Acharya Anandagiri's Tika on Mundakopanishad


With quite some effort spread across some weeks, I finally keyed in Bhagavan Anandagiri's Tika on Mundaka Upanishad Shankarabhashyam. I'm sharing the same here in case someone finds its useful. I haven't seen it available anywhere online, except as part of some scanned books. However, the following is in unicode and can be copy pasted into your document editor directly. I've only proofread it myself, so please let me know if you find some errors.

श्रीधरपादुकार्पणमस्तु।
ॐ तत् सत्॥
--------------

॥आनन्दगिरिकृतटीका॥
॥मण्डकापानिषत्॥

यदक्षरं परं ब्रह्म विद्यागम्यमतीरितम् । यस्मिञ्ज्ञाते भवेज्ज्ञातं सर्वं तत्स्यामसंशयम् ॥

ब्रह्मोपनिषद्गर्भोपनिषदाद्या अथर्वणवेदस्य बह्व्य उपनिषदः सन्ति । तासां शारीरकेऽनुपयोगित्वेनाव्याचिख्यासितत्वाददृश्यत्वादिगुणको धर्मोक्ते (ब्र० १।२।२१) रित्याद्यधिकरणोपयोगितया मुण्डकस्य व्याचिख्यासितस्य प्रतीकमादत्ते ब्रह्मादेवानामित्याद्याथर्वणोपनिषदिति । व्याचिख्यासितेति शेषः । नन्वियमुपनिषन्मन्त्ररूपा मन्त्राणां चेषे त्वेत्यादीनां कर्मसंबन्धेनैव प्रयोजनवत्त्वम् । एतेषां च मन्त्राणां कर्मसु विनियोजकप्रमाणानुपलम्भेन तत्संबन्धासंभवान्निष्प्रयोजनत्वाद्व्याचिख्यासितत्वं न संभवतीति शङ्कमानस्योत्तरम् । सत्यं कर्मसंबन्धाभावेऽपि ब्रह्मविद्याप्रकाशनसामर्थ्याद्विद्यया संबन्धो भविष्यति। ननु विद्यायाः पुरुषकर्तृकत्वात्तत्प्रकाशकत्वेऽस्या उपनिषदोऽपि पौरुषेयत्वप्रसङ्गात्पाक्षिकपुरुषदोषजत्वशङ्कयाऽप्रामाण्याद्व्याचिख्यासितत्वं नोपपद्यत इत्याशङ्क्याऽऽह अस्याश्चेति विद्यायाः सम्प्रदायप्रवर्तका एव पुरुषा न तूत्प्रेक्षया निर्मातारः। सम्प्रदायकर्तृत्वमपि नाधुनातनं येनानाश्वासः स्यात् किन्त्वनादिपारम्पर्यागतम्। ततोऽनादिप्रसिद्धब्रह्मविद्याप्रकाशनसमर्थोपनिषदः पुरुषसम्बन्धः सम्प्रदायकर्तृत्वपारम्पर्यलक्षण एव तमादावेवाऽऽहेत्यर्थः । विद्यासम्प्रदायकर्तृत्वमेव पुरुषाणाम्। यथा विद्यायाः पुरुषसम्बन्धस्तथैवोपनिषदोऽपि यदि पुरुषसम्बन्धो विवक्षितः पौरुषेयत्वपरिहाराय तर्हि तथाभूतसम्बन्धाभिधायकेनान्येन भवितव्यं स्वयमेव स्वसम्बन्धाभिधायकत्वे स्ववृत्तिप्रसङ्गादित्याशङ्क्याऽऽह स्वयमेव स्तुत्यर्थमिति । विद्यास्तुतौ तात्पर्यान्न स्ववृत्तिर्दोष इत्यर्थः स्तुतिर्वा किमर्थत्यत आह श्रोतृबुद्धीति प्रवर्तेरन्निति पाठो युक्तः । वृतुधातोरात्मनेपदित्वात् । विद्याया यत्प्रयोजनं तदेवास्या उपनिषदोऽपि प्रयोजनं भविष्यतीत्यभिप्रेत्य विद्यायाः प्रयोजनसंबन्धमाह प्रयोजनेन त्विति । संसारकारणनिवृत्तिर्ब्रह्मविद्याफलं चेत्तर्ह्यपरविद्ययैव तन्निवृत्तेः संभवान्न तदर्थं ब्रह्मविद्याप्रकाशकोपीनषद्व्याख्यातव्येत्याशङ्क्याऽऽह अत्र चेति। संसारकारणमविद्यादिदोषस्तन्निवर्तकत्वमपरविद्यायाः कर्मात्मिकायाः न संभवत्यविरोधात् । न हि शतशोऽपि प्राणायामं कुर्वतः शुक्तिदर्शनं विना तदविद्यानिवृत्तिर्दृश्यते । ततोऽपरविद्यायाः संसारकारणाविद्यानिवर्तकत्वं नास्तीति स्वयमेवोक्त्वा ब्रह्मविद्यामाहेति संबन्धः । किञ्च परमपुरुषार्थसाधनत्वेन ब्रह्मविद्यायाः परविद्यात्वं निकृष्टसंसारफलत्वेन च कर्मविद्याया अपरविद्यात्वम् । ततः समाख्याबलादपरविद्यायामोक्षसाधनत्वाभावोऽवगम्यत इत्यभिप्रेत्याऽऽह परापरेति यच्चाऽऽहुः कर्मजडाः केवलब्रह्मविद्यायाः कर्तृसंस्कारत्वेन कर्माङ्गत्वात्स्वातन्त्रेण पृरुषार्थसाधनत्वं नास्तीति तदनन्तरश्रुत्यैव निराकृतमित्याह तथा परप्राप्तिसाधनमिति । ब्रह्मविद्यायाः कर्माङ्गत्वे कर्मणो निन्दा न स्यात् । न खल्वङ्गविधानाय प्रधानं विनिन्द्यते । अत्र तु सर्वसाध्यसाधननिन्दया तद्विषयवैराग्याभिधानपूर्वकं परप्राप्तिसाधनं ब्रह्मविद्यामाह अतो ब्रह्मविद्यायाः स्वप्रधानत्वात्तत्प्रकाशकोपनिषदां न कर्तुः स्त्वावकत्वमित्यर्थः। यद्युपनिषदां स्वतन्त्रब्रह्मविद्याप्रकाशकात्वं स्यात्तार्हि तदध्येतॄणां सर्वेषामेव किमिति ब्रह्मविद्या न स्यादित्याशङ्क्याऽऽह गुरुप्रसादलभ्यामिति गर्वनुग्रहादिसंस्काराभावात्सर्वेषां यद्यपि न भविष्यति तथाऽपि विशिष्टाधिकारिणां भविष्यतीति भावः । ननु स्वतन्त्रा चेद्ब्रह्मविद्या तर्हि प्रयोजनसाधनं न स्यात् सुखदुःखप्राप्तिपरिहारयोः प्रवृत्तिनिवृत्तिसाध्यतावगमात्तत्राऽऽह प्रयोजनं चेति । स्मरणमात्रेण विस्मृतसुवर्णलाभे सुखप्राप्तिप्रसिद्धेः रज्जुतत्त्वज्ञानमात्राच्च सर्पजन्यभयकम्पादिदुःखनिवृत्तिप्रसिद्धेश्च न प्रवृत्तिनिवृत्तिसाध्यत्वं प्रयोजनस्यैकान्तिकम्। अतो विश्रब्धं श्रुतिः प्रयोजनसंबन्धं विद्याया असकृद्ब्रवीति । तस्मात्तत्प्रकाशकोपनिषदो व्याख्येयत्वं संभवतीत्यर्थः । यच्चाऽऽहुरेकदेशिनः स्वाध्यायाध्ययनविधेरर्थावबोधफलस्य त्रैवर्णिकाधिकारत्वादधीतोपनिषज्जन्ये ब्रह्मज्ञानेऽस्त्येव सर्वेषामधिकारः । ततः सर्वाश्रमकर्मसमुच्चितैव ब्रह्मविद्या मोक्षसाधनमिति तत्राऽऽह ज्ञानमात्र इति। सर्वस्वत्यागात्मकसंन्यासनिष्ठैव परब्रह्मविद्या मोक्षसाधनमिति वेदो दर्शयति। तादृशसंन्यासिनां च कर्मसाधनस्य स्वस्याभावान्न कर्मसम्भवः। आश्रमधर्मोऽपि शमदमाद्युपबृंहितविद्याभ्यासनिष्ठत्वमेव । तेषां शौचाचमनादिरपि तत्त्वतो नाऽऽश्रमधर्मो लोकसंग्रहार्थत्वात्। ज्ञानाभ्यासेनैवापावनत्वनिवृत्तेः। "न हि ज्ञानेन सदृशं पवित्रमिह विद्यते" इति स्मरणात्। त्रिषवणस्नानविध्यादेरज्ञसंन्यासिविषयत्वात्। अतः कर्मनिवृत्त्यैव साहित्यं ज्ञानस्य न कर्मणेत्यर्थः । इतश्च न कर्मसमुच्चिता विद्या मोक्षसाधनमित्याह विद्याकर्मविरोधाच्चेति अकर्तृं ब्रह्मैवास्मीति करोमि चेति स्फुटो व्याघात इत्यर्थः । यदा ब्रह्मात्मैकत्वं विस्मरति तदोत्पन्नविद्योऽपि करिष्यति ततः समुच्चयः संभाव्यत इति न वाच्यमित्याह विद्याया इति । ननु गृहस्थानामङ्गिरःप्रभृतीनां विद्यासंप्रदायप्रवर्तकत्वदर्शनाद्गृहस्थाश्रमकर्मभिः समुच्चयो लिङ्गादवगम्यत इत्याशङ्क्याऽह यत्त्विति
लिङ्गस्य न्यायोपबृंहितस्यैव गमकत्वाङ्गीकारात्समुच्चये च न्यायाभावात्प्रत्युत विरोधदर्शनान्न लिङ्गेन समुच्चयसिद्धिः । संप्रदायप्रवर्तकानां च गार्हस्थ्यस्याऽऽभासमात्रत्वात्तत्त्वानुसंधानेन मुहुर्मुहुर्बाधात् । "यस्य मे चास्ति सर्वत्र यस्य मे नास्ति कञ्चन। मिथिलायां प्रदीप्तायां न मे कञ्चन दह्यते॥" इत्युद्गारदर्शनात्कर्माभासेन न समुच्चयः स्यात्तत्र च विधिर्न दृश्यत इति भावः । साधितं व्याख्येयत्वमुपसंहरति --एवमिति । ग्रन्थे कथमुपनिषच्छब्दप्रयोग इति शङ्क्यायामुपनिषच्छब्दवाच्यविद्यार्थत्वाल्लाक्षणिक इति दर्शयितुं विद्याया उपनिषच्छब्दार्थत्वमाह इमामिति । आत्मभावेनेति । प्रेमास्पदतयेत्यर्थः । अनर्थंपूगं क्लेशसमूहं निशातयति शिथिलीकरोत्यपरिपक्वज्ञानाद्द्वित्रैर्जन्मभिर्मोक्षसंभवादित्यर्थः।
"ज्ञानमप्रतिमं यस्य वैराग्यं च जगत्पतेः ।
ऐश्वर्यं चैव धर्मश्च सह सिद्धं चतुष्टयम् ॥"
इति स्मरणाद्धर्मज्ञानवैराग्यैश्वर्यैः सर्वानन्यानतिक्रम्य वर्तत इति परिवृढत्वं सिद्धमित्यर्थः।
"योऽसावतीन्द्रियोऽग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः ।
सर्वभूतमयोऽचिन्त्यः स एष स्वयमुब्दभौ ॥"
"स्वयमुद्भूतः शुक्रशोणितसंयोगमन्तरेणाऽऽदिर्भूतः" इति स्मृतेः। स्वातन्त्र्यं गम्यते इत्यर्थः। वाक्योत्थबुद्धिवृत्त्यभिव्यक्तं ब्रह्मैव ब्रह्मविद्या। तच्च ब्रह्म सर्वाभिव्यञ्जकम्। ततः सर्वविद्यानां व्यञ्जकतयाऽऽश्रीयत इति सर्वविद्याश्रयाऽथवा सर्वविद्यानां प्रतिष्ठा परिसमाप्तिर्भवति यस्याममुत्पन्नायां ज्ञातव्याभावात्सा सर्वविद्याप्रतिष्ठेत्याह सर्वविद्यावेद्यवेति ॥१..१॥१..२॥

