Showing posts with label Tika. Show all posts
Showing posts with label Tika. Show all posts

Acharya Anandagiri's Tika on Ishavasyopanishad

॥ईशावास्योपनिषट्टीका॥
येनाऽऽत्मना परेणेशा व्याप्तं विश्वमशेषतः ।
सोऽहं देहद्वयीसाक्षी वर्जितो देहतद्गुणैः ॥१॥

ईशा वास्यमित्यादिमन्त्रान्व्याचिख्यासुर्भगवान्भाष्यकारस्तेषां कर्मशेषत्वशङ्कां तावद्व्युदस्यति। तथाहि— कर्मजडाः केचन मन्यन्ते स्म। ईशा वास्यमित्यादयो मन्त्राः कर्मशेषा मन्त्रत्वाविशेषादिषेत्वादिमन्त्रवत्। अतः पृथक्प्रयोजनाद्यभावादव्याख्येया इति तान्प्रत्याह—ईशा वास्यमित्यादय इति। कर्मस्वविनियुक्ता इति।
इषे त्वेति शाखां छिनत्तीत्यादिवद्विनियोजकप्रमाणादर्शनात्प्रकरणान्तरत्वाच्चेत्यर्थः। श्रौतविनियोगाभावेऽपि बर्हिर्देवसदनं दामीत्यस्य बर्हिर्लवनप्रकाशनसामर्थ्याद्बर्हिर्लवने यथा विनियोगस्तथा कर्मशेषात्मप्रकाशनसामर्थ्येन कर्मस्वेषां विनियोग इत्यपि नाऽऽशङ्कनोयमित्याह—तेषामिति।
शुद्धत्वादिविशेषणस्याऽऽत्मनः कर्मशेषत्वे प्रमाणाभावात्तद्याथात्म्यं न केवलं कर्मानुपयोगि किन्तु कर्मणा विरुध्यते चेत्याह —याथात्म्यं चेति।
शुद्धोऽहं स्वभावतो नाऽऽगन्तुकेनापि पाप्मना विद्धः सर्वत्रैकोऽशरीर आकशोपम इति जानन्न कटाक्षेणापि कर्म वीक्षते। किन्त्वापातप्रतिपत्तिरप्येतादृशी निरुणद्ध्येव कर्मप्रवृत्तिमित्यर्थः। किञ्च यः कर्मशेषः स उत्पाद्यो दृष्टो यथा पुरोडाशादिः। विकार्यः सोमादिः। आप्यो मन्त्रादिः। संस्कार्यो व्रीह्यादिस्तदुत्पाद्यादिरूपत्वं व्यापकं व्यावर्तमानमात्मयाथात्म्यस्य कर्मशेषत्वमपि व्यावर्तयति। तथाऽऽत्मयाथात्म्यं कर्तृ भोक्तृ च न भवति। येन ममेदं समीहितसाधनं ततो मया कर्तव्यमित्यहङ्कारान्वयपुरःसरः कर्त्रन्वयः स्यादित्याह —नह्येवमिति।
ननूपनिषदां जपोपयोगित्वादन्यस्य च प्रमाणस्यादर्शनान्नास्त्येवैतादृशमात्मयाथात्म्यं तत्राहऽऽह —सर्वासामिति।
यत्परः शब्दः स शब्दार्थः” इति मीमांसाप्रसिद्धेः सर्वासामुपनिषदां चैकात्म्ये तात्पर्यदर्शनान्न जपोयोगित्वमुपनिषदां शक्यं वक्तुम्। तथाहि— ईशा वास्यमित्युपक्रम्य स पर्यगाच्छुक्रमित्युपसंहारादनेजदेकं तदन्तरस्य सर्वस्येत्यभ्यासदर्शनान्नैनद्देवा आप्नुवन्नित्यपूर्वतासंकीर्तनात् को मोहः कः शोकः एकत्वमनुपश्यत इति फलवत्तासंकीर्तनात्कुर्वन्नेवेहेति जिजीविषोर्भेददर्शिनः कर्मकरणानुवादेनासुर्या नाम त इति निन्द्यैकात्म्यदर्शनस्य स्तुतत्वात्तस्मिन्नपो मातरिश्वा दधातीति युक्त्यभिधानाच्चास्यास्तावदुपनिषद ऐकात्म्यतात्पर्यं दृश्यते एवमन्यासामप्युपनिषदामुपक्रमोपसंहारैकरूप्याभ्यासापूर्वताफलवत्तार्थवादयुक्त्युपपादनानि षट् तात्पर्यलिङ्गानि विकल्पेन समुच्चयेन चास्माभिस्तत्त्वालोके दर्शितानीति नेह प्रतन्यन्ते। किञ्च प्रत्ययसंवादोऽपि बलवत्वे कारणं प्रसिद्धम्। विद्यते चोपनिषदर्थे गीतादिसंवादस्तस्मादुपनिषत्पदसमन्वयेनावगम्यमानमैकात्म्यं न प्रमाणान्तरानुपलम्बविरोधेनापलपनीयम्। यथेन्द्रियान्तरेणान्तरेणानवगम्यमानमपि रूपं चक्षुषाऽवगम्यमानं नापह्नूयते तथैकात्म्यमपि नापह्नवार्हमित्याह –गीतानामिति।
समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्। विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति॥” इत्यादिगीतानाम्।
एक एव हि भूतात्मा भूते भूते व्यवस्थितः। एकधा वहुधा चैव दृश्यते जलचन्द्रवत्॥” इत्यादिमोक्षशास्त्राणां चैकात्म्यपरत्वादित्यर्थः।
यद्येतादृशमात्मत्त्वं तर्हि निरधिकारित्वात्कर्मकाण्डमुच्छिद्येत्येत्यपि नाऽऽशङ्कनीयमित्याह —तस्मादिति।
औपनिषदात्म्ययाथात्म्यविज्ञानवत इष्यते एव श्येनादिविध्यप्रामाण्यम्। यथा “ न हिंस्यात्सर्वा भूतानि” इति निषेधशास्त्रार्थनिश्चयवत इष्यत एव श्येनादिविध्यप्रामाण्यम्। यथा च तीव्रक्रोधाक्रान्तस्वान्तं प्रत्येव श्येनादिविधिप्रामाण्यं तथा मिथ्यात्म्यदर्शिनं प्रत्येव कर्मविधिप्रामाण्यमित्यर्थः।
अत्र जैमिनिप्रभृतीनां सम्मतिमाह —यो हीत्यादिना।
अर्थित्वादियुक्तस्य कर्मण्यधिकारः षष्ठ्येऽध्याये प्रतिष्ठापितः। अर्थित्वादि च मिथ्याज्ञाननिदानम्। न हि नभोवन्निष्क्रियस्य स्वत एव दुःखासंसर्गिणः परमानन्दस्वभावस्य सुखं मे स्याद्दुःखं मे मा भूदित्यर्थित्वं शरीरेन्द्रियसामर्थ्येन च समर्थोऽहमित्याभिमानित्वं मिथ्याज्ञानं विना सम्भवतीत्यर्थः। यस्मादात्मयाथात्म्यप्रकाशका मन्त्रा न कर्मविधिशेषभूता न च मानान्तरविरुद्धास्तस्मात्प्रयोजनादिमत्त्वमपि तेषां सिद्ध्यमित्याह —तस्मादेत इति।
व्याख्येयत्वमुक्त्वा प्रतिपदं व्याचष्टे —ईशेति।
ईशँ ऐश्वर्ये इत्यस्य धातोः क्विपि लुप्ते कृदन्तं रूपमीट् तस्य तृतीयैककवचनमीशेति।
ननु कर्तरि क्विब्विधानात्परमात्मनश्चाविक्रियत्वात्कथं क्विबन्तशब्दवाच्यतेति तत्राऽऽह —ईशेतेति।
मायोपाधेरीशनकर्तृत्वसम्भवात् क्विबन्तशब्दवाच्यता न विरुद्ध्यते निरुपाधिकस्य च लक्ष्यत्वं भविष्यतीत्यर्थः।
ईशित्रीशितव्यभावेन तर्हि भेदः प्राप्त इत्याशङ्क्याऽऽह—सर्वजन्तूनामात्मा सन्निति।
यथाऽऽदशादिषु प्रतिबिम्बानामात्मा सन् बिम्बभूतो देवदत्त ईशिता भवति तथा कल्पितभेदेनेशित्रीशितव्यभावसम्भवान्न वास्तवभेदानुमानं सम्भवतीत्यर्थः । 'वस' आच्छादने। अस्य रूपं वास्यम्। तत्वत ईश्वरात्मकमेव सर्व भ्रान्त्या यदनीश्वररूपेण गृहीतं तत्सर्वमीश्वर एवाऽऽत्मैवेति ज्ञानेनाऽऽच्छादनीयम् । सर्वात्मकं ईश्वरोऽस्मीति ज्ञातव्यमेष तत्त्वोपदेशश्छान्दोग्ये तत्त्वमसीतिवदित्यर्थः ।
ब्रह्मैव सर्वमात्मैव सत्प्रकाशाविशेषतः।
हेयोपादेयभावोऽयं न सन्स्वप्नवदीर्यते॥'
उक्तं च—
न बन्धोऽस्ति न मोक्षोऽस्ति न विकल्पोऽस्ति तत्त्वतः।
नित्यप्रकाश एवास्ति विश्वाकारो महेश्वरः॥'
इति ।

यस्यौपदेशिकज्ञानमात्रेणानृतदृष्टिर्न तिरस्क्रियते तस्य विचारादिप्रयत्नेन तत्त्वप्रकाशे सत्यनृतदृष्टिस्तिरस्क्रियेतेत्यभिप्रेत्य दृष्टान्तमाह —यथेति।

चन्दनागर्वादेरुदकादिसम्बन्धादाद्रभावादिना जातं यद्दौर्गन्ध्यमौपाधिकं मिथ्या तद्यथा तत्स्वरूपनिघर्षणाभिव्यक्तेन स्वाभाविकेन गन्धेनाऽऽच्छाद्यते तद्वद्विचारादेः स्वरूपसद्भावान्मिथ्याबुद्धेर्बाधकत्वं सम्भवतीत्याह —तद्वदेव हीति।

स्वभावोऽनादिरविद्या तत्कार्यं स्वाभाविकमित्यादिबाधयोग्यत्वप्रदर्शनार्थं विशेषणम्। एवं विचारादिप्रयत्नवतोऽनृतदृष्टितिरस्कारसम्भावनामुक्त्वा युक्त्यनभिज्ञस्य सर्वमिदमहं चेश्वर एवेति भावनायामधिकृतस्य युक्तिकुशलस्य च विचारेऽधिकृतस्य सर्वकर्मसंन्यास एवाधिकार इह मन्त्रे विवक्षितस्तेन त्यक्तेनेत्यत्र त्यागपरामर्शात्। “त्यजतैव हितज्ज्ञेयंत्यक्तुः प्रत्यक्परं पदमि"त्यन्यत्राप्युक्तत्वात्पुत्राद्येषणायाश्चित्तविक्षेपहेतुत्वेन प्रसिद्धत्वाच्चेत्यभिप्रेत्याऽऽह —एवमीश्वरात्मेति।
चिकीर्षितं संन्यासं स्तौति —तेन त्यक्तेनेति।
त्यागेनाऽऽत्मा रक्षितः स्यान्निष्क्रियात्मस्वरूपावस्थानानुकूलत्वात्त्यागस्येत्यर्थः।
संन्यासिनः शरीरसन्धारणोपयुक्तकौपीनाच्छादनभिक्षाशनादिव्यतिरिक्तेऽपि कथञ्चिद्द्रव्यपरिग्रहे रागश्चेत्प्राप्नोति तन्निरोधे यत्नः कर्तव्यः। तस्य प्रधानविरोधित्वादित्यभिप्रेत्य नियमविधिमाह —एवं त्यक्तैषण इति।
स्विदिति निपातस्य सामान्यार्थत्वेऽपि कस्यस्विदिति वितर्कार्थित्वमन्यत्र प्रसिद्धं तदिह न गृह्यत इत्यनर्थकमित्युक्तम्। व्यवहारदृष्टयाऽप्यात्मन एवेदं सर्वं शेषभूतं जडस्य चित्परतन्त्रत्वादतोऽप्राप्ते विषये नाऽऽकाङ्क्षा कर्तव्या। परमार्थतस्त्वात्मैव सर्वमित्याकाङ्क्षाविषय एव नास्तीत्यर्थः ॥१॥

