Acharya Anandagiri's Tika on Ishavasyopanishad

॥ईशावास्योपनिषट्टीका॥
येनाऽऽत्मना परेणेशा व्याप्तं विश्वमशेषतः ।
सोऽहं देहद्वयीसाक्षी वर्जितो देहतद्गुणैः ॥१॥

ईशा वास्यमित्यादिमन्त्रान्व्याचिख्यासुर्भगवान्भाष्यकारस्तेषां कर्मशेषत्वशङ्कां तावद्व्युदस्यति। तथाहि— कर्मजडाः केचन मन्यन्ते स्म। ईशा वास्यमित्यादयो मन्त्राः कर्मशेषा मन्त्रत्वाविशेषादिषेत्वादिमन्त्रवत्। अतः पृथक्प्रयोजनाद्यभावादव्याख्येया इति तान्प्रत्याह—ईशा वास्यमित्यादय इति। कर्मस्वविनियुक्ता इति।
इषे त्वेति शाखां छिनत्तीत्यादिवद्विनियोजकप्रमाणादर्शनात्प्रकरणान्तरत्वाच्चेत्यर्थः। श्रौतविनियोगाभावेऽपि बर्हिर्देवसदनं दामीत्यस्य बर्हिर्लवनप्रकाशनसामर्थ्याद्बर्हिर्लवने यथा विनियोगस्तथा कर्मशेषात्मप्रकाशनसामर्थ्येन कर्मस्वेषां विनियोग इत्यपि नाऽऽशङ्कनोयमित्याह—तेषामिति।
शुद्धत्वादिविशेषणस्याऽऽत्मनः कर्मशेषत्वे प्रमाणाभावात्तद्याथात्म्यं न केवलं कर्मानुपयोगि किन्तु कर्मणा विरुध्यते चेत्याह —याथात्म्यं चेति।
शुद्धोऽहं स्वभावतो नाऽऽगन्तुकेनापि पाप्मना विद्धः सर्वत्रैकोऽशरीर आकशोपम इति जानन्न कटाक्षेणापि कर्म वीक्षते। किन्त्वापातप्रतिपत्तिरप्येतादृशी निरुणद्ध्येव कर्मप्रवृत्तिमित्यर्थः। किञ्च यः कर्मशेषः स उत्पाद्यो दृष्टो यथा पुरोडाशादिः। विकार्यः सोमादिः। आप्यो मन्त्रादिः। संस्कार्यो व्रीह्यादिस्तदुत्पाद्यादिरूपत्वं व्यापकं व्यावर्तमानमात्मयाथात्म्यस्य कर्मशेषत्वमपि व्यावर्तयति। तथाऽऽत्मयाथात्म्यं कर्तृ भोक्तृ च न भवति। येन ममेदं समीहितसाधनं ततो मया कर्तव्यमित्यहङ्कारान्वयपुरःसरः कर्त्रन्वयः स्यादित्याह —नह्येवमिति।
ननूपनिषदां जपोपयोगित्वादन्यस्य च प्रमाणस्यादर्शनान्नास्त्येवैतादृशमात्मयाथात्म्यं तत्राहऽऽह —सर्वासामिति।
यत्परः शब्दः स शब्दार्थः” इति मीमांसाप्रसिद्धेः सर्वासामुपनिषदां चैकात्म्ये तात्पर्यदर्शनान्न जपोयोगित्वमुपनिषदां शक्यं वक्तुम्। तथाहि— ईशा वास्यमित्युपक्रम्य स पर्यगाच्छुक्रमित्युपसंहारादनेजदेकं तदन्तरस्य सर्वस्येत्यभ्यासदर्शनान्नैनद्देवा आप्नुवन्नित्यपूर्वतासंकीर्तनात् को मोहः कः शोकः एकत्वमनुपश्यत इति फलवत्तासंकीर्तनात्कुर्वन्नेवेहेति जिजीविषोर्भेददर्शिनः कर्मकरणानुवादेनासुर्या नाम त इति निन्द्यैकात्म्यदर्शनस्य स्तुतत्वात्तस्मिन्नपो मातरिश्वा दधातीति