प्रश्नबीजमाह एकस्मिन्निति उपादानात्कार्यस्य पृथक्सत्त्वाभावादुपादाने ज्ञाते तत्कार्यं ततः पृथङनास्तीति ज्ञातं भवतीति सामान्यव्याप्तिस्तद्बलाद्वा पप्रच्छेत्याह अथवेति प्रश्नाक्षराञ्जस्यमाक्षिप्य समाधत्ते नन्वविदिते हीत्यादिना। किमस्ति तदिति प्रयोगेऽक्षरबाहुल्येनाऽऽयासः स्यात्तद्भीरुतया
कस्मिन्नित्यक्षराञ्जस्ये लाघवात्प्रश्न इत्यर्थः ॥१..३॥१..४॥

कल्पः सूत्रग्रन्थः । अनुष्ठेयक्रमः कल्प इत्यर्थः । अविद्याया अपगम एव परप्राप्तिरुपचर्यते । अविद्यापगमश्च ब्रह्मावगतिरेवेति व्याख्यातमस्माभिर्ज्ञातोऽर्थस्तज्ज्ञप्तिर्वाऽविद्यानिवृत्तिरित्येतद्व्याख्यानावसरे । अतोऽधिगमशब्दोऽत्र प्राप्तिपर्याय एवेत्याह च परप्राप्तेरिति। साङ्गानां वेदानामपरविद्यात्वेनोपन्यासात्ततः पृथक्करणाद्वेदबाह्यतया ब्रह्मविद्यायाः परत्वं न संभवतीत्याक्षिपति नन्विति "या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः । सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः" इति स्मृतेः कुदृष्टित्वादनुपादेया स्यादित्यर्थः । विद्याया वेदबाह्यत्वे तदर्थानामुपनिषदामप्यृग्वेदादिबाह्यत्वं प्रसज्येतेत्यर्थः । वेदबाह्यत्वेन पृथक्करणं न भवति । किंतु वैदिकस्यापि ज्ञानस्य वस्तुविषयस्य शब्दराश्यतिरेकाभिप्रायेणेत्याह वेद्यविषयेति ॥१..५॥

कर्मज्ञानाद्विलक्षणत्वाभिप्रायेण च पृथवकरणमित्याह यथा विधिविषय इति । अप्राप्तप्रतिषेधप्रसङ्गान्न प्रधानपरत्वमपि शङ्कनीयमिति मत्वाऽऽह यः सर्वज्ञ इपि । अगुणत्वादिति । उपसर्जनरहितत्वादित्यर्थः । सर्वात्मकत्वाच्चेति । हेयस्यातिरिक्तस्याभावाच्चेत्यर्थः ॥१..६॥

ब्रह्म न कारणं सहायशून्यत्वात्कुलालमात्रवदित्यस्यानैकान्तिकत्वमुक्तमूरर्णनाभिदृष्टान्तेन । ब्रह्म जगतो नोपादानं तदाभिन्नत्वात्स्वरूपस्येवेत्यनुमानान्तरस्यानैकान्तिकत्वमाह यथा च पृथिव्यामिति । जगन्न ब्रह्मोपादानं तद्विलक्षणत्वात् । यद्यद्विलक्षणं तत्तदुपादनकं न भवति । यथा घटो न तन्तूपादनक इति । अस्य व्यभिचारार्थमाह यथा च सत इति । एकस्मिन्नपि दृष्टान्ते सर्वानुमानानामनैकन्तिकत्वं योजयितुं शक्यमिति शङ्कमानं प्रत्याह अनेकदृष्टान्तेति ॥१..७॥

इर्श्वरत्वोपाधिभूतं मायातत्वं महाभूतादिरूपेण सर्वजीवैरुपलभ्यत इति सर्वसाधारण्येऽपि कथं जायतेऽनादिसिद्धत्वादित्याशङ्क्याऽऽह व्याचिकीर्षितेति कर्मापूर्वसमवायिभूत सूक्ष्ममव्याकृतमिति केचित् । तन्न तस्य प्रतिजीवं भिन्नत्वादीश्वरत्वोपाधित्वासंभवात् । सामान्यरूपेण संभवेऽपि पृथिव्यादिसामान्यानां बहुत्वात् । प्रकृतावेकत्वश्रुतिव्याकोपापाताज्जाड्यमहामायारूपेणैव संभवेऽपि न कर्मापूर्वसमवायित्वम् । तस्याकारकत्वाद्बुद्ध्यादीनामेव कारकत्वाभिधानात् । कारकावयवेष्वेव क्रियासमवायाभ्युपगमात् । किंच न कार्यस्य स्वकारणप्रकृतित्वं दृष्टमिति भूतसूक्ष्मस्यापञ्चीकृतभूतप्रकृतित्वं न स्यात् । तस्मान्महाभूतसर्गादिसंस्कारास्पदं गुणत्रयसाम्यं मायातत्त्वमव्याकृतादिशब्दवाच्यमिहाभ्युपगन्तव्यम् । पूर्वस्मिन्कल्पे हिरण्यगर्भप्राप्तिनिमित्तं प्रकृष्टं ज्ञानं कर्म च येनानुष्ठितं तदनुग्रहाय मायोपाधिक ब्रह्म् हिरण्यगर्भावस्थाकारेण विवर्तते । स च जीवस्तदवथाभिमानी हिरण्यगर्भ उच्यत इत्यभिप्रेत्याऽऽह
ब्रह्मण इति । ज्ञानशक्तिभिः क्रियाशक्तिभिश्चाधिष्ठितं विशिष्टं जगद्व्यष्टिरूपं तस्य साधारणः समष्टिरूपः सूत्रसंज्ञक इत्यर्थः । मनआख्यमिति समष्टिरूपं विवक्षितम् ।व्यष्टिरूपस्य लोकसृष्ट्युत्तरकालत्वात् ॥१..८॥