आद्यमन्त्रस्य पूर्वार्धेन तत्वोपदेशः कृतस्तृतीयपादेनापरिपक्वज्ञानस्य संन्यासविधिरुक्तश्चतुर्थपादेन संन्यासिनो नियमविधिरुक्त इति प्रतिपदं व्याख्याय संक्षिप्यार्थमनुवदत्युत्तरस्य सम्बन्धाभिधित्सया —एवमात्मविद इत्यादिना।
पूर्वमन्त्रेण ज्ञानं विहितं यस्य तस्यैवोत्तरमन्त्रेण कर्म विहितं ततः समुच्चयानुष्ठाने तात्पर्यं मन्त्रद्वयस्येत्येकदेशिशङ्कामुद्भावयति —कर्थ पुनरिति।

शुद्धब्रह्मज्ञानकर्मणी नैकाधिकारे विरुद्धत्वादृतुगमनत्रिदण्डिधर्मवत्। अस्त्येव तत्रापि क्रमेणैककर्तुकत्वमिति चेन्न। विशिष्टरूपभेदाद्भिन्नाधिकारत्वात्
यच्चोक्तं— ज्ञानकर्मणोर्वेदविहितत्वेन शुद्धिसाम्याद्विरोधोऽसिद्ध इति तदसत्। ऋतुगमनत्रिदण्डिधर्मयोरप्यविरोधप्रसङ्गात्। तदुभयं नैकस्य विहितमिति चेत्तुल्यमेतत्। प्रतिषेधात्तत्र न समुच्चय इति चेदिहापि ‘न कर्मणा न प्रजया' 'नानुध्यायाद्बहूञ्छब्दानि’त्यादिप्रतिषेधस्तुल्यः। केवलकर्मविषयो निषेध इति न च वाच्यं केवलपदव्यवच्छेद्याभावात्समुच्चयविधेरद्याप्यनिश्चितत्वात्तस्मान्न समुच्चये तात्पर्यं मन्त्रद्वयस्येत्याह —ज्ञानकर्मणोर्विरोधमिति।
कर्तृत्वाद्यध्यासाश्रयं कर्म शुद्धत्वाकर्तृत्वादिज्ञानेनोपमृद्यत इति सम्बन्धग्रन्थे यथोक्तं सहानवस्थानलक्षणं विरोधं किं न स्मरसि येनैकाधिकारत्वं तयोः कल्पयसीत्यर्थः। मन्त्रलिङ्गादपि तयोर्भिन्नाधिकारत्वं प्रतीयत इत्याह —इहाप्युक्तमिति।
जिजीविषो रागिणः कर्मं विहितं सर्वमीश्वर एवेति ज्ञानवतस्त्यागो विहितः। किञ्च धनसम्पन्नस्यैव कर्मण्यधिकारः। प्रथममन्त्रार्थाधिकारिणश्च धनाकाङ्क्षानिषेधेन कर्माधिकारनिषेधः प्रतीयत इत्यर्थः। जिजीविषा हि कर्माधिकारिण एव न ज्ञानाधिकारिण इत्यत्र प्रमाणमाह —न जीवित इति।
अरण्यं स्त्रीजनासङ्कीर्णमाश्रममियाद्गच्छेदिति पदं वेदशास्त्रस्थितिस्ततोऽरण्यवासोपलक्षितात्संन्यासान्न पुनरियात्कर्मश्रद्धया न प्रत्यावृत्तिं कुर्यादिति जिजीविषादिरहितस्य संन्यासविधानादित्यर्थः। इतश्च नैकफलकामस्य ज्ञानकर्मणोरधिकारः प्रतिपत्तव्य इत्याह —उभयोरिति।
को मोहः कः शोक एकत्वमनुपश्यत इति सनिदानानर्थप्रहाणं ज्ञानफलं वक्ष्यति। संसारमण्डलान्तर्गतमेव च देशान्तरप्राप्त्यायत्तं हिरण्यगर्भपदप्राप्त्यादिलक्षणं कर्मफलं वक्ष्यति। अग्ने नय सुपथेत्यन्तेनेत्यर्थः। नारायणोपनिषद्वाक्यमपि भिन्नाधिकारित्वे प्रमाणयति —इमौ द्वावेवेति।
पुरस्तात्सृष्टिकालेऽनुनिष्क्रान्ततरौ भूतसृष्टिमनुप्रवृत्तौ भिन्नाधिकारित्वादुभयोः संन्यास एवातिरिक्तः श्रेष्ठो भवति परमपुरुषार्थाव्यवधानादित्यर्थः। व्यासवाक्यमपि संवादकमाह —द्वाविमाविति॥ २॥

आद्यमन्त्रार्थं प्रपञ्चयितुं प्रथममविद्वन्निन्दा क्रियत इत्याह —अथेति।
ते लोका इति तच्छब्दो यच्छब्दार्थे। यथाश्रुतमिति। येन यादृशं प्रतिषिद्धं विहितं वा देवतादिज्ञानमनुष्ठितं स तदनुरूपमेव योनिमाप्नोतीत्यर्थः। आत्महन्तृत्वस्योदरभेदिनि प्रसिद्धेः कथमविद्वांस आत्महन इत्याह —कथं त इति।
उदरभेदिनोऽध्यात्माधिकारे प्रसज्ञाभावादशुद्धत्वाध्यसेन तिरस्कार एवाऽऽत्महन्तृत्वमित्याह—अविद्यादोषेणेति।
यथा कस्यचिच्छुद्धस्य मिथ्याभिशापोऽशस्त्रवध उच्यते तद्वदात्मनि पापित्वाद्यध्यासोऽपि हिंसैवेत्यर्थः। अजरामरत्वादिलक्षणोऽहमिति संवेदनमभिधानं च यत्कार्यं तद्धतस्येव न दृश्यत इति हननमुपचर्यत इत्याह —विद्यमानस्येति।
अस्याऽऽत्मघातस्य प्रायश्चितविधानादर्शनात्संसरणमेव फलमित्याह —तेन हीति॥३॥

उत्तरमन्त्रमवतारयति—यस्याऽऽत्मन इत्यादिना।
अविक्रियमेकं चेदात्मतत्त्वं कथं तर्हि केचन स्वर्गगामिनः केचिन नरकगामिन इति सांसारिकव्यवस्था स्यादिति चेन्मनउपाधिनिबन्धनेत्यभिप्रेत्याऽऽह—मनस इत्यादिना।
उपाधेरनुवर्तनात् विक्रियादिव्यवहाराश्रयत्वमिति शेषः। ननु मनसो देहान्तःस्थत्वाद्बहिर्गमनायोग्यत्वात्कथं वेगवत्त्वमित्याशङ्कयाह—देहस्थस्येति। जवीयस्त्वादश्वादिवत्तर्हि चक्षुरादिग्राह्यत्वं प्राप्तमित्याशङ्कयाऽऽह —नैनद्देवा इति।
चक्षुरादिप्रवृत्तेर्मनोव्यापारपूर्वकत्वात्तदविषयत्वे चक्षुरादिविषयत्वमप्यात्मनो न सम्भवतीत्यर्थः।
मनसो वा कथं न विषय आत्मेत्यत आह —यस्मादिति।
यथा मनःस्थं परिमाणं मनसो न विषयोऽत्यन्ताव्यवधानात्तथाऽऽत्माऽप्यन्ताव्यवधानान्मनसो न विषयस्तद्वयापकत्वाच्चेत्यर्थः। उक्तात्मसम्भावनायोपपत्तिमाह—तस्मिन्नात्मतत्वे सतीति।
श्रौतानि कर्माणि सोमाज्यपयः प्रभृतिभिरद्भिः सम्पाद्यन्त इति सम्बन्धाल्लाक्षणिकोऽप्शब्दः कर्मसु प्राणचेष्टायाश्चाब्निमित्तत्वप्रसिद्धेः; कारणवाचकः शब्दः कार्ये लक्षणया प्रयुक्त इत्यर्थः। ईश्वरस्यापि हिरण्यगर्भस्य नियतप्रवृत्यन्यथानुपपत्याऽधिष्ठाता परमेश्वरः सम्भाव्यत इत्युत्तमिदानीं मातरिश्वग्रहणमुपलक्षणार्थमादाय तात्पर्यंमाह —सर्वा हीति ॥४॥

जामिता-आालस्यम् । व्यापित्वाद्बाह्यतोऽस्ति निरतिशयसूक्ष्मत्वादन्तश्चेदस्ति तर्हि निरन्तरमेकरसं न स्यान्मानाभावादित्याशङ्कयाऽऽह —प्रज्ञानघन एवेति ॥५॥
उक्तात्मज्ञानस्य फलं विधिनिषेधातीतजीवन्मुक्तस्वरूपेणावस्थानमित्याह—यस्त्विति॥६॥

निरतिशयानन्दस्वरूपमत एव दुःखास्पृष्टमात्मानमजानतः शोको भवति हा हतोऽहं न मे पुत्रोऽस्ति न मे क्षेत्रमिति। ततः पुत्रादीन्कामयते तदर्थं देवताराधनादि चिकीर्षति न त्वात्मैकत्वं पश्यतस्ततोऽन्वयव्यतिरेकाभ्यां शोकादेरविद्याकार्यत्वावधारणान्मूलाविद्यानिवृत्यैव शोकादेरात्यन्तिकी निवृत्तिर्विद्याफलत्वेन विवक्षिता लयमात्रस्य सुषुप्तेऽपि भावादित्याह —शोकश्च मोहश्चेत्यादिना॥७॥

योऽयमिति। ‘स्नु' प्रक्षरणे धातुः । स्नावयन्ति शरीरमिति स्नावाः शिराः। क्रान्तमतिक्रान्तं नष्टमित्युपलक्षणं भूतभविष्यद्वर्तमानदर्शी॥८॥

