधारणतत्त्वगोचरः, वैदिकशब्दत्वात् महच्छब्दवदित्याह—

महद्वच्च॥१..७॥

'बुद्धेरात्मा महान्परः' इति श्रुतो महच्छब्दो यथा न साङ्ख्याभिमतद्वितीयसत्तामात्रतत्त्ववाची, आत्मशब्दप्रयोगात्, तद्वन्न वैदिकाव्यक्तशब्दोऽपि प्रधानवाची। अतः शरीरमेवाव्यक्तशब्दितमिति सिद्धम्॥


पूर्वमव्यक्तशब्दमात्रेण प्रधानस्य अप्रत्यभिज्ञायामप्यत्र त्रिगुणत्वादिलिङ्गोपेतादजाशब्दात्प्रत्यभिज्ञा अस्त्विति प्रत्युदाहरणसङ्गत्येदमाह—

... चमसाधिकरणम्।

चमसवदविशेषात्॥१..८॥

अत्र पूर्वपक्षे ब्रह्मणि समन्वयासिद्धिः, सिद्धान्ते तत्सिद्धिरिति फलभेदः। श्वेताश्वतरोपनिषदि श्रूयते— 'अजामेकां लोहितशुक्लृकृष्णाम्...(श्वे. . .)' इत्यादि। तत्र किमजाशब्देन प्रधानमुच्यते, उत तेजोबन्नात्मिकावान्तरप्रकृतिरिति संशये, न जायत इत्यजा साङ्ख्यसिद्धा प्रकृतिरिति पूर्वः पक्षः। सिद्धान्तस्तु— न प्रधानस्यासाधारण्येनात्र प्रत्यभिज्ञापकं किञ्चित्समस्ति, लोहितादिशब्दानां वर्णविशेष एव रूढत्वात्, न रजआदौ। न जायते इत्यजेत्यन्यत्रापि साधारण्यादत्र निर्धारणाभावे दृष्टान्तः— चमसवत्। यथा 'अर्वाग्बिलश्चमसः' इत्यादावयं चमस इत्यवधारणं न सम्भवति, कथञ्चिदर्वाग्बिलत्वादेः अन्यत्राप्यविशेषात्। एवमजामन्त्रेऽप्यजात्वादेरविशेषान्न प्रधाननिर्णय इति अशब्दं प्रधानमित्यर्थः॥


ननु केयमजा प्रतिपत्तव्येत्यवाह—

ज्योतिरुपमा तु तथा ह्यघीयत एके॥१..९॥

ज्योतिस्तेज उपक्रमे यस्याः तेजोबन्नलक्षणायाः सा ज्योतिरुपक्रमा। तुशब्दोऽवधारणे। सैवेह निर्धारणीया, न प्रधानम्।

कस्मात्, तथा ह्यधीयत एके। हि यस्मात् एके छन्दोगाः तेजोबन्नात्मिकायाः प्रकृतेः 'यदग्ने रोहितं रूपम्' इत्यादिना

रोहितादिरूपवत्तामधीयते समामनन्ति, तथेह लोहितादिशब्दसाम्यात्तान्येव तेजोबन्नानि प्रत्यभिज्ञायन्त इति समञ्जसम्॥


नन्वजाशब्दस्य छागे रूढत्वात्कथं तेजोबन्नात्मकप्रकृतिपरत्वमित्यत आह—

कल्पनोपदेशाच्च मध्वादिवदविरोधः॥१..१०॥

चशब्दः शङ्कानिरासार्थः। तेजोबन्नात्मकप्रकृतौ नाजात्वानुपपत्तिः। कुतः, कल्पनोपदेशात् यथा लोके प्रसिद्धामजां

भुक्तभोगामेकोऽजस्त्यजति अन्यस्तामनुवर्तते, एवं त्यागभोगयोः कार्यकारणसङ्घाताद्युपादानतेजोबन्नात्मकप्रकृतेः साम्यद्योतनार्थं कल्पनया अजात्वस्योपदेशात्। यथा मधुभिन्नादित्यस्य 'असौ वादित्यो देवमधु' इति मधुत्वोपदेशः, तद्वदजाभिन्नायाः प्रकृतेः अजात्वोपदेशे न कञ्चिद्विरोधः। तस्मान्नात्र प्रधानस्यावकाश इत्यशब्दं प्रधानमिति सिद्धम्॥

पूर्वमाध्यात्मिकाधिकारे प्रसिद्धच्छागग्रहणायोगात् अजा तेजआदिकेत्युक्तम्। तथा 'यस्मिन्पञ्चपञ्चजनाः' इति मन्त्रे पञ्चजनशब्देन प्रसिद्धम्नुष्यग्रहणायोगात्साङ्ख्याभिमतपञ्चविंशतितत्त्वग्रहणमस्त्विति दृष्टान्तसङ्गत्येदमाह—

... सङ्ख्योपसङ्ग्रहाधिकरणम्।

न सङ्ख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च॥१..११॥

अत्र फलं पूर्ववद्द्रष्टव्यम्। बृहदारण्यके श्रूयते— 'यस्मिन्पञ्चपञ्चजना आकाशश्च प्रतिष्ठितः' इत्यादि। तत्र किं पञ्चजनशब्देन मूलप्रकृत्यादीनि पञ्चविंशतितत्त्वान्युच्यन्ते, उत वाक्यशेषगताः प्राणादय इति संशये, तत्त्वानीति पूर्वः पक्षः। सिद्धान्तस्तु—

अस्मिन्मन्त्रे श्रूयमाणया पञ्चविंशतिसङ्ख्यया स्मृतिसिद्धपञ्चविंशतितत्त्वानामुपसङ्ग्रहादपि न प्रधानस्य शब्दवत्त्वम्। कुतः, नानाभावात् तेषां पञ्चानां पञ्चकानामेकपञ्चकपर्याप्तान्यपञ्चकव्यावृत्तधर्मवत्त्वाभावेन नानात्वात्। नानात्वेऽपि

कथञ्चित्पञ्चविंशतिसङ्ख्याङ्गीकारे बाधकान्तरमाह— अतिरेकाच्च। अस्मिन्मन्त्रे श्रूयमाणयोरात्माकाशयोः पञ्चविंशतितत्त्वातिरिक्तत्वात्सप्तविंशतितत्त्वप्राप्तावपसिद्धान्तापातः। तस्मान्नात्र प्रधानादितत्त्वग्रहणमुचितम्॥


ननु ते पञ्चत्वसङ्ख्याकाः पञ्चजनाः क इत्यपेक्षायामाह—

प्राणादयो वाक्यशेषात्॥१..१२॥

प्राण एव आदिर्येषां प्राणचक्षुःश्रोत्रान्नमनसां ते प्राणादयः पञ्चजनशब्देनोच्यन्ते। कस्मात् वाक्यशेषात् 'प्राणस्य प्राणमुत चक्षुषश्चक्षुः' इत्यादिवाक्यशेषस्थत्वादित्यर्थः॥


नन्वस्तु माध्यन्दिनानां प्राणादिष्वन्नस्याम्नानात्पञ्चसङ्ख्या। काण्वानां तु तदाम्नानात्कथं पञ्चसङ्ख्येत्यत आह—

ज्योतिषैकेषामसत्यन्ने॥१..१३॥

एकेषां काण्वानामसत्यन्ने 'तद्देवा ज्योतिषां ज्योतिः' इत्यादिपूर्वं वाक्यस्थज्योतिषा पञ्चत्वं पूरणीयम्। अतः प्रधानमशब्दमिति सिद्धम्॥


इत्थमधिकरणत्रयेण प्रधानस्याशब्दत्वसाधनेन ब्रह्मणि वेदान्तानां समन्वयः साधितः। अधुना तेषामेव परस्परविरुद्धार्थप्रतिपादकत्वेनानिश्चायकत्वादनुमानसिद्धप्रधानपर एवोक्तसमन्वयोऽस्त्वित्याक्षेपसङ्गत्या, पूर्वं पञ्चत्वसङ्ख्यापूरणमन्नेन ज्योतिषा वेति विकल्पस्याविरोधेऽपि प्रकृते कारणे वस्तुनि विकल्पायोगाद्विरोधे सत्यप्रामाण्यं वाक्यानामिति प्रत्युदाहरणलक्षणावान्तरसङ्गत्या चेदमाह—