वक्ष्यमाणार्थमिति । वक्ष्यमाणस्याविद्या विवरणप्रकरणस्याऽरम्भार्थमुक्तपरविद्यासूत्रार्थोपसंहार इत्यर्थः । सामान्येनेति समष्टिरूपेण मायाख्येनोपाधिनेत्यर्थः । विशेषेणेति व्यष्टिरूपेणाविद्याख्येनोपाधिनाऽनन्तजीवभावमापन्नः स एव सर्वं स्वोपाधितत्संसृष्टं च वेत्तीत्यधिदैवमध्यात्मं च तत्त्वाभेदः सूत्रितः । स्रष्टृत्वं प्रजापतीनां तपसा प्रसिद्धम् । तद्वद्ब्रह्मणोऽपि स्रष्ट्रत्वे तपोनुष्ठानं वक्तव्यम् । ततः संसारित्वं प्रसज्येतेत्याशङ्क्याऽऽह यस्यज्ञानमयमिति सत्त्वप्रधानमायाया ज्ञानाख्यो विकारस्तदुपाधिकं ज्ञानविकारं सृज्यमानसर्वपदार्थाभिज्ञत्वलक्षणं तपो न तु क्लेशरूपं प्रजापतीनामित्यर्थः ॥१..९॥

इति मुण्डकोपनिषद्भाष्यटीकायां प्रथममुण्डके प्रथमः खण्डः ॥१.१॥

अनादिरुपादानरूपेणानन्तो ब्रह्मज्ञानात्प्रागन्तासंभवात्प्रत्येकं शरीररिभिर्हातव्यो दुःरवरूपत्वादित्यनेन यदाहुरेकजीववादिन एकं चैतन्यमेकयैवाविद्यया बद्धं संसरति । तदेव कदाचिन्मुच्यते नास्मदादीनां बन्धमाक्षौ स्त इति तदपास्तं भवति । श्रुतिबहिष्कृतत्वात् । सुषुप्तेऽपि क्रियाकारकफलभेदस्य प्रहाणं भवति । बुद्धिपूर्वकप्रहाणस्य ततो विशेषमाह सामस्येनेति स्वोपाध्यविद्याकार्यस्याविद्याप्रहाणेऽऽत्यन्तिकप्रहाणं विद्याफलमित्यर्थः । अमरोऽपक्षयरहितः । अमृतो नाशरहित इत्यर्थेः । अपरविद्यायाः परविद्यायाश्च विषयौ प्रदर्श्य पूर्वमपरविद्याया विषयप्रदर्शने श्रुतेरभिप्रायमाह पूर्वं तावदिति । यदिष्टसाधनतयाऽनिष्टसाधनतया वा वेदेन बोध्यते कर्म तस्यासति प्रतिबन्धे तत्साधनत्वाव्यभिचारः सत्यत्वं न स्वरूपाबाध्यत्वं प्लवा ह्येत इत्यादिना निन्दितत्वात्स्वरूपबाध्यत्वेऽपि चार्थक्रियासामर्थ्यं स्वप्नकामिन्यामिव घटत इत्यभिप्रेत्याऽऽह तदेतत्सत्यमिति ऋग्वेदविहितः पदार्थो हौत्रम् । यजुर्वेदविहित आध्वर्यवम् । सामवेदविहित औद्गात्रम् । तद्रूपायां त्रेतायामित्यर्थः । सत्यकामा मोक्षकामा इति समुच्चयाभिप्रायेण व्याख्यानमयुक्तम् । ’एष वः पन्थाः सुकृतस्य लोके’ इति स्वर्ग्यफलसाधनत्वविषयवाक्यशेषविरोधादिति ॥१..१॥

आहवनीयस्य दाक्षणोत्तरपार्श्वयोराज्यभागाविज्येते अग्नये स्वाहा सोमाय स्याहेति/स्वाहेति दर्शपूर्णरमासे । तयोर्मध्येऽन्ये यागा अनुष्ठीयन्ते । तन्मध्यमावापस्थानमुच्यते । अगीग्नहोत्राहुत्योर्द्वित्वं प्रासिद्धम् । सूर्याय स्वाहा प्रजापतये स्वाहेति प्रातः । अग्नये स्वाहा प्रजापतये स्वाहेति सायम्। तत्कथमग्निहोत्रं प्रक्रम्याऽऽहुतीरिति बहुवचनं तत्राऽऽह अनेकाहेति अनेकेष्वहःसु प्रयोगानुष्ठानानि तदपेक्षयेत्यर्थः ॥१..२॥

दर्शस्याग्निहोत्राङ्गत्वे प्रमाणाभावात्कथं तदकरणमग्निहोत्रस्य विपत्तिरित्याशङ्क्य यावज्जीवचोदनावशादग्निहोत्रिणोऽवश्यकर्तव्यत्वात्तदकरणं भवेद्विपत्तिरित्यभिप्रेत्य विशेषणम् । शरदादिषु नुतनान्नेन कर्तव्यमाग्रयणं कर्म । अदर्शादिवदवैश्वदेवमिति विशेषणम् । वैश्वदेवस्याग्निहोत्रानङ्गत्वेऽप्यावश्यकत्वादित्यर्थः । पिण्डोदकदानेन पित्रादीनां त्रयाणामुपकरोति यजमानः पुत्रादीनां च त्रयाणां ग्रासादिदानेन। ततो मध्यवर्तिना यजमानेन संबध्यमानाः पूर्वे त्रय उत्तरे च त्रयो गृह्यन्त इत्याह पिण्डदानादीति ॥१..३॥

- ॥१..४॥१..५॥

आहुतयो यजमानं वहन्तीति संबन्धः ॥१..६॥

रूप्यते निरूप्यते यदाश्रयतया यज्ञस्ते यज्ञरूपाः ॥१..७॥

स्वयमेवेति तत्त्वदर्श्युपदेशानपेक्षतया स्वमनोरथेनैवेत्यर्थः ॥१..८॥१..९॥

कं सुख न भवतीत्यकं दुःखं तन्न विद्यते यस्मिन्नसौ नाकः ॥१..१०॥

केवलकर्मिणां फलमुक्त्वा सगुणब्रह्मज्ञानसहिताश्रमकर्मिणां फलं संसारगोचरमेव दर्शयति ये पुनस्तद्विपरीता ज्ञानयुक्ता इत्यादिना। अरण्ये स्त्रीजनासंकीर्णे देशे । मुक्तानामिहैव सर्वकामप्रविलयं सर्वात्मभावं चदर्शयन्ति श्रुतयः । ब्रह्मलोकप्राप्तिस्तु देशपरिच्छिन्नं फलं ततो न मोक्ष इत्याह इहैवति ब्रह्मा चतुर्मुखः । विश्वसृजः प्रजापतयो मरीचिप्रभृतयः । धर्मो यमः । महान्सूत्रात्मा । अव्यक्तं त्रिगुणात्मिका प्रकृतिः । सात्त्विकीं सत्त्वपरिणामज्ञानसहितकर्मफलभूतामित्यर्थः ॥१..११॥

ऐहिककर्मफलस्य पुत्रादेर्नाशविषयं प्रत्यक्षं विमतमनित्यं कृतकत्वाद्घटवदित्यनुमानमामुष्मिकनाशविषयम् । तद्यथेह कर्मचितो लोकः क्षीयत इत्याद्यागमास्तैरनित्यत्वेन सर्वात्मनाऽवधार्येत्यर्थः ।
"नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च ।
शीलं स्थितिर्दण्डनिधानमार्जवं ततस्ततश्चोपरमः क्रियाभ्यः ॥"
इतिस्मृतेर्ब्राह्मणस्यैवाधिकार इत्यर्थः । कूटस्थेन परिणामरहितेनाचलेन स्पन्दरहितेन ध्रुवेण प्रयत्नरहितेनाहमर्थी । समित्पाणिरिति विनयोपलक्षणम् ॥ १..१२ ॥

अक्षरणादिति। अवयवान्यथाभावलक्षणपरिणामशून्यत्वात् । अक्षतत्वादिति। अक्षयत्वाच्चेति। अशरीरत्वाद्विकारशून्यत्वादित्यर्थः ॥१३॥

इति मुण्डकोपनिषद्भाष्यटीकायां प्रथममुण्डके द्वितीयः खण्डः ॥१.२॥
इत्यथर्ववेदीयमुण्डकोपनिषद्भाष्यटीकायां प्रथममुण्डकं समाप्तम्॥१॥