प्रकरणविभागं दिदर्शयिषुर्वृत्तमनुवदति—अत्राऽऽद्येनेति।
यदुक्ततं भास्करेण सर्वाऽप्युपनिषदेकं ब्रह्मविद्याप्रकरणं ततः प्रकरणभेदकरणमनुचिमिति। तदसत्। प्राणाद्युपासनविधानस्याप्युपनिषत्सु दर्शनात्। न च तदपि ब्रह्मज्ञानाङ्गमिति वाच्यम्। पृथक्फलश्रवणात्। तेनापि व्याकृताव्याकृतोपासनसमुच्चयविधानस्य प्रकरणभेदेनैवेष्टत्वाद्व्याकृताव्याकृतोपासनस्य प्रकारान्तरत्वात्तस्माद्यथा कर्मकाण्डेऽग्निहोत्रादिप्रकरणं भिन्नमेवष्यते भिन्नाधिकारत्वात्तत्तत्कर्मणस्तथोपनिषत्स्वपि भिन्नाधिकारत्वात्कर्माविरुद्धतद्विरुद्धविद्याप्रकरणभेदो न विरुध्यते। मन्त्रार्थे ब्राह्मणसम्मतिं दर्शयितुमुपक्रमते—अनयोश्चेत्यादिना।
तत्र वाक्ये कथमज्ञत्वमवगम्यत इत्याशङ्कयाऽऽह—मन एवेति।
जाया मे स्यादथ प्रजायेयाथ वितं मे स्यादथ कर्म कुर्वीये’ति कामयमानस्य सर्वथैव बाह्यो जायादिर्यदा न सम्पद्यते तदाऽध्यात्मं जायादिसम्पतिं दर्शयति। एतच्चाज्ञत्वलिङ्गं मनआादिष्वात्मत्वाद्यभिमानस्याज्ञानकार्यत्वात्। यथा च बाह्यकामिन्यलाभे सुप्तो मनोविजृम्भितकामिनीमुपभुञ्जानोऽज्ञः प्रसिद्धस्तद्वदयमपीत्यर्थः। तेषां च कर्मणां फलं संसाराप्तिरेवेत्यपि तत्रैव दर्शितमित्याह —तथा चेति।
एकं साधारणमन्नं यदिदमद्यते द्वे देवानां हुतप्रहुते दर्शपूर्णमासौ वा; त्रीण्यस्य भोगसाधनानि मनोवाक्प्राणलक्षणानि; पश्वर्थमेकं तत्पय इति सप्तान्नसर्गो दर्शितः श्रुत्या यत्सप्तान्नानि मेधया तपसाऽजनयत्पितेत्यादिना। अत्रैकैको यजमान एव विहितप्रतिषिद्धज्ञानकर्मानुष्ठानात्सर्वस्य संसारस्य साक्षात्पारम्पर्याभ्यां जनकत्वात्पितोच्यते। तेषु च सृष्टेष्वन्नेषु तस्य पितुरहमिदं ममेदमित्यात्मत्वाध्यासेन मनआादिष्वितरेषु च सम्बन्धाध्यासेनावस्थानं संसारः प्रसिद्ध इत्यर्थः। एवं मन्त्रप्रदर्शिते निष्ठाद्वये ब्राह्मणसम्मति दर्शयित्वा प्रकरणविभागं दर्शयति —ये तु ज्ञाननिष्ठा इत्यादिना।
अत्याश्रमिभ्य इति। उत्तमाश्रमिभ्य इत्यर्थः। साध्यसाधनभेदोपमर्देन यदात्मैकत्वविज्ञानं यस्मिन्सर्वाणिभूतान्यात्मैवाभूदित्यवधारणेनोक्तं पूर्वार्धेन, उत्तरार्धेन च संसारनिवृत्तिफलकमुक्तं तन्न श्रौतेन स्मार्तेन वा कर्मणा केनचिदमूढः समुच्चिचीषति। अन्धं तम इत्यादौ तु समुच्चिचीष्याऽविद्वदादिनिन्दा दृश्यते। ततः किमित्यत आह —तत्र च यस्येति।
कस्य तर्हि ज्ञानस्य कर्मसमुच्चयः सम्भवतीत्यत आह —यद्दैवं वित्तमिति।
यच्चोक्तं भास्करेणेशा वास्यमिति मन्त्रे ब्रह्मविद्यायाः प्रक्रान्तत्वात्तस्या एव समुच्चिचीषया निन्दोच्यत इति । तदसत् । न हि प्रकृतमित्येतावता सम्बध्यते किं तु सम्बन्धयोग्यम् । शुद्धब्रह्मात्मैकत्वविद्यायास्तु कतृत्वाद्यध्यासोपमर्दकत्वान्नास्ति कर्मसम्बन्धयोग्यता । किञ्च यस्मिन्निष्पन्नेऽपि फलस्य व्यवधानं सम्भाव्यते तस्यैव सहकारिसमुच्चय इष्यते दर्शादेः, इह त्वेकत्वमनुपश्यतः को मोहः कः शोक इत्येकत्वदर्शनसमकालमेव मोहादिनिवृत्त्यभिधानान्न कालान्तरीयफलम् । ततो न सहकारिसमुच्चिचीषा । किञ्चास्या मन्त्रोपनिषदो ब्राह्मणे “ब्राह्मणा विविदिषन्ति यज्ञेने"त्यादौ तृतीयाश्रुत्या यज्ञादेरिष्यमाणवेदने क्ररणत्वेन सम्बन्धः प्रतीयते । तत्कथं दुर्बलेन प्रकरणेन सहकारितया सम्बन्धः प्रकल्प्यते । प्रधानस्य च विद्यायाः सहकारिसम्बन्धविधित्सया निन्देत्यप्ययुक्तम्। अत एव चाग्नीन्धनाद्यनपेक्षेतिसूत्रविरोधश्च । समुच्चयश्च परेणापि नेष्यते । विरोधेन च परिजह्रै । तस्मात्कर्माविरुद्धदेवताज्ञानस्येवात्र समुच्चयो विधित्स्यते । ननु देवताज्ञानस्य कर्मफलातिरिक्तफलाभावात्समुच्चयो न सम्भवतीत्यत आह —विद्ययेति।
ननु समुच्चिचीषया निन्देति किमिति व्याख्यायते । अध्ययनविधेर्मोक्षादर्वाक्पर्यवसानानुपपत्तेर्देवलोकादिप्राप्तेः फलाभासत्वात्प्रहाणार्थैव निन्दा किं नेष्यते तत्राऽऽह —तयोजनकर्मणोरिति।
न फलशब्दो मोक्षे रूढो मोक्षमनिच्छतामपि समीहिते फलव्यवहारदर्शनात्ततो यो देवलोकादिमुपादित्सते तस्य तदपि फलं भवत्येवेत्यर्थः ॥९-१०-११॥

सम्भूतशब्देनोच्यते न ब्रह्म । तस्य निर्विकारस्य साक्षात्प्रकृतित्वानुपपत्तेः । भास्कराभिमतस्तु परिणामवादस्तत्त्वालोके' निरस्त एवास्माभि: । सांसारिकदुःखानुभवाभावेन च सुषुप्तिवत्प्रकृतिलयस्य पुरुषेणार्थ्यमानताऽप्युपपद्यते । फलं च कर्मोपासन इव प्रकृत्युपासनेऽपि परमेश्वर एव दास्यति । ततो जडत्वात्प्रकृतेः फलदातृत्वानुपपत्तेरुपास्यत्वानुपपत्तिरित्यपि कुचोद्यमेव ॥१२-१३-१४॥

विस्तरेणोक्तमर्थजातं संक्षिप्योपसंहरति —मानुषदैववित्तसाध्यमित्यादिना।
शरीरपाटवं गोभूहिरण्यादिसाधनसम्पतिश्च मानुषं वित्तम्। दैवं वित्तं देवताज्ञानम्। उत्तरग्रन्थस्य सम्बन्धाभिधित्सयाऽर्थविशेषमनुवदति—तत्र निषेकादीत्यादिना।
तदुक्तमिति तं प्रत्युक्तं मन्त्रेण विद्यां चेत्यादिनाऽऽपेक्षिकामृतत्वं फलमित्युक्तमस्माभिरिति॥१५॥

व्याहृत्यवयव इति। तस्य भूरिति शिरः भुव इति बाहू सुवरिति प्रतिष्ठा पादावित्यर्थः ॥१६-१७॥

मन्त्रान्पदशो व्याख्याय संक्षेपतो विचारमारभते —अविद्यया मृत्युं तीर्त्वेत्यादिना।
अमृतत्वं चेति। अमृतत्वं च मुख्यमेव कस्मान्न गृह्यत इति सम्बन्धः। शास्त्रीययोर्ज्ञानकर्मणोर्विरोधाविरोधौ शास्त्रीयावेव ग्राह्यौ न तर्कमात्रेणेति परेणोक्ते सिद्धान्ती शास्त्रसिद्ध एव विरोध इत्याह —न दूरमेते इति।
विषूची नानागती विद्याविद्ये दूरं विपरीते अतिशयेन विरुद्धे इत्यर्थः। सहसम्भवानुपपत्तेरिति । काऽनुपपत्तिः? काष्ठके विरोधश्रवणात् तद्गतविद्याविद्ययोर्विरोधोऽस्तु । इह त्वविरोधश्रवणादविरोधो भविष्यतीति न वाच्यम् । विरोधाविरोधयोः सिद्धत्वेन विकल्पासम्भवात् । उदितानुदितहोमयोर्हि पुरुषतन्त्रत्वाद्युक्त विकल्प इत्युक्तं, तर्ह्यविरोध एवास्तु समुच्चयविधिबलादिति चेन्न। मुख्यब्रह्मविद्याविद्ययोः शुक्तिविद्याविद्ययोरिव सहसम्भवानुपपत्तेः ’समुच्चयविधिरसिद्धः । सिद्धे समुच्चयविधौ तद्बलादविरोधावगमोऽविरोधावगमाच्च समुच्चयसिद्धिरित्यन्योन्याश्रयः स्यादित्यर्थः । सहसम्भवानुपपत्तावपि क्रमेणौकाश्रये विद्याविद्ये स्यातामिति चेद्यदि पूर्वमविद्या पश्चात्तु विद्येति क्रमस्तर्हीष्यत एव । यदि पश्चात्तर्ह्यसम्भव इत्याह —न विद्योत्पत्ताविति ।
पूर्वीसिद्धाया अविद्यायाः प्रध्वस्तत्वादन्यस्याश्चोत्पत्तौ कारणासम्भवान्मूलाभावेन भ्रमसंशयाग्रहणानामपि विदुषोऽनुपपत्तिरित्यर्थः। विद्योत्पत्तौ मा भूदविद्या कर्मं तु भविष्यति विदुषोऽपि व्याख्यानभिक्षाटनादिदर्शनादित्याशङ्कयाह—अविद्याऽसम्भवादिति।
चोदनाप्रयुक्तानुष्ठानं हि कर्म ज्ञानेन सह तव समुच्चिचीषितं ब्रह्मात्मैकत्वं तु साक्षादनुभवतो न चोदना सम्भवति कामाभावात्कामिनो हि सर्वाश्चोदनाः । 'अकामिनः क्रिया काचिद्दृश्यते नेह कस्यचित्' 'यद्यद्धि कुरुते जन्तुस्तत्तत्कामस्य चेष्टितम्', इति स्मरणात्। विद्वच्छरीरस्थितिहेत्वविद्यालेशाश्रयकर्मशेषनिमित्तं तु विदुषो भिक्षाटनादि न कर्म, चोदनाभावात्किन्तु यावत्प्राणशरीरसंयोगभावि तत्कर्माभासं तच्च विद्वान्न स्वगतं मन्यते कर्माध्यासोपादानाविद्याया असम्भवान्नैव किंचित्करोमीति प्रत्ययाच्चेति भावः। यदुक्तममृतशब्देन मुख्यमेवामृतत्वं किं न गृह्यते विद्याशब्देन च परमात्मविद्येति तत्राऽऽह —अमृतमिति।
मुख्यामृतत्वग्रहणे हिरण्मयादिमन्त्रेण द्वारमार्गयाचनमनुपपन्नं स्यात्। न तस्य प्राणा उत्क्रामन्त्यत्र ब्रह्म समश्नुत इत्यादिश्रुतेः। ततो मुख्यार्थबाधाद्गौणार्थग्रहणं युक्तमित्यर्थः। यस्मादर्थान्तरं न सङ्गच्छते तस्मादित्युपसंहारः॥१८॥

ईशाप्रभृतिभाष्यस्य शाङ्करस्य परात्मनः।
मन्दोपकृतिसिद्धयर्थं प्रणीतं टिप्पणं स्फुटम्॥

इति श्रीपरमहंसपरिव्राजकाचार्यश्रीशुद्धानन्दभगवत्पूज्यपादशिष्यभगवदानन्दज्ञानकृता

वाजसनेयसंहितोपनिषद्भाष्यटीका समाप्ता।

Acharya Anandagiri's Tika on Mundakopanishad


With quite some effort spread across some weeks, I finally keyed in Bhagavan Anandagiri's Tika on Mundaka Upanishad Shankarabhashyam. I'm sharing the same here in case someone finds its useful. I haven't seen it available anywhere online, except as part of some scanned books. However, the following is in unicode and can be copy pasted into your document editor directly. I've only proofread it myself, so please let me know if you find some errors.