... कारणत्वाधिकरणम्।

कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः॥१..१४॥

अत्र पूर्वोत्तरयोः पक्षयोः समन्वयासिद्धिः, तत्सिद्धिरिति फलभेदः। अत्र जगत्कारणत्वादिवाक्यानि ब्रह्मणि मानं न वेति विशये, तेषां परस्परविरोधदर्शनान्न मानमिति पूर्वः पक्षः। सिद्धान्तस्तु— चशब्दः शङ्कानिरासार्थः। ब्रह्मणः कारणत्वे विरोधो नास्ति। कुतः, आकाशादिषु यथाव्यपदिष्टोक्तेः यथाभूत ईश्वरः कारणत्वेन व्यपदिष्ट एकस्मिन्वेदान्तवाक्ये तथाभूतस्यैवापरस्मिन्वाक्येऽपि उक्तेरभिधानादित्यर्थः॥


ननु क्वचिदसतः क्वचित्सत उत्पत्तिश्रवणाद्विरोध इत्याशङ्क्याह—

समाकर्षात्॥१..१५॥

'असदेवेदमग्र आसीत्' इत्यनभिव्यक्तनामरूपवाचिना असच्छब्देन सत एव समाकर्षात् नासतः कारणत्वशङ्कावकाशः। अतो जगत्कारणत्ववादिवाक्यसमन्वयो ब्रह्मण्येवेति सिद्धम्॥


पूर्वमेकवाक्यस्थसच्छब्दबलादसच्छब्दो नीतः। इह तु वाक्यभेदात् 'ब्रह्म ते ब्रवाणि' इति बालाकिवाक्यस्थब्रह्मशब्देन प्राणादिशब्दो ब्रह्मपरत्वेन नेतुमशक्य इति प्रत्युदाहरणसङ्गत्येदमाह—

... बालाक्यधिकरणम्।

जगद्वाचित्वात्॥१..१६॥

अत्र पूर्वपक्षे वाक्यस्य प्राणाद्युपासनापरत्वाद्ब्रह्मणि समन्वयासिद्धिः, सिद्धान्ते तत्सिद्धिरिति फलभेदः। कौषीतकिब्राह्मणे श्रूयते— यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्म स वै वेदितव्यः' इति। तत्र वेदितव्यः कर्ता किं प्राणः, उत जीवः, आहोस्वित्परमात्मेति विशये, 'यस्य वैतत्कर्म' इति चलनात्मककर्मणः प्राणस्यैव सम्भवात् 'एवमेवैष प्रज्ञात्मैत्तैरात्मभिर्भुङ्क्ते' इति

जीवलिङ्गाच्च प्राणजीवाविति पूर्वः पक्षः। सिद्धान्तस्तु—पुरुषाणां कर्ता परमात्मैव। कुतः, 'ब्रह्म ते ब्रवाणि' इति ब्रह्मण

एवोपक्रमात्। क्रियत इति व्युत्पत्त्या कर्मशब्दस्य प्रत्यक्षाद्युपस्थापितजगद्वाचित्वात्। ननु पुरुषाणां जगदन्तर्भावात्तत्कर्तृत्वं किमिति पृथगुच्यत इति चेत्, न। बालाकिना ब्रह्मत्वेनोक्तपुरुषाणामब्रह्मत्वद्योतनाय गोबलीवर्दन्यायेन पृथगुच्यत इति ध्येयम्॥


जीवमुख्यप्राणलिङ्गान्नेति चेत्तद्व्याख्यातम्॥१..१७॥

जीवमुख्यप्राणलिङ्गाच्च न ब्रह्मपरत्वावधारणमिति चेत्, तद्व्याख्यातं प्रतर्दनाधिकरणे 'नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात्' इति। प्रतर्दनविचारे कर्मपदस्याविचाराद्गतार्थता द्रष्टव्या॥


किञ्च—

अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके॥१..१८॥

जैमिनिराचार्योऽस्मिन्प्रकरणे जीवपरामर्शमन्यार्थं ब्रह्मप्रतिपत्त्यर्थं यतो मन्यतेऽतो ब्रह्मपरमेवेदं वाक्यम्। कुतो मन्यते,

प्रश्नव्याख्यानाभ्याम्। 'क्वैष एतद्बालाके पुरुषोऽशयिष्ट क्व वा एतदभूत्' इत्यादिप्रश्नः, 'यदा सुप्तः स्वप्नं न कंचन पश्यत्यथास्मिन्प्राण एवैकधा भवति' इत्युत्तरं व्याख्यानम्। ताभ्यां यस्मिञ्जीवस्य स्वापागमने भवतः, स एवात्र परमात्मा वेदितव्यतयोपदिष्टः। अपि चैके वाजसनेयिनो बालाक्यजातशत्रुसंवादे 'य एष विज्ञानमयः पुरुषः वैष तदाभूत्कुत एतदागात्' 'य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते' इति प्रश्नोत्तराभ्यां स्पष्टं विज्ञानमयातिरिक्तं परमात्मानमामनन्ति। अत एतत्कौषीतकीवाक्यं जगत्कर्तरि ब्रह्मणि समन्वितमिति सिद्धम्॥


पूर्वं ब्रह्मोपक्रमसामर्थ्याद्ब्रह्मपरत्वमुक्तम्। तर्हि तद्वदेव मैत्रेयी ब्राह्मणस्य 'न वा अरे पत्युः कामाय' इत्यादिजीवोपक्रमसामर्थ्यात् जीवपरत्वमस्त्विति दृष्टान्तसङ्गत्येदमाह—

... वाक्यान्त्रयाधिकरणम्।

वाक्यान्वयात्॥१..१९॥

फलं पूर्ववत्। बृहदारण्यके श्रूयते— आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यः' इत्यादि। तत्र किं जीवो द्रष्टव्यत्वादिरूपेण उपदिश्यते, किं वा परमात्मेति संशये, जीव इति पूर्वः पक्षः। सिद्धान्तस्तु— परमात्मैवात्र द्रष्टव्यतयोपदिष्ट आत्मा। कुतः, वाक्यान्वयात् उपक्रमादिपर्यालोचनया वाक्यस्य ब्रह्मण्येवान्वयादित्यर्थः॥


ननु पतिजायादिभोग्यजातेन लिङ्गेन जीवोपक्रमः प्रतीयते। स कथमित्याशङ्क्याह—

प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः॥१..२०॥

जीवब्रह्मणोहि कार्यकारणयोर्भेदाभेदौ वर्तेते। अत्यन्तभेदे एकविज्ञानेन सर्वविज्ञानप्रतिज्ञाविरोधप्रसङ्गात्। तथा च

तत्प्रतिज्ञासिद्धेरिममभेदांशमादाय जीवोपक्रमणं लिङ्गमित्याश्मरथ्य आचार्यो मन्यते॥


समाधानान्तरमाह—

उत्क्रमिष्यत एवम्भावादित्यौडुलोमिः॥१..२१॥

संसारदशायामत्यन्तं ब्रह्मणो भिन्नस्य जीवस्य ब्रह्मात्मत्वसाक्षात्कारात्कार्यकारणसङ्घातादुत्क्रमिष्यतः एवम्भावात् परमात्मनैकीभावात्, भविष्यद्भेदमादाय जीवोपक्रम इति औडुलोमिराचार्यो मन्यते॥


नन्विदमप्यसङ्गतम्, सत्यकार्यकारणसङ्घातवतः संसारिणोऽत्यन्तं ब्रह्मभिन्नस्य मुक्तिदशायामभेदायोगादित्यरुच्या परमं समाधानमाह—