द्वे विद्ये वेदितव्ये इत्युपन्यस्यापरविद्यामाद्यमुण्डकेन प्रपञ्च्य परविद्यां सूत्रितां प्रपञ्चायितं द्वितीयमुण्डकारम्भ इत्याह अपरविद्याया इत्यादिना। कर्मणोऽपि प्राक्सत्यत्वमुक्तं तद्वदिदं सत्यत्वं न मन्तव्यमित्याह यदपरविद्याविषयमिति विषीयते विशेष्यते विद्याऽनेनेति व्युत्पत्त्या विषयशब्दस्यवस्तुपरत्वान्नपुंसकलिङ्गत्वं परमार्थतः सल्लक्षणत्वादत्यन्ताबाध्यत्वादित्यर्थः । अत्यन्तपरोक्षत्वादिति । शास्त्रैकगम्यत्वात्। अपूर्ववद्ब्रह्मणः प्रत्यक्षत्वं न सम्भवति साक्षात्काराधीनं च कैवल्यं ततः कथं नाम सत्यमक्षरं प्रत्यक्षवत्प्रतिपद्येरन्मुमुक्षव इत्यभिप्रेत्य जीवब्रह्मणोरेकत्वे दृष्टान्तमाह यथा सुदीप्तादिति । एकत्वे सति प्रत्यग्रूपस्यापरोक्षत्वाद्ब्रह्मणोऽपि प्रत्यक्षत्वं भविष्यति घटैकदेशप्रत्यक्षत्वे घटप्रत्यक्षवदित्यर्थः । यथा विभक्तदेशावच्छिन्नत्वेन विस्फुलिङ्गेष्ववयवत्वादिव्यवहारः स्वतः पुनरग्न्यात्मत्वमेवोष्णप्रकाशत्वाविशेषात्तथा चिद्रूपत्वाविशेषाज्जीवानां स्वतो ब्रह्मत्वमेवेत्यर्थः ॥२..१॥

अक्षरस्यापि जीवोत्पत्तिप्रलयनमित्तत्वमौपाधिकमुक्तमेकत्वसिद्ध्यर्थम् । तत्त्वतस्तु निमित्तनैमत्तिकभावोऽपि नास्तीत्याह नामरूपबीजभूतादिति देहापेक्षया यद्बाह्यमान्तरं च प्रसिद्धं तेन सह तत्तादात्म्येन तदधिष्ठानतया वा वर्तत इति सबाह्याभ्यन्तरः । अत एव सर्वात्मत्वाद्व्यतिरिक्तनिमित्तभावादज इत्यर्थः । जायतेऽस्ति वर्धते विपरिणमतेऽपक्षीयते विनश्यतीत्येवमादिभावविकरणां निषेधे तात्पर्यमजशब्दस्याऽऽह सर्वभावविकाराणामिति जीवानां प्राणादिमत्त्वात्तदात्मत्वे ब्रह्मणोऽपि प्राणादिमत्त्वं प्राप्तं तन्निवर्तयति यद्यपीत्यादिना स्मृतिसंशयाद्यनेकज्ञानेषु शक्तिविशेषोऽस्यास्तीति तथोक्तं नामरूपयोर्बीजं ब्रह्म तस्योपाधितया लक्षितं शुद्धस्य कारणत्वानुपपत्त्या गमितं स्वरूपमस्येति तथोक्तम् । तस्मादुपाधिरूपात्तद्विशिष्टरूपाच्च परतोऽक्षरात्पर इति सम्बन्धः कथं मायातत्त्वस्याक्षरस्य परत्वमित्याशङ्कामाह सर्वकार्येति कार्यं ह्यपरं प्रसिद्धम् तत्कारणत्वेन गम्यमानत्वान्मायातत्त्वं परम् । यौक्तिकबाधादनिर्वाच्यत्वेऽपि स्वरूपोच्छेदाभावादक्षरम् । तदुक्तं गीतायाम्–
"क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ।
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः" इति ॥२..२॥

यदेव चैतन्यं निरुपाधिकं शुद्धमविकल्पं ब्रह्म यत्तत्त्वज्ञानाज्जीवानां कैवल्यं तदेव मायाप्रतिबिम्बतरूपेण कारणं भवतीत्याह यस्मादेतस्मादेवेति प्राणोत्पत्तेरूर्ध्वं तर्हि सप्राणत्त्वं परमात्मनो भविष्यतीतिशङ्कानिवृत्त्यर्थं श्रुत्यन्तरप्रसिद्धं प्राणस्य विशेषणमाह अविद्याविषय इति । नामधेय इति । वाङ्मात्रो न वस्तुवृत्त इत्यर्थः । प्राणादीनां पाठक्रमोऽयमर्थक्रमेण बाध्यते । "गता कलाः पञ्चदश प्रतिष्ठाः" इति भूतेषु लयश्रवणेन प्राणानां भौतिकत्वावगमाद्भूतोत्पत्यनन्तरं प्राणोत्पत्तिर्द्रष्टव्येति । अभिमुखमागच्छन्वायुरावहः पुरतो गच्छन्प्रवह इत्यादिभेदः । शब्दस्पर्शरूपरसगन्धा उत्तरोत्तरस्य गुणा येषां तानि तथोक्तानि । यथा शुक्लतन्त्ववस्थापन्नादन्वयिकारणाज्जायमानः पटं/पटः शुक्लगुणो जायते तथाऽऽकाशावस्थापन्नाद्ब्रह्मणो जायमानो वायुराकाशगुणेन शब्देनान्वितो जायते । तथैव वायुभावापन्नाद्ब्रह्मणोऽग्निस्तद्गुणेनान्वितो जायत इति द्रष्टव्यम् । ननु सूक्ष्माणि भूतानि प्रथममुत्पद्यन्ते । अनन्तरं तासां त्रिवृतं त्रिवृतमेकैकामकरोदिति पञ्चीकरणोपलक्षणार्थं त्रिवृत्करणश्रुतेः पञ्चात्मकत्वमवगम्यते । तत एकैकस्य भूतस्य पञ्चगुणवत्त्वं वर्णितमन्यत्र कथमिह पञ्चीकरणमनादृत्य प्रथमसर्ग एवाऽऽकाशस्यैकगुणत्वं वायोर्हि द्विगुण्त्वं तेजसस्त्रिगुणत्वमित्याद्युच्यते । सत्यम् । भूतसर्गे तात्पर्याभावद्योतनाय प्रक्रियान्तरं न विरुध्यते । न ह्येतत्प्रतिबद्धं किञ्चित्फलं श्रूयते । अत एव गुणगुणिभावोऽपि न वैशेषिकपक्षवदिह विवक्षितः । किंतु राहोः शिर इतिवद्व्यपदेशमात्रम् । विस्तरेण त्वनत्यकार्यपर्यन्तं तेन तेनाऽऽकारेण ब्रह्मैव विवर्तत इति प्रपञ्च्यते ततोऽतिरिक्तस्याणुमात्रस्यासंभवात्तस्मिन्विज्ञाते सर्वमिदं विज्ञातं भवतीति प्रदर्शनार्थमित्यर्थः ॥२..३॥

सर्वेषां भूतानामिति । पञ्चमहाभूतानाम् । अन्तरात्मा स्थूलपञ्चभूतशरीरो हि विराडित्यर्थः। पञ्चाग्निद्वारेण । द्युपर्जन्यपृथिवीपुरुषयोषित्सु पञ्चस्वग्निदृष्टेः श्रुत्यन्तरचोदितत्वात्तद्द्वारेणेत्यर्थः ॥२..४॥२..५॥

पाञ्चभक्तिकमिति । हिङ्कारप्रस्तावोद्गीथप्रतिहारनिधनाख्याः पञ्च भक्तयोऽवयवा यस्य तत्तथोक्तम् । साप्तभक्तिकमिति । हिङ्कारप्रस्तावाद्युद्गीथप्रतिहारोपद्रवनिधनाख्याः सप्त भक्तयो यस्य तत्तथोक्तम् । स्तोभोऽर्थशून्यो वर्णः । विश्वजित्सर्वमेधयोः सर्वस्वदक्षिणा । अत एकां गामारभ्य सर्वस्वान्ता दक्षिणा भवन्तीत्यर्थः ॥२..६॥

तपश्च कर्माङ्गमिति । पयोव्रतं ब्राह्मणस्य यवागू राजन्यस्याऽऽमिक्षा वैश्यस्येत्यादिविहितं स्वतन्त्रं कृच्छ्र चान्द्रायणादीत्यर्थः ॥२..७॥

आत्मयाजिनामति । सकलमिदमहं च परमात्मैवेतिभावनापूर्वकं परमेश्वराराधनबुद्ध्या ये यजन्ति तेषामित्यर्थः ॥२..८॥

यत्पृष्टं कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति तन्निरूपितम् । सर्वमिदं परमात्मनो जायते । अतस्तावन्मात्रं सर्वं तस्मिन्विज्ञाते विज्ञातं भवतीत्यविद्याक्षयफलाभिधानेनोपसंहृतमिति ॥२..९॥२..१०॥