श्रीधरपादुकार्पणमस्तु।
ॐ तत् सत्॥
--------------

॥आनन्दगिरिकृतटीका॥
॥मण्डकापानिषत्॥

यदक्षरं परं ब्रह्म विद्यागम्यमतीरितम् । यस्मिञ्ज्ञाते भवेज्ज्ञातं सर्वं तत्स्यामसंशयम् ॥

ब्रह्मोपनिषद्गर्भोपनिषदाद्या अथर्वणवेदस्य बह्व्य उपनिषदः सन्ति । तासां शारीरकेऽनुपयोगित्वेनाव्याचिख्यासितत्वाददृश्यत्वादिगुणको धर्मोक्ते (ब्र० १।२।२१) रित्याद्यधिकरणोपयोगितया मुण्डकस्य व्याचिख्यासितस्य प्रतीकमादत्ते ब्रह्मादेवानामित्याद्याथर्वणोपनिषदिति । व्याचिख्यासितेति शेषः । नन्वियमुपनिषन्मन्त्ररूपा मन्त्राणां चेषे त्वेत्यादीनां कर्मसंबन्धेनैव प्रयोजनवत्त्वम् । एतेषां च मन्त्राणां कर्मसु विनियोजकप्रमाणानुपलम्भेन तत्संबन्धासंभवान्निष्प्रयोजनत्वाद्व्याचिख्यासितत्वं न संभवतीति शङ्कमानस्योत्तरम् । सत्यं कर्मसंबन्धाभावेऽपि ब्रह्मविद्याप्रकाशनसामर्थ्याद्विद्यया संबन्धो भविष्यति। ननु विद्यायाः पुरुषकर्तृकत्वात्तत्प्रकाशकत्वेऽस्या उपनिषदोऽपि पौरुषेयत्वप्रसङ्गात्पाक्षिकपुरुषदोषजत्वशङ्कयाऽप्रामाण्याद्व्याचिख्यासितत्वं नोपपद्यत इत्याशङ्क्याऽऽह अस्याश्चेति विद्यायाः सम्प्रदायप्रवर्तका एव पुरुषा न तूत्प्रेक्षया निर्मातारः। सम्प्रदायकर्तृत्वमपि नाधुनातनं येनानाश्वासः स्यात् किन्त्वनादिपारम्पर्यागतम्। ततोऽनादिप्रसिद्धब्रह्मविद्याप्रकाशनसमर्थोपनिषदः पुरुषसम्बन्धः सम्प्रदायकर्तृत्वपारम्पर्यलक्षण एव तमादावेवाऽऽहेत्यर्थः । विद्यासम्प्रदायकर्तृत्वमेव पुरुषाणाम्। यथा विद्यायाः पुरुषसम्बन्धस्तथैवोपनिषदोऽपि यदि पुरुषसम्बन्धो विवक्षितः पौरुषेयत्वपरिहाराय तर्हि तथाभूतसम्बन्धाभिधायकेनान्येन भवितव्यं स्वयमेव स्वसम्बन्धाभिधायकत्वे स्ववृत्तिप्रसङ्गादित्याशङ्क्याऽऽह स्वयमेव स्तुत्यर्थमिति । विद्यास्तुतौ तात्पर्यान्न स्ववृत्तिर्दोष इत्यर्थः स्तुतिर्वा किमर्थत्यत आह श्रोतृबुद्धीति प्रवर्तेरन्निति पाठो युक्तः । वृतुधातोरात्मनेपदित्वात् । विद्याया यत्प्रयोजनं तदेवास्या उपनिषदोऽपि प्रयोजनं भविष्यतीत्यभिप्रेत्य विद्यायाः प्रयोजनसंबन्धमाह प्रयोजनेन त्विति । संसारकारणनिवृत्तिर्ब्रह्मविद्याफलं चेत्तर्ह्यपरविद्ययैव तन्निवृत्तेः संभवान्न तदर्थं ब्रह्मविद्याप्रकाशकोपीनषद्व्याख्यातव्येत्याशङ्क्याऽऽह अत्र चेति। संसारकारणमविद्यादिदोषस्तन्निवर्तकत्वमपरविद्यायाः कर्मात्मिकायाः न संभवत्यविरोधात् । न हि शतशोऽपि प्राणायामं कुर्वतः शुक्तिदर्शनं विना तदविद्यानिवृत्तिर्दृश्यते । ततोऽपरविद्यायाः संसारकारणाविद्यानिवर्तकत्वं नास्तीति स्वयमेवोक्त्वा ब्रह्मविद्यामाहेति संबन्धः । किञ्च परमपुरुषार्थसाधनत्वेन ब्रह्मविद्यायाः परविद्यात्वं निकृष्टसंसारफलत्वेन च कर्मविद्याया अपरविद्यात्वम् । ततः समाख्याबलादपरविद्यायामोक्षसाधनत्वाभावोऽवगम्यत इत्यभिप्रेत्याऽऽह परापरेति यच्चाऽऽहुः कर्मजडाः केवलब्रह्मविद्यायाः कर्तृसंस्कारत्वेन कर्माङ्गत्वात्स्वातन्त्रेण पृरुषार्थसाधनत्वं नास्तीति तदनन्तरश्रुत्यैव निराकृतमित्याह तथा परप्राप्तिसाधनमिति । ब्रह्मविद्यायाः कर्माङ्गत्वे कर्मणो निन्दा न स्यात् । न खल्वङ्गविधानाय प्रधानं विनिन्द्यते । अत्र तु सर्वसाध्यसाधननिन्दया तद्विषयवैराग्याभिधानपूर्वकं परप्राप्तिसाधनं ब्रह्मविद्यामाह अतो ब्रह्मविद्यायाः स्वप्रधानत्वात्तत्प्रकाशकोपनिषदां न कर्तुः स्त्वावकत्वमित्यर्थः। यद्युपनिषदां स्वतन्त्रब्रह्मविद्याप्रकाशकात्वं स्यात्तार्हि तदध्येतॄणां सर्वेषामेव किमिति ब्रह्मविद्या न स्यादित्याशङ्क्याऽऽह गुरुप्रसादलभ्यामिति गर्वनुग्रहादिसंस्काराभावात्सर्वेषां यद्यपि न भविष्यति तथाऽपि विशिष्टाधिकारिणां भविष्यतीति भावः । ननु स्वतन्त्रा चेद्ब्रह्मविद्या तर्हि प्रयोजनसाधनं न स्यात् सुखदुःखप्राप्तिपरिहारयोः प्रवृत्तिनिवृत्तिसाध्यतावगमात्तत्राऽऽह प्रयोजनं चेति । स्मरणमात्रेण विस्मृतसुवर्णलाभे सुखप्राप्तिप्रसिद्धेः रज्जुतत्त्वज्ञानमात्राच्च सर्पजन्यभयकम्पादिदुःखनिवृत्तिप्रसिद्धेश्च न प्रवृत्तिनिवृत्तिसाध्यत्वं प्रयोजनस्यैकान्तिकम्। अतो विश्रब्धं श्रुतिः प्रयोजनसंबन्धं विद्याया असकृद्ब्रवीति । तस्मात्तत्प्रकाशकोपनिषदो व्याख्येयत्वं संभवतीत्यर्थः । यच्चाऽऽहुरेकदेशिनः स्वाध्यायाध्ययनविधेरर्थावबोधफलस्य त्रैवर्णिकाधिकारत्वादधीतोपनिषज्जन्ये ब्रह्मज्ञानेऽस्त्येव सर्वेषामधिकारः । ततः सर्वाश्रमकर्मसमुच्चितैव ब्रह्मविद्या मोक्षसाधनमिति तत्राऽऽह ज्ञानमात्र इति। सर्वस्वत्यागात्मकसंन्यासनिष्ठैव परब्रह्मविद्या मोक्षसाधनमिति वेदो दर्शयति। तादृशसंन्यासिनां च कर्मसाधनस्य स्वस्याभावान्न कर्मसम्भवः। आश्रमधर्मोऽपि शमदमाद्युपबृंहितविद्याभ्यासनिष्ठत्वमेव । तेषां शौचाचमनादिरपि तत्त्वतो नाऽऽश्रमधर्मो लोकसंग्रहार्थत्वात्। ज्ञानाभ्यासेनैवापावनत्वनिवृत्तेः। "न हि ज्ञानेन सदृशं पवित्रमिह विद्यते" इति स्मरणात्। त्रिषवणस्नानविध्यादेरज्ञसंन्यासिविषयत्वात्। अतः कर्मनिवृत्त्यैव साहित्यं ज्ञानस्य न कर्मणेत्यर्थः । इतश्च न कर्मसमुच्चिता विद्या मोक्षसाधनमित्याह विद्याकर्मविरोधाच्चेति अकर्तृं ब्रह्मैवास्मीति करोमि चेति स्फुटो व्याघात इत्यर्थः । यदा ब्रह्मात्मैकत्वं विस्मरति तदोत्पन्नविद्योऽपि करिष्यति ततः समुच्चयः संभाव्यत इति न वाच्यमित्याह विद्याया इति । ननु गृहस्थानामङ्गिरःप्रभृतीनां विद्यासंप्रदायप्रवर्तकत्वदर्शनाद्गृहस्थाश्रमकर्मभिः समुच्चयो लिङ्गादवगम्यत इत्याशङ्क्याऽह यत्त्विति
लिङ्गस्य न्यायोपबृंहितस्यैव गमकत्वाङ्गीकारात्समुच्चये च न्यायाभावात्प्रत्युत विरोधदर्शनान्न लिङ्गेन समुच्चयसिद्धिः । संप्रदायप्रवर्तकानां च गार्हस्थ्यस्याऽऽभासमात्रत्वात्तत्त्वानुसंधानेन मुहुर्मुहुर्बाधात् । "यस्य मे चास्ति सर्वत्र यस्य मे नास्ति कञ्चन। मिथिलायां प्रदीप्तायां न मे कञ्चन दह्यते॥" इत्युद्गारदर्शनात्कर्माभासेन न समुच्चयः स्यात्तत्र च विधिर्न दृश्यत इति भावः । साधितं व्याख्येयत्वमुपसंहरति --एवमिति । ग्रन्थे कथमुपनिषच्छब्दप्रयोग इति शङ्क्यायामुपनिषच्छब्दवाच्यविद्यार्थत्वाल्लाक्षणिक इति दर्शयितुं विद्याया उपनिषच्छब्दार्थत्वमाह इमामिति । आत्मभावेनेति । प्रेमास्पदतयेत्यर्थः । अनर्थंपूगं क्लेशसमूहं निशातयति शिथिलीकरोत्यपरिपक्वज्ञानाद्द्वित्रैर्जन्मभिर्मोक्षसंभवादित्यर्थः।
"ज्ञानमप्रतिमं यस्य वैराग्यं च जगत्पतेः ।
ऐश्वर्यं चैव धर्मश्च सह सिद्धं चतुष्टयम् ॥"
इति स्मरणाद्धर्मज्ञानवैराग्यैश्वर्यैः सर्वानन्यानतिक्रम्य वर्तत इति परिवृढत्वं सिद्धमित्यर्थः।
"योऽसावतीन्द्रियोऽग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः ।
सर्वभूतमयोऽचिन्त्यः स एष स्वयमुब्दभौ ॥"
"स्वयमुद्भूतः शुक्रशोणितसंयोगमन्तरेणाऽऽदिर्भूतः" इति स्मृतेः। स्वातन्त्र्यं गम्यते इत्यर्थः। वाक्योत्थबुद्धिवृत्त्यभिव्यक्तं ब्रह्मैव ब्रह्मविद्या। तच्च ब्रह्म सर्वाभिव्यञ्जकम्। ततः सर्वविद्यानां व्यञ्जकतयाऽऽश्रीयत इति सर्वविद्याश्रयाऽथवा सर्वविद्यानां प्रतिष्ठा परिसमाप्तिर्भवति यस्याममुत्पन्नायां ज्ञातव्याभावात्सा सर्वविद्याप्रतिष्ठेत्याह सर्वविद्यावेद्यवेति ॥१..१॥१..२॥

