जगन्मिथ्यात्वम्

ॐ श्रीगुरुभ्यो नमः।




जाग्रत्स्वप्नपदार्थयोः दृश्यत्वाद् द्वयोरपि समानता। अत्र अन्ये द्वैतिनः कथयन्ति यद् द्वयोः सामान्यं तेन द्वयोरपि सत्त्यमेव अतः स्वप्नपदार्थानामपि जाग्रद्वत् सत्यत्वम् इति तन्न। स्वप्नवद्दृश्यत्वात्। ततोऽस्माकमद्वैतवेदान्तिनां जाग्रद्पदार्थानां वैतथ्यम्। 

केचिदन्ये स्वप्नपदार्थानां मिथ्यात्वं मन्यन्ते किन्तु जाग्रद्पदार्थानां सत्यत्वम्। कस्मात्? यस्मात्तेषां यज्जाग्रद्पदार्थानां प्रयोजनत्वेन सत्यत्वं, यदपि स्वप्नपदार्थानामप्रयोजनत्वेनासत्यत्वम्। तत्र तेषां हेत्वाभासः। कथम्? यज्जाग्रद्भावानां प्रयोजनत्वमुक्तं तज्जाग्रदृष्ट्या किन्तु यत्स्वप्नभावानामप्रयोजनत्वं कथितं तन्न स्वप्नदृष्ट्येति व्यभिचारेण हेत्वाभासः। तन्न्यायादेव जाग्रद्भावानामपि स्वप्ने अप्रयोजनत्वान्मिथ्यात्वमेव शक्यते वक्तुम् अथवा स्वप्नभावानामपि स्वप्ने प्रयोजनत्वात् सत्यता। त्रिकालबाधितत्वात् द्वयोरप्यसत्यत्वम्। 

ननु द्वितीयपक्षे यदुक्तं नाम द्वयोरपि सत्यत्वमिति तत्किं न शक्यते? दृश्यत्वादिति मन्यामहे। दृश्यत्वेन हेतुना सर्वेषां पदार्थानां स्वतःसिद्धत्वं नास्ति। द्रष्ट्रधीनमेव तेषामस्तित्वं दृश्यं नतु स्वातन्त्र्येण। इत्यतः तेषां मिथ्यात्वम्। 

ननु द्रष्टापि दृश्यापेक्ष इत्यतः तस्यापि मिथ्यात्वमिति चेत्। बाढमेतस्यास्माकमिष्टापत्तिरेव। सर्ववेदान्तशास्त्रेषु दृश्यद्रष्ट्रोरधिष्ठानरूपस्य एकस्याद्वितीयस्य ब्रह्मण एव सत्यत्वाभ्युपगमात्। 


श्रीगुरुपादुकाभ्याम्।
ॐ तत् सत्।