अवस्थितेरिति काशकृत्स्नः॥१..२२॥

ब्रह्मण एवाविद्याकल्पितभेदेन जीवरूपेणावस्थितेः जीवोपक्रमोऽविरुद्ध इति काशकृत्स्न आचार्यः श्रुतितात्पर्यज्ञो मन्यते। अतो द्रष्टव्ये परब्रह्मणि मैत्रेयीब्राह्मणवाक्यं समन्वितमिति सिद्धम्॥


पूर्वम् 'जन्माद्यस्य यतः' इति सूत्रे ब्रह्मणो जगत्कारणत्वमभिहितम्। तदधुनात्र विचार्यते। एवञ्च सामान्यज्ञानस्य

विशेषविचारहेतुत्वात्तेन हेतुहेतुमद्भावसङ्गत्येदमाह—

... प्रकृत्यधिकरणम्।

प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्॥१..२३॥

अत्र पूर्वपक्षे एकविज्ञानात्सर्वविज्ञानप्रतिज्ञाया गौणत्वम्, सिद्धान्ते तन्मुख्यत्वमिति फलभेदः। तत्र किं ब्रह्मणो जगन्निमित्तत्वमात्वम्, उतोपादानत्वमपीति संशये, 'तदैक्षत' इति ईक्षणपूर्वककर्तृत्ववणान्निमित्तत्वमात्रमिति पूर्वः पक्षः। सिद्धान्तस्तु— प्रकृतिश्च ब्रह्म चकारान्निमित्तमपि। कुतः, प्रतिज्ञादृष्टान्तानुपरोधात् 'येनाश्रुतं श्रुतं भवति' इत्याद्येकविज्ञानेन सर्वविज्ञानप्रतिज्ञा, यथा सोम्यैकेन मृत्पिण्डेन सर्वे मृन्मयं विज्ञातं स्याद्वाचारम्भणम्' इत्यादिदृष्टान्तश्च तयोः सामञ्जस्यादित्यर्थः॥


किञ्च—

अभिध्योपदेशाच्च॥१..२४॥

'सोऽकामयत' इत्यात्मनो ध्यानोपदेशात्कर्तृत्वम्, 'बहुस्याम्' इति ध्यानोपदेशात्प्रकृतित्वम् इति॥


प्रकृतित्वे हेत्वन्तरमाह—

साक्षाच्चोभयाम्नानात्॥१..२५॥

'सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यन्ति' इत्याकाशशब्देन साक्षाद्ब्रह्म गृहीत्वा

जगदुत्पत्तिप्रलययोरुभयोराम्नानाद्ब्रह्म प्रकृतिरित्यर्थः॥


नन्वेकस्य कृतिमत्वं कृतिविषयत्वं च विरुद्धमित्याशङ्क्याह—

आत्मकृतेः परिणामात्॥१..२६॥

'तदात्मानं स्वयमकुरुत' इति आत्मानमिति द्वितीयया कृतिविषयत्वं स्वयमकुरुत इत्यनेन कृतिमत्त्वं चाम्नायते। तथा च ब्रह्मण उपादानत्वं निमित्तत्वं चाविरुद्धम्। कुतः, आत्मकृतेः आत्मसम्बन्धिनी कृतिरात्मकृतिः, ततो हेतोः। नन्वात्मनः कर्तृत्वेन पूर्वसिद्धस्य कथं कृतिकर्मत्वमत आह—परिणामात्। परिणामो विवर्तः। सिद्धस्यापि विवर्तात्मना साध्यत्वात्कर्मत्वोपपत्तिरित्यर्थः॥


किञ्च—

योनिश्च हि गीयते॥१..२७॥

'यद्भूतयोनिं परिपश्यन्ति' इति प्रकृतिवाचकयोनिशब्देन आत्मा हि यस्माद्गीयते, तस्मात् प्रकृतिः ब्रह्मेत्यतो ब्रह्मणः प्रकृतित्वं कर्तृत्वं च सिद्धम्॥


इत्थमभिहितेन न्यायेन 'ईक्षतेर्नशब्दम्' इत्यादिना अशब्दत्वादिहेतुभिः प्रधानकारणवादो यथा निराकृतः,

तथेहाणुस्वभावासत्कारणवादः। तेषामपि कारणत्वबोधकशब्दानां श्रुतत्वादिति प्रत्युदाहरणसङ्गत्येदमाह—

... सर्वव्याख्यानाधिकरणम्।

एतेन सर्वे व्याख्याता व्याख्याताः॥१..२८॥

अत्र पूर्वपक्षे ब्रह्मण्येव वेदान्तसमन्वयासिद्धिः, सिद्धान्ते तत्सिद्धिरिति फलभेदः। अत्र वेदान्ता विषयः। तत्र किं ब्रह्मण इव परमाणुशून्यादीनामपि क्वचिज्जगत्कारणत्वं श्रुतमस्ति, अथवा सर्वत्र ब्रह्मण एव सर्वकारणत्वं प्रतिनियतमिति संशये, 'अण्व्य इवेमा धानाः' 'असदेवेदमग्र आसीत्' 'स्वभावमेके' इत्यादिषु अण्वादीनामपि कारणत्वं श्रुतमिति पूर्वः पक्षः। सिद्धान्तस्तु— एतेन प्रधानवादनिराकरणे ये हेतवः अशब्दत्वाचेतनत्वैकविज्ञानप्रतिज्ञानुपपत्त्यादयः तेषामण्वादिपक्षेऽपि साम्येन, सर्वेऽण्वादिकारणवादा निराकृतत्वेन व्याख्याताः। न चासदित्यादिशब्दविरोधः। असच्छब्दस्य अनभिव्यक्तनामरूपपरत्वेन अविरोधात्। सूक्ष्मत्वाच्चात्मन्यणुशब्दो गौणः। स्वभाववादस्तु पूर्वपक्षत्वेनोपन्यस्तः। व्याख्याता इति पदाभ्यासोऽध्यायपरिसमात्यर्थः। तस्माज्जगत्कारणे सर्वज्ञे जिज्ञास्ये ब्रह्मणि वेदान्तानां समन्वयो नान्यत्रेति सिद्धम्॥


चतुत्रिंशत्परं सूत्रशतकं तु समन्वये।

अध्याये तद्वदेकोनचत्वारिंशन्न्याया मताः॥

ब्रह्मनाम्नि परे धाम्नि प्रत्यपादि समन्वयः।

त्रय्यन्तसन्ततेर्यस्मिंस्तदस्मिञ्ज्योतिराततम्॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीपरमशिवेन्द्रसरस्वतीपादाब्जसेवापरायणेन श्रीसदाशिवेन्द्रसरस्वत्या विरचितायां

श्रीमद्ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां प्रथमोऽध्यायः॥

Brahmatattvaprakashika, a vritti on Brahmasutras by Bhagavan Sadashivabrahmendra 1.3

 

तृतीयः पादः॥


इत्थं द्वितीयपादे अस्पष्टब्रह्मलिङ्गवाक्यानां प्रायश उपास्यत्वेन ब्रह्मणि समन्वयः प्रत्यपादि। अधुना तादृशानां वाक्यानां प्रायशो ज्ञेयत्वेन ब्रह्मणि समन्वयं प्रतिपादयितुं तृतीयपादोऽयमारभ्यते। वैश्वानराधिकरणे त्रैलोक्यात्मा वैश्वानरः परमात्मेत्यभिहितम्,

तर्हि त्रैलोक्यायतनमन्यदित्याक्षिप्य समाधानादाक्षेपसङ्गत्या, उपक्रमस्थसाधारणशब्दस्य वाक्यशेषस्थद्युमूर्धत्वादिना ब्रह्मपरत्वमुक्तम्, तद्वदत्रापि उपक्रमस्थसाधारणायतनत्वस्य 'अमृतस्यैष सेतुः' इति वाक्यशेषस्थसेतुत्वलिङ्गेन परिच्छिन्नप्रधानादिपरत्वमस्त्विति दृष्टान्तसङ्गत्या वा इदमधिकरणमारभते—