प्रश्नबीजमाह एकस्मिन्निति उपादानात्कार्यस्य पृथक्सत्त्वाभावादुपादाने ज्ञाते तत्कार्यं ततः पृथङनास्तीति ज्ञातं भवतीति सामान्यव्याप्तिस्तद्बलाद्वा पप्रच्छेत्याह अथवेति प्रश्नाक्षराञ्जस्यमाक्षिप्य समाधत्ते नन्वविदिते हीत्यादिना। किमस्ति तदिति प्रयोगेऽक्षरबाहुल्येनाऽऽयासः स्यात्तद्भीरुतया
कस्मिन्नित्यक्षराञ्जस्ये लाघवात्प्रश्न इत्यर्थः ॥१..३॥१..४॥

कल्पः सूत्रग्रन्थः । अनुष्ठेयक्रमः कल्प इत्यर्थः । अविद्याया अपगम एव परप्राप्तिरुपचर्यते । अविद्यापगमश्च ब्रह्मावगतिरेवेति व्याख्यातमस्माभिर्ज्ञातोऽर्थस्तज्ज्ञप्तिर्वाऽविद्यानिवृत्तिरित्येतद्व्याख्यानावसरे । अतोऽधिगमशब्दोऽत्र प्राप्तिपर्याय एवेत्याह च परप्राप्तेरिति। साङ्गानां वेदानामपरविद्यात्वेनोपन्यासात्ततः पृथक्करणाद्वेदबाह्यतया ब्रह्मविद्यायाः परत्वं न संभवतीत्याक्षिपति नन्विति "या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः । सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः" इति स्मृतेः कुदृष्टित्वादनुपादेया स्यादित्यर्थः । विद्याया वेदबाह्यत्वे तदर्थानामुपनिषदामप्यृग्वेदादिबाह्यत्वं प्रसज्येतेत्यर्थः । वेदबाह्यत्वेन पृथक्करणं न भवति । किंतु वैदिकस्यापि ज्ञानस्य वस्तुविषयस्य शब्दराश्यतिरेकाभिप्रायेणेत्याह वेद्यविषयेति ॥१..५॥

कर्मज्ञानाद्विलक्षणत्वाभिप्रायेण च पृथवकरणमित्याह यथा विधिविषय इति । अप्राप्तप्रतिषेधप्रसङ्गान्न प्रधानपरत्वमपि शङ्कनीयमिति मत्वाऽऽह यः सर्वज्ञ इपि । अगुणत्वादिति । उपसर्जनरहितत्वादित्यर्थः । सर्वात्मकत्वाच्चेति । हेयस्यातिरिक्तस्याभावाच्चेत्यर्थः ॥१..६॥

ब्रह्म न कारणं सहायशून्यत्वात्कुलालमात्रवदित्यस्यानैकान्तिकत्वमुक्तमूरर्णनाभिदृष्टान्तेन । ब्रह्म जगतो नोपादानं तदाभिन्नत्वात्स्वरूपस्येवेत्यनुमानान्तरस्यानैकान्तिकत्वमाह यथा च पृथिव्यामिति । जगन्न ब्रह्मोपादानं तद्विलक्षणत्वात् । यद्यद्विलक्षणं तत्तदुपादनकं न भवति । यथा घटो न तन्तूपादनक इति । अस्य व्यभिचारार्थमाह यथा च सत इति । एकस्मिन्नपि दृष्टान्ते सर्वानुमानानामनैकन्तिकत्वं योजयितुं शक्यमिति शङ्कमानं प्रत्याह अनेकदृष्टान्तेति ॥१..७॥

इर्श्वरत्वोपाधिभूतं मायातत्वं महाभूतादिरूपेण सर्वजीवैरुपलभ्यत इति सर्वसाधारण्येऽपि कथं जायतेऽनादिसिद्धत्वादित्याशङ्क्याऽऽह व्याचिकीर्षितेति कर्मापूर्वसमवायिभूत सूक्ष्ममव्याकृतमिति केचित् । तन्न तस्य प्रतिजीवं भिन्नत्वादीश्वरत्वोपाधित्वासंभवात् । सामान्यरूपेण संभवेऽपि पृथिव्यादिसामान्यानां बहुत्वात् । प्रकृतावेकत्वश्रुतिव्याकोपापाताज्जाड्यमहामायारूपेणैव संभवेऽपि न कर्मापूर्वसमवायित्वम् । तस्याकारकत्वाद्बुद्ध्यादीनामेव कारकत्वाभिधानात् । कारकावयवेष्वेव क्रियासमवायाभ्युपगमात् । किंच न कार्यस्य स्वकारणप्रकृतित्वं दृष्टमिति भूतसूक्ष्मस्यापञ्चीकृतभूतप्रकृतित्वं न स्यात् । तस्मान्महाभूतसर्गादिसंस्कारास्पदं गुणत्रयसाम्यं मायातत्त्वमव्याकृतादिशब्दवाच्यमिहाभ्युपगन्तव्यम् । पूर्वस्मिन्कल्पे हिरण्यगर्भप्राप्तिनिमित्तं प्रकृष्टं ज्ञानं कर्म च येनानुष्ठितं तदनुग्रहाय मायोपाधिक ब्रह्म् हिरण्यगर्भावस्थाकारेण विवर्तते । स च जीवस्तदवथाभिमानी हिरण्यगर्भ उच्यत इत्यभिप्रेत्याऽऽह
ब्रह्मण इति । ज्ञानशक्तिभिः क्रियाशक्तिभिश्चाधिष्ठितं विशिष्टं जगद्व्यष्टिरूपं तस्य साधारणः समष्टिरूपः सूत्रसंज्ञक इत्यर्थः । मनआख्यमिति समष्टिरूपं विवक्षितम् ।व्यष्टिरूपस्य लोकसृष्ट्युत्तरकालत्वात् ॥१..८॥

वक्ष्यमाणार्थमिति । वक्ष्यमाणस्याविद्या विवरणप्रकरणस्याऽरम्भार्थमुक्तपरविद्यासूत्रार्थोपसंहार इत्यर्थः । सामान्येनेति समष्टिरूपेण मायाख्येनोपाधिनेत्यर्थः । विशेषेणेति व्यष्टिरूपेणाविद्याख्येनोपाधिनाऽनन्तजीवभावमापन्नः स एव सर्वं स्वोपाधितत्संसृष्टं च वेत्तीत्यधिदैवमध्यात्मं च तत्त्वाभेदः सूत्रितः । स्रष्टृत्वं प्रजापतीनां तपसा प्रसिद्धम् । तद्वद्ब्रह्मणोऽपि स्रष्ट्रत्वे तपोनुष्ठानं वक्तव्यम् । ततः संसारित्वं प्रसज्येतेत्याशङ्क्याऽऽह यस्यज्ञानमयमिति सत्त्वप्रधानमायाया ज्ञानाख्यो विकारस्तदुपाधिकं ज्ञानविकारं सृज्यमानसर्वपदार्थाभिज्ञत्वलक्षणं तपो न तु क्लेशरूपं प्रजापतीनामित्यर्थः ॥१..९॥

इति मुण्डकोपनिषद्भाष्यटीकायां प्रथममुण्डके प्रथमः खण्डः ॥१.१॥

अनादिरुपादानरूपेणानन्तो ब्रह्मज्ञानात्प्रागन्तासंभवात्प्रत्येकं शरीररिभिर्हातव्यो दुःरवरूपत्वादित्यनेन यदाहुरेकजीववादिन एकं चैतन्यमेकयैवाविद्यया बद्धं संसरति । तदेव कदाचिन्मुच्यते नास्मदादीनां बन्धमाक्षौ स्त इति तदपास्तं भवति । श्रुतिबहिष्कृतत्वात् । सुषुप्तेऽपि क्रियाकारकफलभेदस्य प्रहाणं भवति । बुद्धिपूर्वकप्रहाणस्य ततो विशेषमाह सामस्येनेति स्वोपाध्यविद्याकार्यस्याविद्याप्रहाणेऽऽत्यन्तिकप्रहाणं विद्याफलमित्यर्थः । अमरोऽपक्षयरहितः । अमृतो नाशरहित इत्यर्थेः । अपरविद्यायाः परविद्यायाश्च विषयौ प्रदर्श्य पूर्वमपरविद्याया विषयप्रदर्शने श्रुतेरभिप्रायमाह पूर्वं तावदिति । यदिष्टसाधनतयाऽनिष्टसाधनतया वा वेदेन बोध्यते कर्म तस्यासति प्रतिबन्धे तत्साधनत्वाव्यभिचारः सत्यत्वं न स्वरूपाबाध्यत्वं प्लवा ह्येत इत्यादिना निन्दितत्वात्स्वरूपबाध्यत्वेऽपि चार्थक्रियासामर्थ्यं स्वप्नकामिन्यामिव घटत इत्यभिप्रेत्याऽऽह तदेतत्सत्यमिति ऋग्वेदविहितः पदार्थो हौत्रम् । यजुर्वेदविहित आध्वर्यवम् । सामवेदविहित औद्गात्रम् । तद्रूपायां त्रेतायामित्यर्थः । सत्यकामा मोक्षकामा इति समुच्चयाभिप्रायेण व्याख्यानमयुक्तम् । ’एष वः पन्थाः सुकृतस्य लोके’ इति स्वर्ग्यफलसाधनत्वविषयवाक्यशेषविरोधादिति ॥१..१॥