इति मुण्डकोपनिषद्भाष्यटीकायां द्वितीयमुण्डके प्रथमः खण्डः ॥ २.१ ॥

अधुना यस्य सकृदुपदेशमात्रेणाद्वितीयं ब्रह्मास्मीतिवाक्यार्थज्ञानं न भवतीति तस्योपायानुष्ठानेन भवितव्यमित्यभिप्रेत्याऽऽह अरूपं सदक्षरमिति । वाक्यार्थस्यैव पुनः पुनर्भावना युक्त्यनुसंधानं चोपाय इत्याह उच्यत इति । आविःशब्दो निपातः प्रकाशवाची । ब्रह्म विश्वोपलब्ध्यात्मना प्रकाशमानमेव
सदेति भावयेदित्यर्थः । अन्यैरप्युक्तम्
"यदस्ति यद्भाति तदात्मरूपं नान्यत्ततो भाति न चान्यदस्ति ।
स्वभावसंवित्प्रतिभाति केवलं ग्राह्यं ग्रहीतेति मृषैव कल्पना ॥" इति ।
संनिहितमिति । सर्वेषां प्राणिनां हृदये स्थितं वागाद्युपाधिभिः शब्दादीन्युपलभमानवद्ब्रह्मैव जीवभावमापन्नमवभासते । ततः स्वतोऽपरोक्षं चेति सदा स्मरेदित्यर्थः । सर्वमिदं कार्यं परिछिन्नं च सास्पदं कार्यत्वात्परिच्छिन्नत्वाच्च घटादिवत्ततः सर्वास्पदं यत्तदेव मायास्पदमात्मभूतमिति युक्त्यनुसन्धानमाह महत्पदमिति ॥२..१॥

घटादिवदादित्यादेर्जडत्वेपि यद्दीप्तिमत्त्वं वैचित्र्यं तदनुपपत्त्याऽपि तत्कारणं संभावनीयमित्याह किञ्च यदर्चिमदिति । अर्चिमत्त्वादादित्यादिवदिन्द्रियग्राह्यत्वं प्राप्तं निषेधयति यदणुभ्य इति । परमाणुपरिमाणत्वं तर्हि स्यादति नाऽऽशङ्कनीयमित्याह चशब्दादिति स्थूलत्वात्तर्ह्यन्याधारं स्यादिति नाऽऽशङ्कनीयमित्याह यस्मिल्ँलोका इति । प्राणादिप्रवृत्तिश्चेतनाधिष्ठाननिबन्धना जडप्रवृत्तित्वाद्रथादिप्रवृत्तिवच्चिद्भेदे च प्रमाणाभावादेकचैतन्यमात्रमस्मीति विचारयेदत्याह तदेतत्सर्वाश्रयमिति प्राणाद्यधिष्ठानत्वात्प्राणादिलक्ष्य आत्मा द्रष्टव्यः ॥२..२॥

विचारासमर्थस्य प्रणवमवलम्ब्य ब्रह्मात्मैकत्वे चित्तसमाधानं क्रममुक्तिफलं दर्शयितुमुपक्रमते कथं वेधव्यमित्यादिना । प्रणवो ब्रह्मेत्यभिध्यायत उपसंहृतकरणग्रामस्य प्रणवोपरक्तं यच्चैतन्यप्रतिबिम्बं स्फुरति स आत्मेत्यनुसन्धानं प्रणवे शरसन्धानं तस्य चित्प्रतिबिम्बस्य बिम्बैक्यानुसन्धानं लक्ष्यवेधः ॥२..३॥२..४॥

उत्तरग्रन्थस्य पौनरुक्त्यं परिहरति अक्षरस्यैव दुर्लक्ष्यत्वादिति । ससाधनं सर्वं कर्म परित्यज्याऽऽत्मैव ज्ञातव्य इत्यत्रैव हेतुमाह अमृतस्येति धनुषाऽऽयुधेन लक्ष्यत इति तल्लक्षण आत्मैकत्वसाक्षात्कार इत्यर्थः ॥२..५॥

कर्मसङ्गिजनसङ्गत्या कर्मश्रद्धा विषयश्रद्धा च वाक्यार्थज्ञानस्यावगमाय गत्यन्ततायाः प्रतिबन्धको विघ्नः स मा भूदित्याशंसनम् । न तु वाक्यार्थावगतौ निष्पन्नायां फलप्राप्तेर्विघ्नशङ्काऽस्तीत्यभिप्रेत्याऽऽह परस्तादिति मदुपदेशादूर्ध्वमित्यर्थः ॥२..६॥

सर्वेश्वरत्वमनोमयत्वादिगुणविशिष्टब्रह्मणो हृदयपुण्डरीके ध्यानं च क्रममुक्तिफलं मन्दबह्मविदो विधीयत इति दर्शयितुमाह योऽसौ तमसः परस्तादित्यादिना ॥२..७॥

अस्य परमात्मज्ञानस्येति । जीवन्मुक्तिफलस्याद्वैतवाक्यार्थावगमस्य क्रममुक्तिफलस्य चोपासनस्येत्यर्थ: । अविद्यावासनाप्रचयो भिद्यत इति कोऽर्थ: । किं बुद्धौ विद्यमानायामविद्यादिभेदो ज्ञानफलं किंवा तन्निवृत्तौ । नाऽऽद्यः । सत्युपादाने कार्यस्यात्यन्तोच्छेदासंभवात् । न द्वितीयः । ज्ञानस्याज्ञानेनैवसाक्षाद्विरोधप्रसिद्धेः । किञ्च । बुद्धिरप्यनादिः सादिर्वा । नाऽद्यः । "एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च" इतिश्रुतिविरोधात् । नान्त्यः । प्रलये ब्रह्मज्ञानं विनैव बुद्धेर्नाशसंभवात्तदानर्थक्यप्रसङ्गात् । सादित्वे च बुद्वेरुपादानं साक्षाद्ब्रह्म चेत्तन्नाशं विनाऽत्यन्तोच्छेदो न स्यात् । माया चेत्सा दृष्टगतज्ञानेन नोच्छेदमर्हति । लौकिकमायाविगतमायाया द्रष्टृगतज्ञानेनोच्छेदादर्शनात् । किञ्च । बुद्धेरुच्छेदो न तस्याः फलं स्वनाशस्याफलत्वात् । नऽऽत्मनः । तस्य बुद्विप्रसङ्गाभावेन तदुच्छेदस्याफलत्वात् । किञ्चाऽऽत्मनोऽविद्याद्यनाश्रयत्वाभिधानं श्रुतिविरुद्धं प्रक्रमेअविद्यायामन्तरे वर्तमाना इति श्रवणादुपसंहारे
"अनीशया शोचति मुह्यमानः" इति श्रवणात् । बुद्धिगतमेवाविद्याद्यात्मन्यध्यस्यत इति चेदध्यस्यत इति कोऽर्थः । निक्षिप्यते भ्रान्त्या दृश्यते वा । नाऽऽद्यः । अन्यधर्मस्यान्यत्र निक्षेपासम्भवात् । भ्रान्त्या चेत्केन दृश्यते । न तावदात्मना तस्याविद्याश्रयत्वानङ्गीकारात् । न बुद्ध्या । बुद्धेरात्मविषयत्वासम्भवेन तद्गतदर्शनासम्भवात् । तद्भ्रान्तेश्च स्वाश्रयगतेन तत्त्वानुभवेन निवर्त्यत्वप्रसिद्धेर्बुद्धेरनुभवाश्रयत्वप्रसङ्गात् । तस्मान्नास्य भाष्यस्य सम्यगर्थं पश्याम इति चेदुच्यते। चित्तन्त्राऽनादिरनिर्वाच्याऽविद्या चैतन्यमवच्छिद्य स्वावच्छिन्नचैतन्यस्य बुध्द्यादितादात्म्यरूपेण विवर्तते । तस्याश्च ब्रह्मात्मतासाक्षात्कारनिवर्त्यरूपाङ्गीकारात्तन्निवृत्तौ तदुत्थहृदयग्रन्थिभेदः श्रुत्योच्यते । भाष्यकारीयं च बुद्ध्याश्रयत्वाभिधानमहङ्कारविशेषणत्वेनाविद्यादेर्व्याहारिकाभिप्रायेणाऽऽत्मानाश्रयत्वाभिधानं चाऽऽत्मनो निर्विकारत्वाभिप्रायम् । बाधितानुवृत्तिश्च प्रकटार्थे प्रादर्शीति जीवन्मुक्तिर्न विरुध्यते ॥२..८॥२..९॥

भातीति णिजर्थाध्याहारेण व्याख्यातम् । तस्य भासा सर्वमिदं विभातीत्यस्य ब्रह्मणः स्वतो भारूपत्वे तात्पर्यं कथयति यत एव तदेव ब्रह्म भाति चेति ॥ २..१०॥

