Thoughts 116

ॐ

११६. किं साधनं कः साध्यः एतयोः विवेकः नैव दृश्यते लोके। साध्यप्राप्तये परधर्ममपि नैकः स्वीकरोति, स्वधर्मं त्यक्त्वापि, तस्मिन्नेव परधर्मे वसति, साध्यं विस्मरति। साधनं कदापि दुष्पूरं भाति, तथैव तत्र भगवता श्रीकृष्णेन कामः महाशनः अनल इत्युक्तम्। एषः कामः सर्वं अश्नाति तर्हि अलं न विद्यते अस्येति। जीविकां साधनत्वेन न पश्यन् साध्यमिव पश्यति सर्वः। कुतो मोक्षः।

श्रीगुरुभ्यो नमः।