आहवनीयस्य दाक्षणोत्तरपार्श्वयोराज्यभागाविज्येते अग्नये स्वाहा सोमाय स्याहेति/स्वाहेति दर्शपूर्णरमासे । तयोर्मध्येऽन्ये यागा अनुष्ठीयन्ते । तन्मध्यमावापस्थानमुच्यते । अगीग्नहोत्राहुत्योर्द्वित्वं प्रासिद्धम् । सूर्याय स्वाहा प्रजापतये स्वाहेति प्रातः । अग्नये स्वाहा प्रजापतये स्वाहेति सायम्। तत्कथमग्निहोत्रं प्रक्रम्याऽऽहुतीरिति बहुवचनं तत्राऽऽह अनेकाहेति अनेकेष्वहःसु प्रयोगानुष्ठानानि तदपेक्षयेत्यर्थः ॥१..२॥

दर्शस्याग्निहोत्राङ्गत्वे प्रमाणाभावात्कथं तदकरणमग्निहोत्रस्य विपत्तिरित्याशङ्क्य यावज्जीवचोदनावशादग्निहोत्रिणोऽवश्यकर्तव्यत्वात्तदकरणं भवेद्विपत्तिरित्यभिप्रेत्य विशेषणम् । शरदादिषु नुतनान्नेन कर्तव्यमाग्रयणं कर्म । अदर्शादिवदवैश्वदेवमिति विशेषणम् । वैश्वदेवस्याग्निहोत्रानङ्गत्वेऽप्यावश्यकत्वादित्यर्थः । पिण्डोदकदानेन पित्रादीनां त्रयाणामुपकरोति यजमानः पुत्रादीनां च त्रयाणां ग्रासादिदानेन। ततो मध्यवर्तिना यजमानेन संबध्यमानाः पूर्वे त्रय उत्तरे च त्रयो गृह्यन्त इत्याह पिण्डदानादीति ॥१..३॥

- ॥१..४॥१..५॥

आहुतयो यजमानं वहन्तीति संबन्धः ॥१..६॥

रूप्यते निरूप्यते यदाश्रयतया यज्ञस्ते यज्ञरूपाः ॥१..७॥

स्वयमेवेति तत्त्वदर्श्युपदेशानपेक्षतया स्वमनोरथेनैवेत्यर्थः ॥१..८॥१..९॥

कं सुख न भवतीत्यकं दुःखं तन्न विद्यते यस्मिन्नसौ नाकः ॥१..१०॥

केवलकर्मिणां फलमुक्त्वा सगुणब्रह्मज्ञानसहिताश्रमकर्मिणां फलं संसारगोचरमेव दर्शयति ये पुनस्तद्विपरीता ज्ञानयुक्ता इत्यादिना। अरण्ये स्त्रीजनासंकीर्णे देशे । मुक्तानामिहैव सर्वकामप्रविलयं सर्वात्मभावं चदर्शयन्ति श्रुतयः । ब्रह्मलोकप्राप्तिस्तु देशपरिच्छिन्नं फलं ततो न मोक्ष इत्याह इहैवति ब्रह्मा चतुर्मुखः । विश्वसृजः प्रजापतयो मरीचिप्रभृतयः । धर्मो यमः । महान्सूत्रात्मा । अव्यक्तं त्रिगुणात्मिका प्रकृतिः । सात्त्विकीं सत्त्वपरिणामज्ञानसहितकर्मफलभूतामित्यर्थः ॥१..११॥

ऐहिककर्मफलस्य पुत्रादेर्नाशविषयं प्रत्यक्षं विमतमनित्यं कृतकत्वाद्घटवदित्यनुमानमामुष्मिकनाशविषयम् । तद्यथेह कर्मचितो लोकः क्षीयत इत्याद्यागमास्तैरनित्यत्वेन सर्वात्मनाऽवधार्येत्यर्थः ।
"नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च ।
शीलं स्थितिर्दण्डनिधानमार्जवं ततस्ततश्चोपरमः क्रियाभ्यः ॥"
इतिस्मृतेर्ब्राह्मणस्यैवाधिकार इत्यर्थः । कूटस्थेन परिणामरहितेनाचलेन स्पन्दरहितेन ध्रुवेण प्रयत्नरहितेनाहमर्थी । समित्पाणिरिति विनयोपलक्षणम् ॥ १..१२ ॥

अक्षरणादिति। अवयवान्यथाभावलक्षणपरिणामशून्यत्वात् । अक्षतत्वादिति। अक्षयत्वाच्चेति। अशरीरत्वाद्विकारशून्यत्वादित्यर्थः ॥१३॥

इति मुण्डकोपनिषद्भाष्यटीकायां प्रथममुण्डके द्वितीयः खण्डः ॥१.२॥
इत्यथर्ववेदीयमुण्डकोपनिषद्भाष्यटीकायां प्रथममुण्डकं समाप्तम्॥१॥

द्वे विद्ये वेदितव्ये इत्युपन्यस्यापरविद्यामाद्यमुण्डकेन प्रपञ्च्य परविद्यां सूत्रितां प्रपञ्चायितं द्वितीयमुण्डकारम्भ इत्याह अपरविद्याया इत्यादिना। कर्मणोऽपि प्राक्सत्यत्वमुक्तं तद्वदिदं सत्यत्वं न मन्तव्यमित्याह यदपरविद्याविषयमिति विषीयते विशेष्यते विद्याऽनेनेति व्युत्पत्त्या विषयशब्दस्यवस्तुपरत्वान्नपुंसकलिङ्गत्वं परमार्थतः सल्लक्षणत्वादत्यन्ताबाध्यत्वादित्यर्थः । अत्यन्तपरोक्षत्वादिति । शास्त्रैकगम्यत्वात्। अपूर्ववद्ब्रह्मणः प्रत्यक्षत्वं न सम्भवति साक्षात्काराधीनं च कैवल्यं ततः कथं नाम सत्यमक्षरं प्रत्यक्षवत्प्रतिपद्येरन्मुमुक्षव इत्यभिप्रेत्य जीवब्रह्मणोरेकत्वे दृष्टान्तमाह यथा सुदीप्तादिति । एकत्वे सति प्रत्यग्रूपस्यापरोक्षत्वाद्ब्रह्मणोऽपि प्रत्यक्षत्वं भविष्यति घटैकदेशप्रत्यक्षत्वे घटप्रत्यक्षवदित्यर्थः । यथा विभक्तदेशावच्छिन्नत्वेन विस्फुलिङ्गेष्ववयवत्वादिव्यवहारः स्वतः पुनरग्न्यात्मत्वमेवोष्णप्रकाशत्वाविशेषात्तथा चिद्रूपत्वाविशेषाज्जीवानां स्वतो ब्रह्मत्वमेवेत्यर्थः ॥२..१॥

अक्षरस्यापि जीवोत्पत्तिप्रलयनमित्तत्वमौपाधिकमुक्तमेकत्वसिद्ध्यर्थम् । तत्त्वतस्तु निमित्तनैमत्तिकभावोऽपि नास्तीत्याह नामरूपबीजभूतादिति देहापेक्षया यद्बाह्यमान्तरं च प्रसिद्धं तेन सह तत्तादात्म्येन तदधिष्ठानतया वा वर्तत इति सबाह्याभ्यन्तरः । अत एव सर्वात्मत्वाद्व्यतिरिक्तनिमित्तभावादज इत्यर्थः । जायतेऽस्ति वर्धते विपरिणमतेऽपक्षीयते विनश्यतीत्येवमादिभावविकरणां निषेधे तात्पर्यमजशब्दस्याऽऽह सर्वभावविकाराणामिति जीवानां प्राणादिमत्त्वात्तदात्मत्वे ब्रह्मणोऽपि प्राणादिमत्त्वं प्राप्तं तन्निवर्तयति यद्यपीत्यादिना स्मृतिसंशयाद्यनेकज्ञानेषु शक्तिविशेषोऽस्यास्तीति तथोक्तं नामरूपयोर्बीजं ब्रह्म तस्योपाधितया लक्षितं शुद्धस्य कारणत्वानुपपत्त्या गमितं स्वरूपमस्येति तथोक्तम् । तस्मादुपाधिरूपात्तद्विशिष्टरूपाच्च परतोऽक्षरात्पर इति सम्बन्धः कथं मायातत्त्वस्याक्षरस्य परत्वमित्याशङ्कामाह सर्वकार्येति कार्यं ह्यपरं प्रसिद्धम् तत्कारणत्वेन गम्यमानत्वान्मायातत्त्वं परम् । यौक्तिकबाधादनिर्वाच्यत्वेऽपि स्वरूपोच्छेदाभावादक्षरम् । तदुक्तं गीतायाम्–
"क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ।
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः" इति ॥२..२॥

यदेव चैतन्यं निरुपाधिकं शुद्धमविकल्पं ब्रह्म यत्तत्त्वज्ञानाज्जीवानां कैवल्यं तदेव मायाप्रतिबिम्बतरूपेण कारणं भवतीत्याह यस्मादेतस्मादेवेति प्राणोत्पत्तेरूर्ध्वं तर्हि सप्राणत्त्वं परमात्मनो भविष्यतीतिशङ्कानिवृत्त्यर्थं श्रुत्यन्तरप्रसिद्धं प्राणस्य विशेषणमाह अविद्याविषय इति । नामधेय इति । वाङ्मात्रो न वस्तुवृत्त इत्यर्थः । प्राणादीनां पाठक्रमोऽयमर्थक्रमेण बाध्यते । "गता कलाः पञ्चदश प्रतिष्ठाः" इति भूतेषु लयश्रवणेन प्राणानां भौतिकत्वावगमाद्भूतोत्पत्यनन्तरं प्राणोत्पत्तिर्द्रष्टव्येति । अभिमुखमागच्छन्वायुरावहः पुरतो गच्छन्प्रवह इत्यादिभेदः । शब्दस्पर्शरूपरसगन्धा उत्तरोत्तरस्य गुणा येषां तानि तथोक्तानि । यथा शुक्लतन्त्ववस्थापन्नादन्वयिकारणाज्जायमानः पटं/पटः शुक्लगुणो जायते तथाऽऽकाशावस्थापन्नाद्ब्रह्मणो जायमानो वायुराकाशगुणेन शब्देनान्वितो जायते । तथैव वायुभावापन्नाद्ब्रह्मणोऽग्निस्तद्गुणेनान्वितो जायत इति द्रष्टव्यम् । ननु सूक्ष्माणि भूतानि प्रथममुत्पद्यन्ते । अनन्तरं तासां त्रिवृतं त्रिवृतमेकैकामकरोदिति पञ्चीकरणोपलक्षणार्थं त्रिवृत्करणश्रुतेः पञ्चात्मकत्वमवगम्यते । तत एकैकस्य भूतस्य पञ्चगुणवत्त्वं वर्णितमन्यत्र कथमिह पञ्चीकरणमनादृत्य प्रथमसर्ग एवाऽऽकाशस्यैकगुणत्वं वायोर्हि द्विगुण्त्वं तेजसस्त्रिगुणत्वमित्याद्युच्यते । सत्यम् । भूतसर्गे तात्पर्याभावद्योतनाय प्रक्रियान्तरं न विरुध्यते । न ह्येतत्प्रतिबद्धं किञ्चित्फलं श्रूयते । अत एव गुणगुणिभावोऽपि न वैशेषिकपक्षवदिह विवक्षितः । किंतु राहोः शिर इतिवद्व्यपदेशमात्रम् । विस्तरेण त्वनत्यकार्यपर्यन्तं तेन तेनाऽऽकारेण ब्रह्मैव विवर्तत इति प्रपञ्च्यते ततोऽतिरिक्तस्याणुमात्रस्यासंभवात्तस्मिन्विज्ञाते सर्वमिदं विज्ञातं भवतीति प्रदर्शनार्थमित्यर्थः ॥२..३॥