..१ द्युभ्वाद्यधिकरणम्।

द्युभ्वाद्यायतनं स्वशब्दात्॥१..१॥

अत्र पूर्वपक्षे प्रधानाद्युपास्तिः, सिद्धान्ते ब्रह्मप्रमितिरिति फलभेदः। मुण्डके श्रूयते— 'यस्मिन्द्यौः पृथिवी चान्तरिक्षमोतम्...' इत्यादि। तत्र द्युभ्वादीनामोतत्वेन किञ्चिदायतनं प्रतीयते। तत्किं प्रधानम् उत जीवः, आहोस्विद्ब्रह्मेति संशये, प्रधानादिरिति पूर्वः पक्षः। सिद्धान्तस्तु— द्द्युभ्वाद्यायतनं द्यौञ्च भूञ्च द्युभ्वौ, द्युभ्वौ आदी यस्य द्यौः पृथिव्यन्तरिक्षमित्येवमात्मकस्य, तद्द्युभ्वादि, तस्यायतनम् अधिष्ठानं ब्रह्मैव। कुतः, स्वशब्दात् स्वस्य परब्रह्मणो वाचको य आत्मशब्दः 'तमेवैकं जानथ आत्मानम्' इति श्रुतः तस्मादित्यर्थः। एवञ्च उपक्रमस्थसाधारणायतनत्वस्य गौणसेतुत्वलिङ्गात्प्रथमश्रुतात्मश्रुत्या ब्रह्मपरत्वमेव, न प्रधानादिपरत्वमिति भावः॥


द्द्युभ्वाद्यायतनं ब्रह्मेत्यत्र हेत्वन्तरमाह—

मुक्तोपसृप्यव्यपदेशात्॥१..२॥

मुक्तैरुपसृप्यं मुक्तोपसृप्यम्, भावप्रधानोऽयं निर्देशः। तथा च 'तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्' इति ब्रह्मणोऽविद्यातत्कार्यसकलानर्थोच्छेदद्वारा मुक्तप्राप्यत्वस्य व्यपदिश्यमानत्वात्। अतो द्यु॒द्युभ्वाद्यायतनं ब्रह्मैवेत्यर्थः॥


सिद्धान्तमभिधाय प्रधानपक्षं निषेधति—

नानुमानमतच्छब्दात्॥१..३॥

अनुमीयत इत्यनुमानम्, साङ्ख्यपरिकल्पितं प्रधानम् न तद्द्युभ्वाद्यायतनम्। कुतः, अतच्छदात् तस्याचेतनस्य प्रधानस्य प्रतिपादकः शब्दः तच्छब्दः, न तच्छब्दोऽतच्छब्दः, तस्मात् प्रधानप्रतिपादकशब्दस्येहाश्रवणात्, प्रत्युत तद्विपरीतचेतनप्रतिपादकस्य 'यः सर्वज्ञः सर्ववित्' इत्यादेः शब्दस्य श्रवणादित्यर्थः॥


ननु तर्हि शारीरोऽस्तु द्युभ्वाद्यायतनम् तस्य चेतनत्वादियोगादित्याशङ्क्याह—

प्राणभृच्च॥१..४॥

प्राणभृत् शारीरोऽपि न द्युभ्वाद्यायतनम्। कुतः, अतच्छब्दादेव, शारीरस्य सर्वज्ञत्वासम्भवात् तत्साधारण आत्मशब्दोऽतच्छब्द एव॥


शारीरनिरासे हेत्वन्तरमाह त्रिभिः सूत्रैः—

भेदव्यपदेशात्॥१..५॥

"तमेवैकं जानथ' इति ज्ञातृज्ञेयभावेन जीवपरयोर्भेदेन व्यपदिश्यमानत्वादित्यर्थः॥

प्रकरणात्॥१..६॥

'कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातम्' इत्युपक्रमात् ब्रह्मण एवेदं प्रकरणम्। न हि शारीरज्ञानात् सर्वविज्ञानं सम्भवति। तस्मात्प्रकरणादपि न शारीर इत्यर्थः॥

स्थित्यदनाभ्यां च॥१..७॥

'द्वा सुपर्णा' इति मन्त्रे 'अननन्नन्यो अभिचाकशीति' इत्यौदासीन्येन स्थितिः परमात्मनो निर्दिश्यते, 'तयोरन्यः पिप्पलं स्वाद्वत्ति' इति अदनं शारीरस्य। अतः स्थित्यदनाभ्यां न शारीरो द्युभ्वाद्यायतनम् अपि तु परं ब्रह्मैवेति सिद्धम्॥


पूर्वमात्मशब्दात् द्युभ्वाद्यायतनं ब्रह्मेत्युक्तम्। तन्न। 'तरति शोकमात्मवित्' इत्यत्राब्रह्मणि प्राणेऽपि आत्मशब्दप्रयोगात् इत्याक्षेपसङ्गत्येदमाह—

... भूमाधिकरणम्।

भूमा सम्प्रसादादध्युपदेशात्॥१..८॥

अत्र पूर्वपक्षे प्राणोपास्तिः, सिद्धान्ते तु ब्रह्मधीरिति फलभेदः। छान्दोग्ये श्रूयते— 'भूमा त्वेव विजिज्ञासितव्य इति भूमानं भगवो विजिज्ञास इति। यत्र नान्यत्पश्यति...' इत्यादि। तत्र किं प्राणो भूमा, उत परमात्मेति सन्देहे, प्राण इति पूर्वः पक्षः। सिद्धान्तस्तु— भूमा परमात्मैव। कुतः, सम्प्रसादादध्युपदेशात् सम्यक्प्रसीदत्यस्मिन् जीव इति सम्प्रसादः सुषुप्त्यवस्था, तस्यां प्राणो जागर्तीति सम्प्रसादशब्देन प्राणोऽभिधीयते। प्राणादधि प्राणोपदेशानन्तरम्, 'एष तु वा अतिवदति यः सत्येनातिवदति' इति तुशब्देन प्राणवादस्यानतिवादित्वमभिधाय सत्यशब्दवाच्यपरमात्मवादस्यातिवादित्वं ब्रुवता भूम्न एवोपदिश्यमानत्वात्। 'तरति शोकमात्मवित्' इति प्रश्नवाक्ये आत्मोपक्रमेणात्मप्रकरणात्प्राणसंनिधेर्दुर्बलतया न प्राणो भूमा, परमात्मैवेति सिद्धम्॥


परमात्मनो भूमत्वे युक्त्यन्तरमाह—

धर्मोपपत्तेश्च॥१..९॥

'यत्र नान्यत्पश्यति' इत्यादिनोक्तानां सर्वव्यवहाराभावादिधर्माणां परमात्मन्येवोपपत्तेः परमात्मैव भूमेत्यर्थः॥


पूर्वं सत्यशब्दस्य ब्रह्मणि रूढत्वात् भूमा ब्रह्मेत्युक्तम्। तद्वदिहाप्यक्षरशब्दस्य वर्णे रूढत्वाद्वर्ण एवाक्षरमस्त्विति दृष्टान्तसङ्गत्येदमाह—

... अक्षराधिकरणम्।

अक्षरमम्बरान्तधृतेः॥१..१०॥

अत्र पूर्वपक्षे ओङ्काररूपाक्षरोपास्तिः, सिद्धान्ते ब्रह्मज्ञानमिति फलभेदः। बृहदारण्यके गार्गीं प्रति याज्ञवल्क्य आह—

'एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यधिकरणम्। अस्थूलम्...' इत्यादि। तत्र किम् अक्षरशब्देन वर्ण उच्यते, उत ब्रह्मेति सन्देहे, वर्ण इति पूर्वः पक्षः। सिद्धान्तस्तु— न क्षरतीत्यक्षरं ब्रह्मैव। कुतः, अम्बरान्तधृतेः 'एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च' इति पृथिव्यादेः आकाशान्तस्य विकारजातस्य धारणादित्यर्थः॥


नन्वम्बरान्तधारणं प्रधानेऽपि सम्भवतीत्यत आह—

सा च प्रशासनात्॥१..११॥

सा च धृतिः परमेश्वरस्यैव कर्म, नान्यस्याचेतनस्य। कुतः प्रशासनात् 'एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ

विवृतौ तिष्ठतः' इत्यादिना प्रशासनश्रवणादित्यर्थः॥


प्रधानादिनिरासेन ब्रह्मोपादाने हेत्वन्तरमाह—

अन्यभावव्यावृत्तेश्च॥१..१२॥

अन्यस्य प्रधानादेः भावो धर्मः सोऽन्यभावः, तद्व्यावृत्तेः 'तद्वा एतदक्षरं गार्ग्यदृष्टं द्रष्टृ...' इत्यादितद्विपरीतधर्मश्रवणात् न प्रधानादि अक्षरम्। किन्तु ब्रह्मैवेति सिद्धम्॥


पूर्वं वर्णे रूढस्याक्षरशब्दस्य जगद्धृतिलक्षणलिङ्गेन ब्रह्मणि 'न क्षरति' इति योगवृत्तिराश्रिता। तद्वदिहापि देशपरिच्छिन्नफलश्रुतिलिङ्गेन परशब्दस्य आपेक्षिकपरत्वविशिष्टे हिरण्यगर्भे वृत्तिरस्त्विति दृष्टान्तसङ्गत्येदमाह—

... ईक्षतिकर्माधिकरणम्।

ईक्षतिकर्मव्यपदेशात्सः॥१..१३॥

अत्र पूर्वपक्षे कार्यब्रह्मोपास्तिः, सिद्धान्ते परब्रह्मोपास्तिरिति फलभेदः। प्रश्नोपनिषदि श्रूयते— 'यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत...' इति। तत्र ध्येयं वस्तु किं हिरण्यगर्भाख्यमपरं ब्रह्म, उत परं ब्रह्मेति विशये, अपरमिति पूर्वः पक्षः। सिद्धान्तस्तु— सः ध्यातव्यः परमात्मैव। कुतः, ईक्षतिकर्मव्यपदेशात् 'परात्परं पुरिशयं पुरुषमीक्षते' इति वाक्यशेषे ध्यातव्यस्य ईक्षतिकर्मत्वेन व्यपदेशात्, ध्यानेक्षणयोरेकविषयत्वनियमात्। अतः क्रममुक्त्यर्थमोंकारावलम्बनेन ध्यातव्यः परमात्मैवेति समञ्जसम्॥


पूर्वं परपुरुषशब्दस्य ब्रह्मणि रूढत्वात् ब्रह्म उपास्यमित्युक्तम्। तद्वदिहाप्याकाशशब्दस्य भूताकाशे रूढत्वात् तस्यैवोपास्यत्वमस्त्विति दृष्टान्तसङ्गत्येदमाह्—

..४ दहराधिकरणम्।

दहर उत्तरेभ्यः॥१..१४॥

अत्र पूर्वपक्षे आकाशाद्युपास्तिः, सिद्धान्ते ब्रह्मोपास्तिरिति फलभेदः। छान्दोग्ये श्रूयते— 'अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाश' इत्यादि। तव दहरपुण्डरीके यो दहराकाशः श्रुतः स किं भूताकाशः, उत जीवः, उताहो परमात्मेति विशये, भूताकाशादिरिति पूर्वं पक्षः। सिद्धान्तस्तु— दहराकाशः परमात्मैव। कस्मात्, उत्तरेभ्यः 'यावान्वा

अयमाकाशस्तावानेषोऽन्तर्हृदय आकाश उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहिते एष आत्मापहतपाप्मा' इत्यादिवाक्यशेषगतेभ्य आकाशोपमानत्वद्यावापृथिव्याधिष्ठानत्वात्मत्वापह्तपाप्मत्वादिहेतुभ्य इत्यर्थः॥


दहराकाशस्य परब्रह्मपरत्वे हेत्वन्तरमाह—

गतिशब्दाभ्यां तथाहि दृष्टं लिङ्गं च॥१..१५॥

'इमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ति' इति दहरवाक्यशेषे प्रजाशब्दवाच्यानां जीवानां प्रत्यहमुच्यमाना प्रकृतदहरविषया या गतिः, यश्च ब्रह्मलोकशब्दः, ताभ्यां दहरस्य परब्रह्मतावगम्यते। तथाहि दृष्टं श्रुत्यन्तरे 'सता सोम्य तदा सम्पन्नो भवति' इति। एवञ्च प्रत्यहं हिरण्यगर्भलोकगमनासम्भवाद्ब्रह्मैव लोक इति सामानाधिकरण्यस्य परिग्रहे अहरहर्गमनमेव लिङ्गं ज्ञापकम्। चशब्देन निषादस्थपतिन्यायोऽपि सामानाधिकरण्यपरिग्रहे सूचित इति ध्येयम्॥


दहरस्य परब्रह्मत्वे हेत्वन्तरमाह द्वाभ्याम्—

धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः॥१..१६॥

'अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसम्भेदाय' इति श्रुताया धृतेरपि हेतोर्दहराकाशः परमात्मैव। अस्य च

सर्वलोकविधारणलक्षणमहिम्नः अस्मिन् परमात्मनि 'एष भूतपाल एष सेतुर्विधरणः' इत्यादिश्रुत्यन्तरेऽप्युपलब्धेरित्यर्थः॥

प्रसिद्धेश्च॥१..१७॥

दहराकाशस्थापि परमात्मन्येव प्रसिद्धेः, लोकरूढ्यपेक्षया 'आकाशो वै नाम नामरूपयोर्निर्वहिता' इत्यादिश्रौतरूढेर्बलीयस्त्वात् दहराकाशः परमात्मैव, न भूताकाश इति सिद्धम्॥


ननु तर्हि जीवोऽस्त्वित्याशङ्क्याह—

इतरपरामर्शात्स इति चेन्नासम्भवात्॥१..१८॥

'एष सम्प्रसादः' इति सम्प्रसादशब्देन इतरस्याप्यस्मिन्प्रकरणे परामर्शात्स जीवो दहराकाशोऽस्त्विति चेत्, न। असम्भवात् जीवे आकाशोपमेयत्वापहतपाप्मत्वादीनामसम्भवादित्यर्थः॥


इत्थमभिहितासम्भवस्यासिद्धिमाशङ्क्य परिहरति—

उत्तराच्चेदाविर्भूतस्वरूपस्तु ॥१..१९॥

उत्तरात् 'य एषोऽक्षिणि पुरुषो दृश्यते' इत्यादिप्रजापतिवाक्यात् जाग्रदाद्यवस्थापन्ने जीवे अपहतपाप्मत्वादिसम्भवाज्जीव एव दहराकाश इति चेत्, अत्राह— आविर्भूत स्वरूपस्तु। तुशब्दो जीवशङ्काव्यावृत्त्यर्थः। यतः तत्राप्याविर्भूतं पारमार्थिकं स्वरूपमस्येत्याविर्भूतस्वरूपो जीवो विवक्षितः, न तु जीवत्वेन रूपेण। 'परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते' इत्युपसंहारदर्शनात्। अतः तस्य ब्रह्मत्वेनापहतपाप्मत्वादिसम्भव इति जीवत्वेन तदसम्भवान्न पूर्वसूत्रस्थहेतुरसिद्ध इति भावः॥


ननु तर्हि 'सम्प्रसादः' इति जीवपरामर्शो व्यर्थः स्यादित्यत आह—

अन्यार्थश्च परामर्शः॥१..२०॥

जीवपरामर्शः 'अभिनिष्पद्यते' इति उपसम्पत्तव्यपरमात्मपर एव, न जीवप्रतिपादनार्थ इत्यर्थः॥


जीवपूर्वपक्षबीजमाशङ्क्य परिहरति—

अल्पश्रुतेरिति चेत्तदुक्तम्॥१..२१॥

'दहरोऽस्मिन्नन्तरराकाशः' इत्याकाशस्याल्पत्वश्रवणान्न परमात्मत्वम्, किन्तु जीवत्वमिति चेत्, तत्र समाधानमुक्तम्ब्रह्मसूत्रवृत्तौ 'अर्भकौकस्त्वात्तद्व्यपदेशाच्च...' ' इत्यत्र। तस्माद्दहराकाशः परमात्मैवोपास्य इति सिद्धम्॥


