डुकृञ्करणे

ॐ श्रीगुरुभ्यो नमः ।


भजगोविन्दे श्लोके, भगवत्पादाचार्या अवोचन् "नहि नहि रक्षति डुकृञ्करणे” इति । बहवो जना अस्य पादस्य अर्थं वदन्ति यद् "व्याकरणेन मोक्षप्राप्तिर्न भवति", "व्याकरणस्य मोक्षहेतौ, मोक्षविषये, किमपि उपयोगो नास्ति" इति च। ते "व्याकरणं क्या करणम्?” इति चेष्टामपि कुर्वन्ति यतः संस्कृतभाषां न जानन्ति। वस्तुतोऽस्य वाक्यस्य एषोऽर्थोऽयोग्यः। तत्कथमिति चेदुच्यते। व्याकरणं वेदस्य मुखं‌ प्रोक्तम्। मुखं विना कथं श्रुतिर्वक्तुं शक्नोति? कथं च वयं श्रोतारः श्रोतुं‌ शक्नुमः? तर्हि ज्ञानाय व्याकरणमवश्यकमेव।

डुकृञ्करणे-शब्दो महर्षिपाणिनिकृतः पारिभाषिकश्चास्ति । किन्तु कोSपि कथं न चिन्तयति "केन कारणेन भगवत्पादाः द्विसहस्रधातुनां मध्ये अस्य डुकृञ्-धातोरेव प्रयोगं कृतवन्तः" इति? अत्र डुकृञ्धातुरथवा कृधातुः, करणे अर्थे अस्ति। अर्थात् कृधातोरर्थः‌ "कर्मणः करणम्" इत्यस्ति । अतो भगवत्पादैः "ज्ञानेन एव मोक्षो भवति" इति लक्षयित्वा, कृधोतोः प्रयोगः कृतः। ततः श्लोके यद्वाक्यं तस्य एषोऽर्थो भवति- "कर्मणा मोक्षप्राप्तिर्न सम्भवति। नापि कर्मणा समुच्चयेन"। अर्थात् "‌नहि नहि रक्षति डुकृञ्करणे" अस्य वाक्यस्य अर्थः‌ "नहि नहि रक्षति कर्माणि" इत्येव योग्यः।


ओम् तत् सत् ।


Post a Comment