सर्वेषां भूतानामिति । पञ्चमहाभूतानाम् । अन्तरात्मा स्थूलपञ्चभूतशरीरो हि विराडित्यर्थः। पञ्चाग्निद्वारेण । द्युपर्जन्यपृथिवीपुरुषयोषित्सु पञ्चस्वग्निदृष्टेः श्रुत्यन्तरचोदितत्वात्तद्द्वारेणेत्यर्थः ॥२..४॥२..५॥

पाञ्चभक्तिकमिति । हिङ्कारप्रस्तावोद्गीथप्रतिहारनिधनाख्याः पञ्च भक्तयोऽवयवा यस्य तत्तथोक्तम् । साप्तभक्तिकमिति । हिङ्कारप्रस्तावाद्युद्गीथप्रतिहारोपद्रवनिधनाख्याः सप्त भक्तयो यस्य तत्तथोक्तम् । स्तोभोऽर्थशून्यो वर्णः । विश्वजित्सर्वमेधयोः सर्वस्वदक्षिणा । अत एकां गामारभ्य सर्वस्वान्ता दक्षिणा भवन्तीत्यर्थः ॥२..६॥

तपश्च कर्माङ्गमिति । पयोव्रतं ब्राह्मणस्य यवागू राजन्यस्याऽऽमिक्षा वैश्यस्येत्यादिविहितं स्वतन्त्रं कृच्छ्र चान्द्रायणादीत्यर्थः ॥२..७॥

आत्मयाजिनामति । सकलमिदमहं च परमात्मैवेतिभावनापूर्वकं परमेश्वराराधनबुद्ध्या ये यजन्ति तेषामित्यर्थः ॥२..८॥

यत्पृष्टं कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति तन्निरूपितम् । सर्वमिदं परमात्मनो जायते । अतस्तावन्मात्रं सर्वं तस्मिन्विज्ञाते विज्ञातं भवतीत्यविद्याक्षयफलाभिधानेनोपसंहृतमिति ॥२..९॥२..१०॥

इति मुण्डकोपनिषद्भाष्यटीकायां द्वितीयमुण्डके प्रथमः खण्डः ॥ २.१ ॥

अधुना यस्य सकृदुपदेशमात्रेणाद्वितीयं ब्रह्मास्मीतिवाक्यार्थज्ञानं न भवतीति तस्योपायानुष्ठानेन भवितव्यमित्यभिप्रेत्याऽऽह अरूपं सदक्षरमिति । वाक्यार्थस्यैव पुनः पुनर्भावना युक्त्यनुसंधानं चोपाय इत्याह उच्यत इति । आविःशब्दो निपातः प्रकाशवाची । ब्रह्म विश्वोपलब्ध्यात्मना प्रकाशमानमेव
सदेति भावयेदित्यर्थः । अन्यैरप्युक्तम्
"यदस्ति यद्भाति तदात्मरूपं नान्यत्ततो भाति न चान्यदस्ति ।
स्वभावसंवित्प्रतिभाति केवलं ग्राह्यं ग्रहीतेति मृषैव कल्पना ॥" इति ।
संनिहितमिति । सर्वेषां प्राणिनां हृदये स्थितं वागाद्युपाधिभिः शब्दादीन्युपलभमानवद्ब्रह्मैव जीवभावमापन्नमवभासते । ततः स्वतोऽपरोक्षं चेति सदा स्मरेदित्यर्थः । सर्वमिदं कार्यं परिछिन्नं च सास्पदं कार्यत्वात्परिच्छिन्नत्वाच्च घटादिवत्ततः सर्वास्पदं यत्तदेव मायास्पदमात्मभूतमिति युक्त्यनुसन्धानमाह महत्पदमिति ॥२..१॥

घटादिवदादित्यादेर्जडत्वेपि यद्दीप्तिमत्त्वं वैचित्र्यं तदनुपपत्त्याऽपि तत्कारणं संभावनीयमित्याह किञ्च यदर्चिमदिति । अर्चिमत्त्वादादित्यादिवदिन्द्रियग्राह्यत्वं प्राप्तं निषेधयति यदणुभ्य इति । परमाणुपरिमाणत्वं तर्हि स्यादति नाऽऽशङ्कनीयमित्याह चशब्दादिति स्थूलत्वात्तर्ह्यन्याधारं स्यादिति नाऽऽशङ्कनीयमित्याह यस्मिल्ँलोका इति । प्राणादिप्रवृत्तिश्चेतनाधिष्ठाननिबन्धना जडप्रवृत्तित्वाद्रथादिप्रवृत्तिवच्चिद्भेदे च प्रमाणाभावादेकचैतन्यमात्रमस्मीति विचारयेदत्याह तदेतत्सर्वाश्रयमिति प्राणाद्यधिष्ठानत्वात्प्राणादिलक्ष्य आत्मा द्रष्टव्यः ॥२..२॥

विचारासमर्थस्य प्रणवमवलम्ब्य ब्रह्मात्मैकत्वे चित्तसमाधानं क्रममुक्तिफलं दर्शयितुमुपक्रमते कथं वेधव्यमित्यादिना । प्रणवो ब्रह्मेत्यभिध्यायत उपसंहृतकरणग्रामस्य प्रणवोपरक्तं यच्चैतन्यप्रतिबिम्बं स्फुरति स आत्मेत्यनुसन्धानं प्रणवे शरसन्धानं तस्य चित्प्रतिबिम्बस्य बिम्बैक्यानुसन्धानं लक्ष्यवेधः ॥२..३॥२..४॥

उत्तरग्रन्थस्य पौनरुक्त्यं परिहरति अक्षरस्यैव दुर्लक्ष्यत्वादिति । ससाधनं सर्वं कर्म परित्यज्याऽऽत्मैव ज्ञातव्य इत्यत्रैव हेतुमाह अमृतस्येति धनुषाऽऽयुधेन लक्ष्यत इति तल्लक्षण आत्मैकत्वसाक्षात्कार इत्यर्थः ॥२..५॥

कर्मसङ्गिजनसङ्गत्या कर्मश्रद्धा विषयश्रद्धा च वाक्यार्थज्ञानस्यावगमाय गत्यन्ततायाः प्रतिबन्धको विघ्नः स मा भूदित्याशंसनम् । न तु वाक्यार्थावगतौ निष्पन्नायां फलप्राप्तेर्विघ्नशङ्काऽस्तीत्यभिप्रेत्याऽऽह परस्तादिति मदुपदेशादूर्ध्वमित्यर्थः ॥२..६॥

सर्वेश्वरत्वमनोमयत्वादिगुणविशिष्टब्रह्मणो हृदयपुण्डरीके ध्यानं च क्रममुक्तिफलं मन्दबह्मविदो विधीयत इति दर्शयितुमाह योऽसौ तमसः परस्तादित्यादिना ॥२..७॥

अस्य परमात्मज्ञानस्येति । जीवन्मुक्तिफलस्याद्वैतवाक्यार्थावगमस्य क्रममुक्तिफलस्य चोपासनस्येत्यर्थ: । अविद्यावासनाप्रचयो भिद्यत इति कोऽर्थ: । किं बुद्धौ विद्यमानायामविद्यादिभेदो ज्ञानफलं किंवा तन्निवृत्तौ । नाऽऽद्यः । सत्युपादाने कार्यस्यात्यन्तोच्छेदासंभवात् । न द्वितीयः । ज्ञानस्याज्ञानेनैवसाक्षाद्विरोधप्रसिद्धेः । किञ्च । बुद्धिरप्यनादिः सादिर्वा । नाऽद्यः । "एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च" इतिश्रुतिविरोधात् । नान्त्यः । प्रलये ब्रह्मज्ञानं विनैव बुद्धेर्नाशसंभवात्तदानर्थक्यप्रसङ्गात् । सादित्वे च बुद्वेरुपादानं साक्षाद्ब्रह्म चेत्तन्नाशं विनाऽत्यन्तोच्छेदो न स्यात् । माया चेत्सा दृष्टगतज्ञानेन नोच्छेदमर्हति । लौकिकमायाविगतमायाया द्रष्टृगतज्ञानेनोच्छेदादर्शनात् । किञ्च । बुद्धेरुच्छेदो न तस्याः फलं स्वनाशस्याफलत्वात् । नऽऽत्मनः । तस्य बुद्विप्रसङ्गाभावेन तदुच्छेदस्याफलत्वात् । किञ्चाऽऽत्मनोऽविद्याद्यनाश्रयत्वाभिधानं श्रुतिविरुद्धं प्रक्रमेअविद्यायामन्तरे वर्तमाना इति श्रवणादुपसंहारे
"अनीशया शोचति मुह्यमानः" इति श्रवणात् । बुद्धिगतमेवाविद्याद्यात्मन्यध्यस्यत इति चेदध्यस्यत इति कोऽर्थः । निक्षिप्यते भ्रान्त्या दृश्यते वा । नाऽऽद्यः । अन्यधर्मस्यान्यत्र निक्षेपासम्भवात् । भ्रान्त्या चेत्केन दृश्यते । न तावदात्मना तस्याविद्याश्रयत्वानङ्गीकारात् । न बुद्ध्या । बुद्धेरात्मविषयत्वासम्भवेन तद्गतदर्शनासम्भवात् । तद्भ्रान्तेश्च स्वाश्रयगतेन तत्त्वानुभवेन निवर्त्यत्वप्रसिद्धेर्बुद्धेरनुभवाश्रयत्वप्रसङ्गात् । तस्मान्नास्य भाष्यस्य सम्यगर्थं पश्याम इति चेदुच्यते। चित्तन्त्राऽनादिरनिर्वाच्याऽविद्या चैतन्यमवच्छिद्य स्वावच्छिन्नचैतन्यस्य बुध्द्यादितादात्म्यरूपेण विवर्तते । तस्याश्च ब्रह्मात्मतासाक्षात्कारनिवर्त्यरूपाङ्गीकारात्तन्निवृत्तौ तदुत्थहृदयग्रन्थिभेदः श्रुत्योच्यते । भाष्यकारीयं च बुद्ध्याश्रयत्वाभिधानमहङ्कारविशेषणत्वेनाविद्यादेर्व्याहारिकाभिप्रायेणाऽऽत्मानाश्रयत्वाभिधानं चाऽऽत्मनो निर्विकारत्वाभिप्रायम् । बाधितानुवृत्तिश्च प्रकटार्थे प्रादर्शीति जीवन्मुक्तिर्न विरुध्यते ॥२..८॥२..९॥

भातीति णिजर्थाध्याहारेण व्याख्यातम् । तस्य भासा सर्वमिदं विभातीत्यस्य ब्रह्मणः स्वतो भारूपत्वे तात्पर्यं कथयति यत एव तदेव ब्रह्म भाति चेति ॥ २..१०॥