पूर्वम् 'परं ज्योतिरुपसम्पद्य...' इति वाक्यार्थविचारप्रसङ्गात् 'तच्छुभ्रं ज्योतिषां ज्योतिः...' '...' आयुर्होपासतेऽमृतम्' इति वाक्योक्तपरञ्ज्योतिष्ट्वसाधकम् 'न तत्र सूर्यः' इत्यादिवाक्यं विचार्यत इति प्रसङ्गसङ्गत्येदमाह—

... अनुकृत्यधिकरणम्।

अनुकृतेस्तस्य च॥१..२२॥

अत्र पूर्वपक्षे अलौकिकतेजस उपास्तिः, सिद्धान्ते निर्विशेषब्रह्मधीरिति फलभेदः। मुण्डके श्रूयते— 'न तत्र सूर्यो भाति न चन्द्रतारकम्...' इत्यादि। तत्र सूर्यादिजगद्भासकतया प्रतीयमानं किं तेजोविशेषः, उत ब्रह्मेति संशये, प्रबलेन तेजसा दुर्बलस्याभिभवदर्शनात्तेजोविशेष इति पूर्वः पक्षः। सिद्धान्तस्तु— तथा प्रतीयमानं ब्रह्मैव। कुतः, अनुकृतेः अनुकृतिरनुकरणं

'तमेव भान्तमनुभाति सर्वम्' इत्यनुभानात्। न हि सूर्यादिकं तेजस्तेजोऽन्तरमनुभाति, लोके तददर्शनात्। तर्हि प्राप्तं स्वतः सूर्यादेर्भानमित्यत्राह— तस्य चेति भासा सर्वमिदं विभाति' इति ब्रह्मभासा भास्यत्वावगमात्। न च विपरीतं किं न स्यादिति वाच्यम्, 'तच्छुभ्रं ज्योतिषां ज्योतिः' इति वाक्योपक्रमे ब्रह्मणः स्वयञ्ज्योतिष्ट्वावगमात्, 'न तत्र...' इति तच्छब्देन तस्यैव प्रकृतज्योतिषः परामर्शात्। अतः स्वयञ्ज्योतिः सूर्यादिसकलजगदवभासकं ब्रह्मैव, न तु लौकिकं तेजः, तस्यात्राप्रकृतत्वादिति सिद्धम्॥


अस्मिन् श्रुत्युक्तार्थे स्मृतिं दर्शयितुमाह—

अपि च स्मर्यते॥१..२३॥

'न तद्भासयते सूर्यो न शशाङ्को न पावकः' 'यदादित्यगतं तेजो जगद्भासयतेऽखिलम्...' इति भगवद्गीतासु स्मर्यत इत्यर्थः॥


पूर्वमनुभानादिना लिङ्गेन तत्रेति विषयसप्तमीं कृत्वा न भातीत्यादौ णिजध्याहारेण न भासयतीत्यर्थो वर्णितप्रायः। तथेहापि 'अङ्गुष्ठमात्रः' इति परिमाणलिङ्गाज्जीवमादाय ईशानोऽस्मीति भावयेदिति विध्यध्याहारेणोपास्तिपरमङ्गुष्ठवाक्यमस्त्विति दृष्टान्तसङ्गत्येदमाह—

... प्रमिताधिकरणम्।

शब्दादेव प्रमितः॥१..२४॥

अत्र पूर्वपक्षे जीवोपास्तिः, सिद्धान्ते तस्यैव परमात्मतया धीरिति फलभेदः। कठवल्लीषु श्रूयते— 'अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः। ईशानो भूतभव्यस्य...' इति। तत्र किमयमङ्गुष्ठवाक्यप्रतिपाद्यो जीवः, उत ब्रह्मेति सन्देहे, जीव इति पूर्वः पक्षः। सिद्धान्तस्तु— प्रमितः वाक्यप्रतिपाद्यः प्रत्यगभिन्नपरमात्मैव। कुतः, शब्दादेव 'ईशानो भूतभव्यस्य...' इत्यत्र ईशानशब्दात्। न चाङ्गुष्ठमात्रजीवलिङ्गविरोधः, लिङ्गश्रुत्योर्विरोधे श्रुतेरेव प्रबलत्वात्। न च परमात्मनोऽङ्गुष्ठमात्रत्वानुपपत्तिः, अङ्गुष्ठमात्रजीवानुवादेन ब्रह्माभेदबोधनादिति समञ्जसम्॥


ननु जीवस्य परमार्थतः सर्वगतब्रह्मत्वेन कथमङ्गुष्ठमात्रत्वमित्यत आह—

हृद्यपेक्षया तु मनुष्याधिकारत्वात्॥१..२५॥

तुशब्दः शङ्कानिरासार्थः। मनुष्याधिकारत्वाच्छास्त्रस्य, मनुष्याणां हृदयस्याङ्गुष्ठमात्रत्वात्तदपेक्षया सर्वगतस्यात्मनः अङ्गुष्ठमात्रत्वमविरुद्धम्। अतोऽङ्गुष्ठवाक्ये प्रतिपाद्यः परमात्मैवेति सिद्धम्॥


पूर्वं मनुष्याधिकारं शास्त्रमित्युक्ते तर्ह्यमनुष्याणां देवादीनामधिकारो न स्यादित्याक्षिप्य समाधीयत इत्याक्षेपसङ्गत्या

प्रसङ्गसङ्गत्या वा इदमाह—

... देवताधिकरणम्।

तदुपर्यपि बादरायणः सम्भवात्॥१..२६॥

अत्र पूर्वपक्षे मन्त्राद्यप्रामाण्यादुपगमनादिवाक्यानामपि स्वार्थे तदयोगात्तत्त्वमस्यादेरपि नैक्यनिष्ठतेति फलम्, सिद्धान्ते तत्सर्वसम्भवादैक्यनिष्ठतेति फलम्। बृहदारण्यके श्रूयते— 'तद्यो यो देवानां प्रत्यबुध्यत स एव तद्भवत्' इत्यादि। तत्र किं देवानां

ब्रह्मविद्यायामधिकारोऽस्ति न वेति सन्देहे, नास्तीति पूर्वः पक्षः। सिद्धान्तस्तु— तदुपर्यपि तेषां मनुष्याणामुपरिष्टात् ये देवादयः तेषामपि ब्रह्मविद्यायामधिकारोऽस्तीति बादरायण आचार्यो मन्यते स्म। कस्मात्, सम्भवात् अर्थित्वसामर्थ्याद्यधिकारकारणस्य सम्भवादित्यर्थः॥


ननु यदीन्द्रादीनां विग्रहवत्त्वेन विद्याधिकारः, तर्हि कर्मणि विरोध इत्याशङ्क्याह—

विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेदर्शनात्॥१..२७॥

इन्द्रादीनामृत्विगादिवदेकस्य शरीरस्य अनेकत्र कर्मणि युगपत्संनिधानासम्भवात्कर्मविरोधः प्रसज्येतेति चेत्, न। कस्मात्,

अनेकप्रतिपत्तेर्दर्शनात् एकस्येन्द्रस्य अनेकेषां शरीराणां युगपत्प्राप्तेः 'स एकधा भवति त्रिधा भवति' इत्यादिश्रुतौ दर्शनात्। यद्वा अनेकत्र कर्मणि एकस्य प्रतिपत्तिः अङ्गभावः तस्य ब्राह्मणो लोके दर्शनात्। यथा बहुभिर्नमस्कुर्वाणैर्युगपदेको नमस्क्रियमाणो दृश्यते तद्वदित्यर्थः॥


