श्रीगुरुभ्यो नमः॥
२.३.१६ तक्षाधिकरणमित्यस्मिन्विषये कश्चन विचारः क्रियते।
ननु बुद्धिः न कर्त्री इत्युक्त्वा, आत्मा कर्ता इति स्थापयित्वा, अद्य तु तत्कर्तृत्वं वास्तविकं नास्ति, किन्तु औपाधिकमित्युच्यते। एवं सति वास्तविकं कर्तृत्वं कस्य भवति, यतोहि वास्तविकानुभवं विना भ्रमो न सम्भवति। तन्न, अवास्तिकसर्पेण सर्पचित्रेणापि रज्ज्वां सर्पभ्रमसम्भवात्।
ननु तत्रापि वास्तविकसर्पचित्रं त्वस्तीति चेत्, नैष दोषः, प्रेतादर्शनेपि प्रेतभयसम्भवात्।
ननु कर्तृत्वं बुद्धेर्न, जडत्वात्, नापि चेतनस्य आत्मनः, किन्तु बुद्धिविशिष्टचैतन्यस्य इति यदुक्तं तत्तु अवयवभूताः अचेतनाः, किन्तु समूहे चैतन्यमिति चार्वाकमतवदिति चेन्न, चार्वाकाणां तु समूहे उत्पन्नं चैतन्यं वास्तविकम्, सिद्धान्ते तु कर्तृत्वं कल्पितमिति न दोषापत्तिरिति सिद्धम्।
गुरुपादुकाभ्याम्।