उपसंहारमन्त्रस्य तात्पर्यमाह यत्तज्ज्योतिषां ज्योतिरिति तेन ब्रह्मणा विविधं क्रियत इति तद्विकारं सर्वं जगत्सर्वं ब्रह्मैवेति बाधायां सामानाधिकरण्यं योऽयं स्थाणुः पुमानसावितिवदन्वयव्यतिरेकाभावपरिहारेण तावन्मात्रत्वं बोध्यते ॥२..११॥

इत्यथर्ववेदीयमुण्डकोपनिषद्भाष्यटीकायां द्वितीयमुण्डके द्वितीयः खण्डः ॥२.२॥
इत्यथर्ववेदीयमुण्डकोपनिषद्भाष्यटीकायां द्वितीयं मुण्डकं समाप्तम् ॥२॥

प्राधान्येनेति । अपूर्वत्वेन तात्पर्यविषयतयेत्यर्थः । द्वा सुपर्णेत्यादौ द्विवचनस्याऽऽकारश्छान्दसः । जीवस्याज्ञत्वेन नियम्यत्वेन योग्यत्वादीश्वरस्य सर्वज्ञत्वेन नियामकत्वशक्तियोगाच्छोभनमुचितं पतनं नियम्यनियामकभावगमनं ययोस्तौ शोभनपतनौ । पक्षिसामान्याद्वेति । वृक्षाश्रयणादिश्रवणादित्यर्थः। ऊर्ध्वमुत्कृष्टं ब्रह्म मूलमधिष्ठानमस्येत्यूर्ध्वमूलोऽवाञ्चः प्राणादयः शाखा इवास्येत्यवाक्शाखः । श्वः स्थानं नियन्तुमस्य न शक्यमित्यश्वत्थः । अव्यक्तमव्याकृतं मूलमुपादानमन्वयि तस्मात्प्रभवतीति तथोक्तो यावदज्ञानभावीत्यर्थः । अविद्याकामकर्मवासनानामाश्रयो लिङ्गमुपाधिर्यस्याऽऽत्मनः स जीवस्तथोक्तः स चेश्वरश्च तावित्यर्थः । सत्त्वं मायाख्यमुपाधिरस्येति सत्त्वोपाधिः। ज्ञानात्मकस्यामलसत्त्वराशेरितिह्युक्तम् ॥ ३..१ ॥

आवरणं विक्षेपश्च द्वयमविद्यायाः कार्यम् । तत्रेश्वरभावाप्रतिपत्तिरनीशावरणं शोचतीति विक्षेपस्तदुभयहेतुरनिर्वाच्यमज्ञानं मोहः तेन विशिष्टोऽनेकैरनर्थप्रकारैरहं करोमीत्यादिभिरविवेकतया तादात्म्यापन्नतयेत्यर्थः । आजवमनवरतं जवीभावं निकृष्टभावं लक्षणया लघुभावं कर्मवायुप्रेरिततया
जवीभावं क्षैप्र्यमापन्नः पूर्ववदित्यभेदेनेत्यर्थः ॥३..२॥३..३॥

आत्मनि रतिरात्मरतिस्तत्पुरुषः सैव क्रिर्याऽस्यास्तीत्यात्मरतिक्रियावानिति मतुबेवैकः प्रतीयते कथमुक्तं बहुव्रीहिमतुबर्थयोरन्यतरोऽतिरिच्यत इति । सत्यमसमासपाठे द्वयोरर्थवत्त्वमासीत्समासपाठे त्वन्यतरो मतुबतिरिच्यते विशिष्यते बाह्यक्रियानिवृत्तिलाभादित्यर्थः । एकदेशिव्याख्यामुद्भाव्य निराचष्टे केचित्त्वित्यादिना अनेन वचनेन ज्ञानकर्मसमुच्चयप्रतिपादनं क्रियत इत्येतदसत्प्रलपितमेवेति योजना ॥३..४॥

सम्यग्ज्ञानसहकारीणीति । अत्र सम्यग्ज्ञानशब्देन वस्तुविषयावगतिफलावसानं वाक्यार्थज्ञानमुच्यते अवगतिफलस्य स्वकार्येऽविद्यानिवृत्तौ सहकार्यपेक्षासम्भवात् । अतोऽपरिपक्वज्ञानस्य सत्यादीनां च परिपक्वविद्यालाभाय समुच्चय इष्यत एव । नैतावता भास्कराभिमतसिद्धिः । परिपक्वविद्यायाः सहकार्यपेक्षायां मानाभावात् । ततः कर्मासंश्लेषश्रवणाद्देवादीनां कर्मविहीनानां मुक्तिश्रवणाच्चेति ॥३..५॥

कुहकं परवञ्चनम् । अन्तरन्यथा गृहीत्वा बहिरन्यथा प्रकाशनं माया । शाठ्यं विभवानुसारेणाप्रदानम् । अहङ्कारो मिथ्याभिमानः । दम्भो धर्मध्वजित्वम् । अनृतमयथादृष्टभाषणम् । एतैर्दोषवर्जिता इत्यर्थः ॥३..६॥

सत्यस्य निधानं यदुक्तं तत्पुनर्विशेष्यत इत्याह किं तत्किंधर्मकं च तदिति ॥३..७॥

ज्ञानप्रसादेनेति । अत्र ज्ञायतेऽर्थोऽनेनेति व्युत्पत्त्या बुद्धिरुच्यते । ध्यायमानो ज्ञानप्रसादं लभते । ज्ञानप्रसादेनाऽऽत्मानं पश्यतीति क्रमो द्रष्टव्यः। संशयादिमलरहितस्य प्रमाण्ज्ञानस्यैव तत्त्वसाक्षात्कारहेतुत्वाद्ध्यानक्रियायाः प्रमितिसाधनत्वाप्रसिद्धेरित्यर्थः ॥३..८॥

बौद्धादेश्चित्तादौ चेतनत्वभ्रमदर्शनाच्चित्तं स्वस्मिन्स्वसंसर्गिणि च चैतन्याभिव्यञ्जकत्वे स्वभावत एव योग्यम् । ततश्चित्ते परमात्मनोऽभिव्यक्तिसम्भवाच्चेतसा ज्ञेयत्वमुच्यत इति संभावनार्थमाह प्राणैः सहेन्द्रियैश्चित्तमेति । ओतं चैतन्येन सर्वस्व तर्हि चित्ते किमिति ब्रह्म स्वत एवापरोक्षं न भवतीत्यत आह यस्मिंश्च चित्त इति ॥३..९॥

सगुणविद्याफलमपि निर्गुणविद्यास्तुतये प्ररोचनार्थमुच्यते यं यमिति ॥३..१०॥
इत्यथर्ववेदीयमुण्डकोपनिषद्भाष्यटीकायां तृतीयमुण्डके प्रथमः खण्डः ॥३.१॥

- ॥३..१॥

परमार्थतत्त्वविज्ञानादिति । विषयेषु यथास्थितदोषदर्शनात्पर्याप्तकामः क्षीणरागो विरुद्धलक्षणयाऽऽत्मकामस्याऽऽत्मबुभुत्सयैव वशीकृतचित्तस्य विषयेभ्यः कामा निवृत्ता एव भवन्तीत्यर्थः । सामर्थ्यादवगम्यते स्वहेतुविनाशात्पुनः कामा न जायन्त इति । जातानां ज्ञानं विनाऽपि क्षयसंमवादित्यर्थः ॥३..२॥

न बहुना श्रतेनेति । उपनिषद्विचारव्यतिरिक्तेनेत्यर्थः । तेन वरणेनेति कथं व्याख्यातं यत्तदोर्भिन्नार्थत्वं साधनविवक्षायाः प्रस्तुतत्वादित्यर्थं ब्रूमः । परमात्माऽस्मीत्यभेदानुसंधानं वरणम् । तेन वरणेनैष आत्मा लभ्यो भवति । बहिर्मुखेन तु शतशोऽपि श्रवणादौ क्रियमाणे न लभ्यते । अतः
परमात्माऽस्मीत्यभेदानुसंधानं परमात्मभजनं पुरस्कृत्यैव श्रवणादि सम्पादनीयमिति भावः । अथवाऽयमेव परमात्मानं वृणुते तेन परमात्मना मुमुक्षुरूपव्यवस्थितेन वरणेनाभेदानुसंधानलक्षणेन प्रार्थनेन कृत्वा लभ्यः परमात्मैव मुमुक्षुरूपव्यवस्थित इत्यभेदानुसंधानेनैव लभ्यो न कर्मणेत्यर्थ ॥३..३॥

वीर्यमितिमत्र मिथ्याज्ञानानभिभाव्यतालक्षणोऽतिशयः । आलिङ्गादिति कथम् । इन्द्रजनकगार्गीप्रभृतीनामप्यात्मलाभश्रवणात् । सत्यम् । संन्यासो नाम सर्वत्यागात्मकस्तेषामपि स्वत्वाभिमानाभावादस्त्येवाऽऽन्तरः संन्यासो बाह्यं तु लिङ्गमविवक्षितम् ॥ "न लिङ्गं धर्मकारणम्" इति स्मरणात् नैष्कर्म्यसाहित्यं तु विवक्षितम् ॥३..४॥३..५॥

प्रदीपस्य वर्तिकृतावच्छेदध्वंसे यथा तेजःसामान्यतापत्तिस्तद्वदित्याह प्रदीपनिर्वाणवदिति पदं पादन्यासप्रतिबिम्बं च । न दृश्येताभावादेवेत्यर्थः । अध्वस्विति । संसाराध्वनां पारयिष्णवःपारयितुं समापयितुमिच्छन्तीति समाप्तिकामा अनध्वगा भवन्तीत्यर्थः । तर्कतोऽपीहैव मोक्षो वक्तव्य इत्याह
देशपरिच्छिन्नः हीत्यादिना ॥३..६॥

स्वाः प्रतिष्ठाः प्रति गता भवन्तीति भूतांशानां भौतिकानां च महाभूतेषु लयो दर्शितः । अन्त्यप्रश्नेति ब्राह्मणग्रन्थे षष्ठप्रश्ने प्राणाद्या याः कलाः पठिता इत्यर्थः । मायामयमहाभूतानामंशावष्टब्धैर्जीवाविद्यामयभूतसूक्ष्मैः प्रातिस्विकैरदृष्टसहकृतैः प्रातिस्विकाः प्राणादय आरभ्यन्ते । ते च कर्माक्षिप्तैर्देवैः सूर्यादिभिरधिष्ठीयन्ते । कर्मणो भोगेनावसाने ते देवाः । स्वस्थानं गच्छन्ति । यच्च प्रातिस्विकं स्वाविद्याकार्यं तच्च सर्वं ब्रह्मैव संपद्यत इत्याह यानि चेत्यादिना ॥३..७॥

- ॥३..८॥३..९॥

ऐतद्ग्रन्थद्वोरकविद्याप्रदानेऽयं विधिराथर्वणिकानामिति प्रकृतपरामर्शकादेतच्धब्दादवगम्यते ग्रन्थद्वारेण विद्यायाः प्रकृतत्वसंभवान्न सर्वत्र ब्रह्मविद्यासंप्रदानमिति सूचयन्नाह एता ब्रह्मविद्यां वदेतेति ॥३..१०॥
- ॥३..११॥
इत्यथर्ववेदीयमुण्डकोपनिषद्भाष्यटीकायां तृतीयमुण्डके द्वितीयः खण्डः ॥३.२॥
इत्यथर्ववेदीयमुण्डकोपनिषद्भाष्यटीकायां तृतीयं मुण्डकं समाप्तम् ॥३॥