ननु मास्तु कर्मणि विरोधः, शब्दे स्यादित्याशङ्क्याह—

शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम्॥१..२८॥

शब्दे वेदवाक्ये अनित्यविग्रहवद्देवादेर्नित्यवेदार्थत्वाङ्गीकारे शब्दस्य अर्थेन सह नित्यसम्बन्धाभावेन नित्यानित्यसंयोगविरोध इति चेत्, न। अतः प्रभवात् अत एव हि वैदिकाच्छब्दात् देवादिजगत्प्रभवात् उत्पत्तेः। कथं तत्प्रभवत्वं देवादेः। प्रत्यक्षानुमानाभ्यां श्रुतिस्मृतिभ्याम्। 'एत इति वै प्रजापतिर्देवानसृजत' इत्यादिका श्रुतिः, 'वेदशब्देभ्य एवादौ' इत्यादिका स्मृतिः। ताभ्यां नित्यशब्दप्रभवत्वं देवादेरवगम्यते। एवञ्च देवादिव्यक्त्युत्पत्तावपि तन्निष्ठनित्याकृतेर्वेदार्थत्वात्तत्सम्बन्धो नित्य इत्याविरुद्धम्॥


नन्वेवमपि 'अतः प्रभवात्' इति देवादेर्वेदप्रभवत्वोक्त्या तदुत्पादकवेदस्यापि प्रभवप्रसङ्गादनित्यत्वमाशङ्क्याह—

अत एव च नित्यत्वम्॥१..२९॥

अत एव नियताकृतेर्देवादेर्जगतो वेदशब्दप्रभवत्वादेव वेदस्य नित्यत्वं प्रत्येतव्यम्। कर्त्रस्मरणात्सिद्धमेव वेदनित्यत्वमनेन दृढीकृतमिति बोध्यम्॥


ननु महाप्रलये आकृतेरप्यनित्यत्वाच्छब्दार्थसम्बन्धस्यानित्यत्वविरोधस्तदवस्थ एवेत्याशङ्क्याह—

समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात्स्मृतेश्च॥१..३०॥

सुषुप्तिप्रबोधयोरिव सृष्टिप्रलययोरावृत्तावपि प्रलये प्रपञ्चस्य संस्कारात्मना अविद्यायां विद्यमानत्वेन पूर्वकल्पप्रपञ्चसमाननामरूपत्वात् उत्तरकल्पप्रपञ्चस्य आकृतेर्नित्यतया न शब्दार्थसम्बन्धस्यानित्यत्वविरोधः। कथं समाननामरूपत्वम्। दर्शनात स्मृतेश्च। 'धाता यथा पूर्वमकल्पयत्' इति श्रुतौ दर्शनात्। 'यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये। दृश्यन्ते तानि तान्येव तथा भावा युगादिषु' इत्यादिस्मृतेश्च॥


इत्थमभिहितं देवानामधिकारमाक्षिपति—

मध्वादिष्वसम्भवादनधिकारं जैमिनिः॥१..३१॥

ब्रह्मविद्यायां देवादीनामनधिकारं जैमिनिराचार्यो मन्यते। कस्मात्, मध्वादिष्वसम्भवात् 'असौ वा आदित्यो देवमधु' आदित्यो ब्रह्मेत्यादेशः' इत्यादिषु मधुब्रह्माध्यासेनादित्यदेवतोपासनेषु मनुष्याधिकारकेषु तेषामेवादित्यादीनामधिकारासम्भवात्। न ह्येकस्योपास्योपासकभावः सम्भवति, तस्य भेदनिष्ठत्वात्। तथा चायं प्रयोगः— ब्रह्मविद्या न देवादीनधिकरोति, विद्यात्वान्मधुविद्यावदिति॥


ननु क्वचिदनधिकारान्न सर्वत्रानाधिकारोऽस्ति, ब्राह्मणस्य राजसूयानधिकारेऽपि बृहस्पतिसवेऽधिकारादित्याशङ्क्याह—

ज्योतिषि भावाच्च॥१..३२॥

लौकिकयोरादित्यशब्दप्रत्यययोर्ज्योतिर्मण्डले भावात्, तेषामस्मदादिवदिष्टानिष्टप्राप्तिपरिहाररूपचेष्टाया अदर्शनेन अचेतनत्वावधारणात् तदतिरिक्तस्याचेतनस्य विग्रहादिमतः प्रत्यक्षाद्यगोचरत्वात्, तद्विग्रहादिप्रतिपादकानां मन्त्राणामन्यपरत्वेन स्वार्थे प्रामाण्याभावान्न देवानां विद्याधिकार इति सूत्रद्वयस्य तात्पर्यार्थः॥


इत्थं पूर्वपक्षे, सिद्धान्तयति—

भावं तु बादरायणोऽस्ति हि॥१..३३॥

तुशब्दो जैमिनिमतनिरासार्थः। बादरायणस्त्वाचार्यो देवादीनां विग्रहवत्त्वेन ब्रह्मविद्यायामधिकारभावं मन्यते। कस्मात् अस्ति ह्यर्थित्वाद्यधिकारकारणम्। न हि क्वचिदधिकारो नेति सर्वत्र वक्तुं पार्यते, निर्गुणविद्यायां सम्भवाद्बृहस्पतिसवे ब्राह्मणस्येव। न च विग्रहवत्त्वं नेति वाच्यम्। तदप्यस्ति हि, तत्प्रतिपादकमन्त्राणां मानान्तरविरोधसंवादाभावेन प्रमाणत्वादिति दिक्॥


पूर्वं यथा 'तद्यो यो देवानाम्...' इति देवशब्दश्रुत्या मनुष्याधिकारनियमापवादेन देवानामधिकार उक्तः, तथेह् शूद्रशब्दश्रुत्या द्विजजात्यधिकारनियममपोद्य शूद्रस्याप्यधिकारोऽस्त्विति दृष्टान्तसङ्गत्येदमाह—

... अपशूद्राधिकरणम्।

शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि॥१..३४॥

अथ पूर्वपक्षे जातिशूद्रस्यापि ब्रह्मविद्यायां त्रैवर्णिकादविशेषः फलम्, सिद्धान्ते ततो विशेष इति विवेकः। छान्दोग्ये संवर्गविद्यायां श्रूयते— 'अहहारे त्वा शूद्र तवैव सह गोभिरस्तु' इति। तत्र श्रूयमाणस्य शूद्रस्य ब्रह्मविद्यायामधिकारोऽस्ति न वेति सन्देहे, अस्तीति पूर्वःपक्षः। सिद्धान्तस्तु— अस्य जानश्रुतेः क्षत्रियस्य तदनादरश्रवणात् तस्य हंसस्यानादरश्रवणाद्या शुगुत्पन्ना, सा शूद्रशब्देन सूच्यते हि रैक्वेण स्वस्य सर्वज्ञत्वज्ञापनार्थम्। योगेनापि शूद्रशब्दस्य क्षत्रियपरत्वमाह— तदाद्रवणात्। तं रैक्वं

प्रति जानश्रुतिः विद्याराहित्यजनितया शुचा दुद्रावेति शूद्रो जानश्रुतिरित्युच्यते। अतो न शूद्रस्याधिकार इत्यर्थः॥


ननु मुख्य एव शूद्रो जानश्रुतिरस्तु, किं जघन्येन योगेनेत्यत आह—

क्षत्रियत्वगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात्॥१..३५॥

जानश्रुतिर्न मुख्यशूद्रः। कुतः, क्षत्रियत्वगतेः क्षत्रियत्वस्यावगतेः। तत्कस्मात्, उत्तरत्र संवर्गविद्यावाक्यशेषे चैत्ररथेन प्रसिद्धक्षत्रियेण अभिप्रतारिणा समभिव्याहारात्मकलिङ्गादित्यर्थः। समानजातीयानामेव हि प्रायेण सहचारो भवतीति भावः। अतो न जातिशूद्रस्याधिकार इति सिद्धम्॥


ननु कस्मान्नाधिकार इत्यत आह—

संस्कारपरामर्शात्तदभावाभिलापाच्च॥१..३६॥

'तं होपनिन्ये' 'अधीहि भगव इति होपससाद' इत्यादिविद्या प्रदेशेषूपनयनादिसंस्कारपरामर्शात्। तर्हि शूद्रस्याप्युपनयनं कल्प्यतामित्यत आह— तदभावाभिलापाच्च। 'न शूद्रे पातकं किञ्चिन्न च संस्कारमर्हति' इत्यादिना उपनयनादिसंस्काराभावाभिधानादित्यर्थः॥