उपसंहारमन्त्रस्य तात्पर्यमाह यत्तज्ज्योतिषां ज्योतिरिति तेन ब्रह्मणा विविधं क्रियत इति तद्विकारं सर्वं जगत्सर्वं ब्रह्मैवेति बाधायां सामानाधिकरण्यं योऽयं स्थाणुः पुमानसावितिवदन्वयव्यतिरेकाभावपरिहारेण तावन्मात्रत्वं बोध्यते ॥२..११॥

इत्यथर्ववेदीयमुण्डकोपनिषद्भाष्यटीकायां द्वितीयमुण्डके द्वितीयः खण्डः ॥२.२॥
इत्यथर्ववेदीयमुण्डकोपनिषद्भाष्यटीकायां द्वितीयं मुण्डकं समाप्तम् ॥२॥

प्राधान्येनेति । अपूर्वत्वेन तात्पर्यविषयतयेत्यर्थः । द्वा सुपर्णेत्यादौ द्विवचनस्याऽऽकारश्छान्दसः । जीवस्याज्ञत्वेन नियम्यत्वेन योग्यत्वादीश्वरस्य सर्वज्ञत्वेन नियामकत्वशक्तियोगाच्छोभनमुचितं पतनं नियम्यनियामकभावगमनं ययोस्तौ शोभनपतनौ । पक्षिसामान्याद्वेति । वृक्षाश्रयणादिश्रवणादित्यर्थः। ऊर्ध्वमुत्कृष्टं ब्रह्म मूलमधिष्ठानमस्येत्यूर्ध्वमूलोऽवाञ्चः प्राणादयः शाखा इवास्येत्यवाक्शाखः । श्वः स्थानं नियन्तुमस्य न शक्यमित्यश्वत्थः । अव्यक्तमव्याकृतं मूलमुपादानमन्वयि तस्मात्प्रभवतीति तथोक्तो यावदज्ञानभावीत्यर्थः । अविद्याकामकर्मवासनानामाश्रयो लिङ्गमुपाधिर्यस्याऽऽत्मनः स जीवस्तथोक्तः स चेश्वरश्च तावित्यर्थः । सत्त्वं मायाख्यमुपाधिरस्येति सत्त्वोपाधिः। ज्ञानात्मकस्यामलसत्त्वराशेरितिह्युक्तम् ॥ ३..१ ॥

आवरणं विक्षेपश्च द्वयमविद्यायाः कार्यम् । तत्रेश्वरभावाप्रतिपत्तिरनीशावरणं शोचतीति विक्षेपस्तदुभयहेतुरनिर्वाच्यमज्ञानं मोहः तेन विशिष्टोऽनेकैरनर्थप्रकारैरहं करोमीत्यादिभिरविवेकतया तादात्म्यापन्नतयेत्यर्थः । आजवमनवरतं जवीभावं निकृष्टभावं लक्षणया लघुभावं कर्मवायुप्रेरिततया
जवीभावं क्षैप्र्यमापन्नः पूर्ववदित्यभेदेनेत्यर्थः ॥३..२॥३..३॥

आत्मनि रतिरात्मरतिस्तत्पुरुषः सैव क्रिर्याऽस्यास्तीत्यात्मरतिक्रियावानिति मतुबेवैकः प्रतीयते कथमुक्तं बहुव्रीहिमतुबर्थयोरन्यतरोऽतिरिच्यत इति । सत्यमसमासपाठे द्वयोरर्थवत्त्वमासीत्समासपाठे त्वन्यतरो मतुबतिरिच्यते विशिष्यते बाह्यक्रियानिवृत्तिलाभादित्यर्थः । एकदेशिव्याख्यामुद्भाव्य निराचष्टे केचित्त्वित्यादिना अनेन वचनेन ज्ञानकर्मसमुच्चयप्रतिपादनं क्रियत इत्येतदसत्प्रलपितमेवेति योजना ॥३..४॥

सम्यग्ज्ञानसहकारीणीति । अत्र सम्यग्ज्ञानशब्देन वस्तुविषयावगतिफलावसानं वाक्यार्थज्ञानमुच्यते अवगतिफलस्य स्वकार्येऽविद्यानिवृत्तौ सहकार्यपेक्षासम्भवात् । अतोऽपरिपक्वज्ञानस्य सत्यादीनां च परिपक्वविद्यालाभाय समुच्चय इष्यत एव । नैतावता भास्कराभिमतसिद्धिः । परिपक्वविद्यायाः सहकार्यपेक्षायां मानाभावात् । ततः कर्मासंश्लेषश्रवणाद्देवादीनां कर्मविहीनानां मुक्तिश्रवणाच्चेति ॥३..५॥

कुहकं परवञ्चनम् । अन्तरन्यथा गृहीत्वा बहिरन्यथा प्रकाशनं माया । शाठ्यं विभवानुसारेणाप्रदानम् । अहङ्कारो मिथ्याभिमानः । दम्भो धर्मध्वजित्वम् । अनृतमयथादृष्टभाषणम् । एतैर्दोषवर्जिता इत्यर्थः ॥३..६॥

सत्यस्य निधानं यदुक्तं तत्पुनर्विशेष्यत इत्याह किं तत्किंधर्मकं च तदिति ॥३..७॥

ज्ञानप्रसादेनेति । अत्र ज्ञायतेऽर्थोऽनेनेति व्युत्पत्त्या बुद्धिरुच्यते । ध्यायमानो ज्ञानप्रसादं लभते । ज्ञानप्रसादेनाऽऽत्मानं पश्यतीति क्रमो द्रष्टव्यः। संशयादिमलरहितस्य प्रमाण्ज्ञानस्यैव तत्त्वसाक्षात्कारहेतुत्वाद्ध्यानक्रियायाः प्रमितिसाधनत्वाप्रसिद्धेरित्यर्थः ॥३..८॥

बौद्धादेश्चित्तादौ चेतनत्वभ्रमदर्शनाच्चित्तं स्वस्मिन्स्वसंसर्गिणि च चैतन्याभिव्यञ्जकत्वे स्वभावत एव योग्यम् । ततश्चित्ते परमात्मनोऽभिव्यक्तिसम्भवाच्चेतसा ज्ञेयत्वमुच्यत इति संभावनार्थमाह प्राणैः सहेन्द्रियैश्चित्तमेति । ओतं चैतन्येन सर्वस्व तर्हि चित्ते किमिति ब्रह्म स्वत एवापरोक्षं न भवतीत्यत आह यस्मिंश्च चित्त इति ॥३..९॥

सगुणविद्याफलमपि निर्गुणविद्यास्तुतये प्ररोचनार्थमुच्यते यं यमिति ॥३..१०॥
इत्यथर्ववेदीयमुण्डकोपनिषद्भाष्यटीकायां तृतीयमुण्डके प्रथमः खण्डः ॥३.१॥

- ॥३..१॥

परमार्थतत्त्वविज्ञानादिति । विषयेषु यथास्थितदोषदर्शनात्पर्याप्तकामः क्षीणरागो विरुद्धलक्षणयाऽऽत्मकामस्याऽऽत्मबुभुत्सयैव वशीकृतचित्तस्य विषयेभ्यः कामा निवृत्ता एव भवन्तीत्यर्थः । सामर्थ्यादवगम्यते स्वहेतुविनाशात्पुनः कामा न जायन्त इति । जातानां ज्ञानं विनाऽपि क्षयसंमवादित्यर्थः ॥३..२॥

न बहुना श्रतेनेति । उपनिषद्विचारव्यतिरिक्तेनेत्यर्थः । तेन वरणेनेति कथं व्याख्यातं यत्तदोर्भिन्नार्थत्वं साधनविवक्षायाः प्रस्तुतत्वादित्यर्थं ब्रूमः । परमात्माऽस्मीत्यभेदानुसंधानं वरणम् । तेन वरणेनैष आत्मा लभ्यो भवति । बहिर्मुखेन तु शतशोऽपि श्रवणादौ क्रियमाणे न लभ्यते । अतः
परमात्माऽस्मीत्यभेदानुसंधानं परमात्मभजनं पुरस्कृत्यैव श्रवणादि सम्पादनीयमिति भावः । अथवाऽयमेव परमात्मानं वृणुते तेन परमात्मना मुमुक्षुरूपव्यवस्थितेन वरणेनाभेदानुसंधानलक्षणेन प्रार्थनेन कृत्वा लभ्यः परमात्मैव मुमुक्षुरूपव्यवस्थित इत्यभेदानुसंधानेनैव लभ्यो न कर्मणेत्यर्थ ॥३..३॥

वीर्यमितिमत्र मिथ्याज्ञानानभिभाव्यतालक्षणोऽतिशयः । आलिङ्गादिति कथम् । इन्द्रजनकगार्गीप्रभृतीनामप्यात्मलाभश्रवणात् । सत्यम् । संन्यासो नाम सर्वत्यागात्मकस्तेषामपि स्वत्वाभिमानाभावादस्त्येवाऽऽन्तरः संन्यासो बाह्यं तु लिङ्गमविवक्षितम् ॥ "न लिङ्गं धर्मकारणम्" इति स्मरणात् नैष्कर्म्यसाहित्यं तु विवक्षितम् ॥३..४॥३..५॥