किञ्च—

तदभावनिर्धारणे च प्रवृत्तेः॥१..३७॥

तस्य जाबालस्य सत्यवचनेन शूद्रत्वाभावनिर्धारणे सत्येव गौतमस्य विद्योपदेशे प्रवृत्तिदर्शनात्। अतो न शूद्रस्याधिकार

इत्यर्थः॥


अपि च—

श्रवणाध्ययनार्थप्रतिषेधात्स्मृतेश्च॥१..३८॥

स्मृतेः 'अथास्य वेदमुपशृण्वतस्त्रपुजतुभ्यां श्रोत्रप्रतिपूरणम्' 'तस्माच्छूद्रसमीपे नाध्येतव्यम्' 'न शूद्राय मतिं दद्यात्' 'द्विजातीनामध्ययनमिज्या दानम्' इत्यादिस्मृतितो वेदश्रवणस्य तदध्ययनस्य तदर्थयोस्तत्प्रयोजनयोरर्थज्ञानानुष्ठानयोश्च प्रतिषेधात्। अतः कथञ्चिदपि न शूद्रस्य ब्रह्मविद्यायां विधिपूर्वकाधिकार इति सिद्धम्॥


समाप्तः प्रासङ्गिकोऽधिकारविचारः। अधुना प्रकृतवाक्यार्थविचारं प्रवर्तयिष्यामः। प्रासङ्गिकत्वान्नाव्यवहितेनास्य सङ्गत्यपेक्षा। पूर्वम् 'शब्दादेव प्रमितः' इत्यत्र ब्रह्मवाक्ये जीवानुवादो ब्रह्मज्ञानायेत्युक्तम्। न तथेह 'यदिदम्' इति वाक्ये प्राणानुवादो युक्तः,

तस्य स्वरूपतः कल्पितस्य ब्रह्मैक्यायोगादिति प्रत्युदाहरणसङ्गत्येदमाह—

..१०. कम्पनाधिकरणम्।

कम्पनात्॥१..३९॥

अत्र पूर्वपक्षे प्राणोपास्तिः, सिद्धान्ते निर्विशेषब्रह्मधीरिति फलभेदः। कठवल्लीषु श्रूयते— 'यदिदं किञ्च जगत्सर्वं प्राण एजति निःसृतम्' इत्यादि। तत्र 'एजृ कम्पने' इति धातोः कम्पनार्थकत्वात्सर्वजगत्कम्पनहेतुः प्राणः प्रतीयते। स किं वायुविकारः, उत परमात्मेति सन्देहे, वायुविकार इति पूर्वः पक्षः। सिद्धान्तस्तु— प्राणस्य प्राणम् ...' ' इति प्राणशब्दस्य परमात्मनि प्रसिद्धेः इह प्राणशब्दवाच्यः परमात्मैव। कुतः, कम्पनात् सर्वस्य सवायुकस्य जगतो जीवनादिचेष्टाहेतुत्वात्। तद्धेतुत्वं च 'न प्राणेन नापानेन...' इत्यादिश्रुतिप्रसिद्धम्॥


पूर्वं सर्वशब्दश्रुतिसङ्कोचानुपपत्त्या प्रकरणात्प्राणशब्दं ब्रह्मेत्युक्तम्। न तथेह् सम्प्रसादवाक्ये प्रकरणानुग्राहकं किञ्चिदस्ति, येन प्रकरणाज्ज्योतिःशब्दितं ब्रह्म स्यादिति प्रत्युदाहरणसङ्गत्येदमाह—

..११. ज्योतिरधिकरणम्।

ज्योतिर्दर्शनात्॥१..४०॥

अत्र पूर्वपक्षे आदित्योपास्त्या क्रममुक्तिः, सिद्धान्ते ब्रह्मज्ञानान्मुक्तिरिति फलभेदः। छान्दोग्ये प्रजापतिविद्यायां श्रूयते— “य एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य...' इत्यादि। तत्र किं ज्योतिःशब्दितमादित्यादितेजः, उत ब्रह्मेति विशये, आदित्यादितेज इति पूर्वः पक्षः। सिद्धान्तस्तु— ज्योतिरत्र परब्रह्मैव। कुतः, दर्शनात् 'य आत्मापहतपाप्मा' इत्युपक्रमालोचनया ब्रह्मण एव प्रतिपाद्यतयानुवृत्तिदर्शनादित्यर्थः॥


यथा पूर्वमुपक्रमवशादर्थान्तरे प्रसिद्धोऽपि ज्योतिःशब्दः स्वार्थात्प्रच्यावितः, तथाकाशोपक्रमवशाद्ब्रह्मादिशब्दोऽपि स्वार्थात्प्रच्याव्यतामिति दृष्टान्तसङ्गत्येदमाह—

..१२. अर्थान्तरत्वादिव्यपदेशाधिकरणम्।

आकाशोऽर्थान्तरत्वादिव्यपदेशात्॥१..४१॥

अत्र पूर्वपक्षे भूताकाशात्मकब्रह्मोपास्त्या क्रममुक्तिः, सिद्धान्ते ब्रह्मधिया मुक्तिरिति फलभेदः। छान्दोग्ये श्रूयते—

'आकाशो वै नाम नामरूपयोर्निर्वहिता...' इत्यादि। तत्र किमाकाशशब्दितो भूताकाश, उत परमात्मेति विशये, भूताकाश

इति पूर्वः पक्षः। सिद्धान्तस्तु— परमात्मैव आकाशशब्दितः। कस्मात् अर्थान्तरत्वादिव्यपदेशात् 'ते यदन्तरा' इत्याकाशस्य नामरूपाभ्यामर्थान्तरत्वेन व्यपदेशात्। आदिशब्देन 'तद्ब्रह्म तदमृतं स आत्मा' इति ब्रह्मत्वादिव्यपदेशो द्रष्टव्यः॥


पूर्वं नामरूपाभ्यां भेदोक्तेराकाशो ब्रह्मेत्युक्तम्, तन्न। 'प्राज्ञेनात्मना सम्परिष्वक्तः...' इत्यत्राभिन्नेऽपि जीवे भेदोपचारात् इत्याक्षिप्य समाधानादाक्षेपसङ्गत्येदमाह—

..१३. सुषुत्युत्क्रान्त्यधिकरणम्।

सुषुप्त्युत्क्रान्त्योर्भेदेन॥१..४२॥

अत्र पूर्वपक्षे जीवानुवादेन कर्मशेषकर्तृस्तुतिः, सिद्धान्ते तदनुवादेन तत्तादात्म्यधीरिति फलभेदः। बृहदारण्यके श्रूयते— 'योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः' इत्यादि। तत्किं जीवानुवादकम् उत तदनुवादेनासंसारिब्रह्मस्वरूपप्रतिपादकमिति सन्देहे, जीवानुवादकमिति पूर्वः पक्षः। सिद्धान्तस्तु— विज्ञानमयसुषुप्त्याद्यवस्थावज्जीवानुवादेन ब्रह्माभेदप्रतिपादकमिदं वाक्यम्। कस्मात्, 'प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम्' 'प्राज्ञेनात्मनान्वारूढ उत्सर्जन्याति' इति सुषुत्युत्क्रान्त्योरवस्थयोः शारीराद्भेदेन परमात्मनः प्राज्ञशब्देन व्यपदेशादित्यर्थः॥


इतश्च ब्रह्माभेदप्रतिपादकमिदं वाक्यमित्याह—

पत्यादिशब्देभ्यः॥१..४३॥

'सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः' इति पत्यादिशब्दा असंसारित्वप्रतिपादकाः, 'स न साधुना कर्मणा भूयान्' इत्याद्याः संसारित्वनिषेधकाः एतद्वाक्यगताः। तेभ्योऽसंसारिब्रह्मात्मप्रतिपादकमिदं वाक्यमिति समञ्जसम्॥


इति श्रीब्रह्मतत्त्वप्रकाशिकायां प्रथमाध्यायस्य तृतीयः पादः॥