प्रदीपस्य वर्तिकृतावच्छेदध्वंसे यथा तेजःसामान्यतापत्तिस्तद्वदित्याह प्रदीपनिर्वाणवदिति पदं पादन्यासप्रतिबिम्बं च । न दृश्येताभावादेवेत्यर्थः । अध्वस्विति । संसाराध्वनां पारयिष्णवःपारयितुं समापयितुमिच्छन्तीति समाप्तिकामा अनध्वगा भवन्तीत्यर्थः । तर्कतोऽपीहैव मोक्षो वक्तव्य इत्याह
देशपरिच्छिन्नः हीत्यादिना ॥३..६॥

स्वाः प्रतिष्ठाः प्रति गता भवन्तीति भूतांशानां भौतिकानां च महाभूतेषु लयो दर्शितः । अन्त्यप्रश्नेति ब्राह्मणग्रन्थे षष्ठप्रश्ने प्राणाद्या याः कलाः पठिता इत्यर्थः । मायामयमहाभूतानामंशावष्टब्धैर्जीवाविद्यामयभूतसूक्ष्मैः प्रातिस्विकैरदृष्टसहकृतैः प्रातिस्विकाः प्राणादय आरभ्यन्ते । ते च कर्माक्षिप्तैर्देवैः सूर्यादिभिरधिष्ठीयन्ते । कर्मणो भोगेनावसाने ते देवाः । स्वस्थानं गच्छन्ति । यच्च प्रातिस्विकं स्वाविद्याकार्यं तच्च सर्वं ब्रह्मैव संपद्यत इत्याह यानि चेत्यादिना ॥३..७॥

- ॥३..८॥३..९॥

ऐतद्ग्रन्थद्वोरकविद्याप्रदानेऽयं विधिराथर्वणिकानामिति प्रकृतपरामर्शकादेतच्धब्दादवगम्यते ग्रन्थद्वारेण विद्यायाः प्रकृतत्वसंभवान्न सर्वत्र ब्रह्मविद्यासंप्रदानमिति सूचयन्नाह एता ब्रह्मविद्यां वदेतेति ॥३..१०॥
- ॥३..११॥
इत्यथर्ववेदीयमुण्डकोपनिषद्भाष्यटीकायां तृतीयमुण्डके द्वितीयः खण्डः ॥३.२॥
इत्यथर्ववेदीयमुण्डकोपनिषद्भाष्यटीकायां तृतीयं मुण्डकं समाप्तम् ॥३॥




Prayers to Hanuman


जय श्रीराम। हनुमते नमः।

Since quite a few years now, since I took to Hanuman chAlisA, I have been chanting the same along with a couple of other stotras daily, at least once. As I remember, there have been three occasions when this routine was broken and Hanumanji has been very kind on me by reminding me one way or the other all three times.

One time, I was at home going through a bad phase with a series of health issues not permitting me to do my daily rituals for a length of time. The least I used to do is chant some stotras with bath and later. That too, including chAlisA, I had forgotten for a few days. During the time, I dreamt through an afternoon nap that Hanumanji was sitting right on the window next to my bed and my thigh was bleeding with jets of blood! I was praying to him when I woke up and immediately continued my stotras.

Another time was at Parthi, when three of us were staying in a lodge, rushing our baths for an early darshan of Swami. Both my friends had gone ahead to the darshan hall and I was hurrying. Due to speed baths, I had missed out chAlisA for a day or two. It was pouring and the lane had flooded. I was somehow manoeuvering via corners to keep my white clothes clear of mud, when I felt something splat on my lower arm! I was wondering what happened. Lo and behold! There was a monkey sitting right above on some cables running across buildings, throwing dung!! I went back, had a bath and resumed chAlisA.

 The hat trick was yesterday, when I was late for Gurukulam class in the morning and might have dropped a few stotras. In the evening, I got pulled in after class in the library for some seva and couldn't return till post-dinner, thereby the chants getting dropped yet again. Towards the early morning, I had a dream that I was sitting at AVG Dakshinamurti temple with a group and led the entire chAlisA chanting with tAla, remembering each dohA in vivid detail! This time Hanuman's blessings were in much better form. :)

ಜಯ ಹನುಮತ್ರಾಯಾ ಬಲಭೀಮಾ.
हनुमते नमो नमः॥

ॐ तत् सत्॥
श्रीधरपादुकार्पणमस्तु॥

It cannot be experienced

ॐ 

Some say it cannot be experienced, while some others say it cannot be known through words. Both views have their source in the Shruti statement-- यतो वाचो निवर्तन्ते अप्राप्य मनसा सह। From where, the words along with the mind, withdraw/ return.

The former part of the statement is understood in the following manner. Most of the Shruti words try to explain that which is said to be beyond words. The contradiction is apparent here; and such contradiction needs to be handled by a shrotriya Guru so that the seeker understands and perceives the truth as it is, resolving the contradiction. The contradiction in trying to say something that is beyond words is resolved by using what is the intended meaning of the words, लक्ष्यार्थः, and not the literal meaning of the word, वाच्यार्थः। The Occam's razor is useless in this case, since the direct meaning cannot hold when the Shruti says "You are That (Ishvara)", तत् त्वम् असि since Ishvara has all unlimited qualities while the individual is limited in all ways. You have to fall back on analysis the way सोऽयम् देवदत्ता is understood with जहल्लजहल्लक्षणम्। What is common between the two is what is meant in the equation.

The difficulty of those treading the path of knowledge lies with the latter-- experience, अनुभवः। If it is beyond the mind, then it is that which is beyond the experience; such is the conclusion. It is that due to which all experiences are possible or it is that which is present in each experience. However, that is true in case of words and all other senses too. It is that which makes the words possible, the word of the words, ear of the ears, eye of the eyes, etc, says Shruti. Then why do we have to single out experience alone? Here also, some analysis is required as to its not being objectifiable makes it inexperiencable; it is the very experience of the experiences. We have to use tools that are at our disposal and we have only अन्तःकरणम् as the tool that makes up the intellect, mind, memory and ego.

When we say that it has to be understood through words, we don't have to throw away the mind, memory and ego as useless for the pursuit. The ego is what makes us pursue the path, without which there would be no individuality and therefore nothing to pursue! The memory is what helps us get any knowledge via the six means of knowledge, without which no knowledge would be possible! The mind is that which makes वृत्तिs possible, without which nothing can ever be understood! Why, even self-knowledge is known *only* via a वृत्तिः known as अखण्डाकारवृत्तिः which unlike other वृत्तिs is without फलव्याप्तिः but nonetheless a वृत्तिः। As such, mind is a useful tool, inclusive of its अनुभवs, a pointer through which we can get back to the source of all experiences, knowledges, senses, undoubtedly the source of everything.


ॐ तत् सत्।
श्रीधरपादुकार्पणमस्तु।

Pujya Swami Dayanandaji


Pujya Swamiji attained mahasamadhi leaving his mortal body at 2220hrs yesterday. As a great teacher, accessible to all with an open heart, he continues to live on in the teaching tradition and hundreds of teachers He created worldwide.

I'm inspired much by his दया, compassion, which he showered on all by truly living up to his name - Swami Dayananda!

निवसतु मयि नित्यम् श्रीगुरोर्दिव्यदृष्टिः। May the Guru's vision of Oneness always be in me.

ॐ तत् सत् ।।

The dreamer


Everybody dreams. Some remember, most don't. Some remember some dreams vividly. Yesterday, I had such a dream. The short part of it was that I was dancing with two friends. I don't know them in real life, so lets call them Ram and Shyam. (If I had known these people also, it wouldn't make an iota of difference to this topic). In real life, I don't really go to parties, let alone dancing! Dreams originate from impressions left by experiences in waking state, says Bhagavadpada Shankaracharya. So this dream dancing must have surely come from some experience of mine in this life or past, or an assemblage of various experiences drawn from various lives, movies, etc.

We are used to recalling dreams w.r.t. dream objects, people and situations. However, if we look at what the dream really is, it has no ground to stand on! What is the reality of the dreamer? He was me, since I was conscious of him during the dream and I can even relate to him now, if I think of the dream. The dreamer's body, mind and senses were all created by me, using my own knowledge of his body, mind, and senses. No one taught the dreamer that ridiculous party dance, but that was only my knowledge of dance. Now, we go a step further to see that not only all these factors relating to the dreamer were my knowledge, but the same factors about Ram and Shyam were my knowledge alone. What was to happen in the party, how Ram and Shyam thought, spoke, acted, were all defined by me. Of course, the dreamer thought others to have their own individualities, because the dreamer didn't know what Ram and Shyam thought. In fact, Ram and Shyam, the entire party, with all the people and objects, the air they breathed, the food they ate, etc, were all nothing but my knowledge! This knowledge resides in my consciousness and therefore they were all truly me!! The truth of the entire dream world is the conscious being who is dreaming; that conscious being is me. Remember, the dreamer thinks he is awake! Herewith ends the example.

Similarly, this waking world is a dream. It includes all of us sentient beings like people, animals, birds, trees, etc and insentient objects like mountains, rivers, etc. The world was created out of nothing but pure knowledge of the world. That knowledge exists in a conscious being. That conscious being is Ishvara. I am the dreamer of Ishvara's dream creation and I think I am awake! Since the dreamer is the same as the waker, in this waking dream of Ishvara, Ishvara is the truth of me. Ergo, I am Ishvara. अहं ब्रह्मास्मि।


ॐ तत् सत्॥

श्रीधराय अर्पणमस्तु॥

Foundation of a debate


Over time, I have realized that debates, especially related to Vedanta, are in vain when those involved in the same have no formal training in logic, especially Nyaya. As such, there is no fundamental agreement as to what is an accepted common ground among them! The entire idea of the debate in the Vedanta texts is to establish the सिद्धान्तः for the benefit of everyone. If nothing, it should serve as a मनन to one's own progress in clarity of understanding. That being the case, one cannot start with the discussion having concluded on the subject one way or the other. Just because "I think so"  or "I don't agree" seem to be very valid statements, whereas they are not, unless there is a basis that supports these statements. On what basis one thinks the way one does has to be established with a concrete support from scripture and/or scriptural logic. In the case of Vedanta, श्रुतिः and/or भाष्यम् is a clinching argument. If one doesn't understand what is being said, one can't resort to simplistic resolution such as सर्वं खल्विदम् ब्रह्म, since its plain escapism or shirking your responsibility of participation in the debate in the first place.

The very process of development of the debate or even an understanding of what makes up a debate is amiss to most people of the category described! That one changes one's initial stance during the course of the debate is a clear indication of such illiteracy of basics of logic. This is why traditional Vedanta insists on training in न्यायशास्त्रः and पूर्वमीमांसा prior to one embarking on Vedanta. It is not for no reason that Vedanta is called "उत्तर-"मीमांसा!

One of the very common flaws I have heard is the overuse of the word मिथ्या for everything except what suits one's argument. It is to be clearly understood that everything, including the pursuit towards liberation, including the debate-- nay, liberation itself, is *only* in the sphere of मिथ्या! From the पारमार्थिक, there is nothing other, let alone a debate!!

For a debate to be fruitful, one has to be clear about the प्रतिज्ञा that is the point one is trying to establish, clear statements leaving no ambiguity, no contradiction with earlier points, unless one withdraws the same, no interruption during the examination of one's stated view from the other and during the latter's response that follows, which also necessarily needs the same level of clarity.

Personally, for me, a debate with a learned person is a learning experience. It is not an argument to win over. It is मननम्। And to that effect, may we all who share this view be blessed with मननम् to fruition.

ॐ तत् सत्।
श्रीगुरोः अर्पणमस्तु।

अन्तःकरण।


The topic of this article is the dichotomy between the function of the wavering mind and that of the intellectual resolve. Sometimes we find ourselves in situations where our so-called will power exerts itself to all odds that we face, be it situational or due to our own रागद्वेषs, likes and dislikes. That is, we don't let ourselves get carried away by the forces that the mind faces. However, most times, we see that we are able to assess our response, rather reaction, to any situation only as an afterthought. We think later as to what we should have done in terms of control over our senses, anger, habits, etc. We also ponder thence, looking back, something to the effect of--  "how in the world could I have done so?!" So then, why is it that we do what we do, although we know it not to be proper when we think later? Why is the response more of an instinctual reaction in the moment than anything well-thought? We surely know right from wrong as seen from our postmortem analysis!

Herein comes what the scriptures call as अन्तःकरणम् or the inner-instrument. It is an instrument because its a tool that finds its utility in various forms-- मनः, बुद्धिः, चित्तः and अहङ्कारः। That is, the inner instrument serves one as mind, intellect, memory and ego. The ego is easily understood as some form of assertion of individuality. So too, the memory is understood as a storehouse of experiential derivations and recollections thereof, when similar situations are faced. The mind and intellect are more interesting to this current topic. The mind is defined as संकल्पविकल्पात्मकं मनः and the intellect as निश्चयात्मिका बुद्धिः। The mind is that which entertains doubts oscillating between them, while the intellect is the one that resolves those doubts. The mind is चञ्चलम्, fickle and being outgoing by its very nature, it doesn't let one focus on one thing easily. It has to be trained just like a child is. Let that be.

The question then is: in situations of रागद्वेष, why is it that the intellect is unable to take decisions though it is a tool meant for that very purpose?! The answer lies in the very formation of अन्तःकरणम् which itself functions as any of the aforementioned four. Generally, when the mind is tense or under the influence of a strong desire, we see that we cannot recall something that the memory should. Krishna says in the Bhagavadgita so-- सम्मोहात् स्मृतिविभ्रमः। Similarly, when we are recalling something important, trying to remember badly, we can't process other emotions or make decisions. When we are angry, we can't think straight; when immensely happy, we forget our own self, our own existence, so to say! So on and so forth. The idea is that the same four-fold tool gets used in one function completely overshadowing the others; meaning when the emotion is strong, the mind overpowers the intellect and deludes one into doing something that one would do only unthinkingly! Krishna says later, स्मृतिभ्रंशात् बद्धिनाशः। The intellect, as though, doesn't exist at the time. The mind takes over all the functions of the अन्तःकरणम् as its own playground and the intellect is put to sleep along with the memory that should otherwise have served by recalling the pitfalls of similar erroneous behaviour earlier. Bhagavatpada Shankaracharya explains विभ्रमः as स्मृति-उत्पत्ति-निमित्त-प्राप्तौ अनुत्पत्तिः। Alas! The intellect wakes up only on the emotions, arising in the mind, subsiding on fulfilment. Bhagavatpada further explains "the destruction of the intellect" as the loss of the ability of the inner-instrument to discriminate between what is to be done and what is not to be done, कार्य-अकार्य-विषय-विवेक-अयोग्यता अन्तःकरणस्य। Thus results afterthought after afterthought, over and over again!

Since I do not want to close here on a lost hope kind of situation, let me explain a bit of what I mentioned earlier as to training the mind, just like a child is to be trained. अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते says Krishna, meaning that only by repeated practice of what is to be done and renunciation of what is not to be done is the mind grasped and trained. Here, the word repeated is to be understood as continuous. That is, शम, दम, etc, are to be developed over a continuous and long period of time, causing better संस्कारs to form new channels of thoughts. The mind picks up the newly formed habits over the old ones only when the new ones grow stronger. All these need grace in abundance, so नित्यकर्म with परमेश्वरप्रीतिः is a must. The aspect of continuity in साधन cannot be stressed enough, because not following it regularly is akin to slipping off the mountain and restarting the trek all over again. Maharshi Patanjali clearly puts this as a Yoga Sutra so-- स तु दीर्घ-काल-नैरन्तर्य-सत्कारासेवितः दृढभूमिः। That is, an unswerving foundation can be attained for the mind only by continuously practicing for a long time. The length of time is subjective to the strength of earlier संस्कारs, which becomes shorter when the practice is continuous.

May we all follow this to cross over to the most sought-after goal, मोक्षः।

ॐ तत् सत्।
श्रीगुरोः चरणकमले अर्पणम् अस्तु।

The root of the problem



A dull-witted person goes to a doctor with a complaint of pain. Here's how the conversation goes--

Doctor: What seems to be the issue?
Patient: I have pain.
Doctor: Where's the pain?
Patient: Everywhere.
Doctor: What do you mean by everywhere?
Patient: From head to toe.
Doctor: Show me where all it hurts.
Patient: (starts by touching his finger on the head). It hurts here. (touches the finger to his nose). Hurts here. (touches the finger to his chest) hurts here. (touches his finger to the abdomen) hurts. (touches the finger to his knees) hurts here and here. (touches his finger to his feet) here and here too....
Doctor: Stop, stop, stop. (holds the patient's finger).
Patient: (starts crying in pain) Aaaaa, oooooo, Ouch! That hurts a lot.
Doctor: It doesn't hurt everywhere, you idiot... its your finger that is hurting!!

Now, this anecdote is something that we all may have heard. However, many of us don't know that we are exactly like this dull-witted patient. We blame all our problems to be with others, with the world outside, unaware of the fact that all our problems are truly centred only around us! The circumstances and things, behaviour of the people around us, etc, make us uncomfortable. That discomfort of ours, in relation to the thing, person, the world outside, is problematic to us. We are unable to accept the things and people the way they are. So the problem is centred on the individual. If we learn to accept them, we realize there is no real problem at all!

--
ॐ तत् सत्

Thoughts 108

108. A single सनन्त-pursuit can put an end to this यङन्त-cycle of life.