युक्त्यभिधानाच्चास्यास्तावदुपनिषद ऐकात्म्यतात्पर्यं दृश्यते एवमन्यासामप्युपनिषदामुपक्रमोपसंहारैकरूप्याभ्यासापूर्वताफलवत्तार्थवादयुक्त्युपपादनानि षट् तात्पर्यलिङ्गानि विकल्पेन समुच्चयेन चास्माभिस्तत्त्वालोके दर्शितानीति नेह प्रतन्यन्ते। किञ्च प्रत्ययसंवादोऽपि बलवत्वे कारणं प्रसिद्धम्। विद्यते चोपनिषदर्थे गीतादिसंवादस्तस्मादुपनिषत्पदसमन्वयेनावगम्यमानमैकात्म्यं न प्रमाणान्तरानुपलम्बविरोधेनापलपनीयम्। यथेन्द्रियान्तरेणान्तरेणानवगम्यमानमपि रूपं चक्षुषाऽवगम्यमानं नापह्नूयते तथैकात्म्यमपि नापह्नवार्हमित्याह –गीतानामिति।
समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्। विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति॥” इत्यादिगीतानाम्।
एक एव हि भूतात्मा भूते भूते व्यवस्थितः। एकधा वहुधा चैव दृश्यते जलचन्द्रवत्॥” इत्यादिमोक्षशास्त्राणां चैकात्म्यपरत्वादित्यर्थः।
यद्येतादृशमात्मत्त्वं तर्हि निरधिकारित्वात्कर्मकाण्डमुच्छिद्येत्येत्यपि नाऽऽशङ्कनीयमित्याह —तस्मादिति।
औपनिषदात्म्ययाथात्म्यविज्ञानवत इष्यते एव श्येनादिविध्यप्रामाण्यम्। यथा “ न हिंस्यात्सर्वा भूतानि” इति निषेधशास्त्रार्थनिश्चयवत इष्यत एव श्येनादिविध्यप्रामाण्यम्। यथा च तीव्रक्रोधाक्रान्तस्वान्तं प्रत्येव श्येनादिविधिप्रामाण्यं तथा मिथ्यात्म्यदर्शिनं प्रत्येव कर्मविधिप्रामाण्यमित्यर्थः।
अत्र जैमिनिप्रभृतीनां सम्मतिमाह —यो हीत्यादिना।
अर्थित्वादियुक्तस्य कर्मण्यधिकारः षष्ठ्येऽध्याये प्रतिष्ठापितः। अर्थित्वादि च मिथ्याज्ञाननिदानम्। न हि नभोवन्निष्क्रियस्य स्वत एव दुःखासंसर्गिणः परमानन्दस्वभावस्य सुखं मे स्याद्दुःखं मे मा भूदित्यर्थित्वं शरीरेन्द्रियसामर्थ्येन च समर्थोऽहमित्याभिमानित्वं मिथ्याज्ञानं विना सम्भवतीत्यर्थः। यस्मादात्मयाथात्म्यप्रकाशका मन्त्रा न कर्मविधिशेषभूता न च मानान्तरविरुद्धास्तस्मात्प्रयोजनादिमत्त्वमपि तेषां सिद्ध्यमित्याह —तस्मादेत इति।
व्याख्येयत्वमुक्त्वा प्रतिपदं व्याचष्टे —ईशेति।
ईशँ ऐश्वर्ये इत्यस्य धातोः क्विपि लुप्ते कृदन्तं रूपमीट् तस्य तृतीयैककवचनमीशेति।
ननु कर्तरि क्विब्विधानात्परमात्मनश्चाविक्रियत्वात्कथं क्विबन्तशब्दवाच्यतेति तत्राऽऽह —ईशेतेति।
मायोपाधेरीशनकर्तृत्वसम्भवात् क्विबन्तशब्दवाच्यता न विरुद्ध्यते निरुपाधिकस्य च लक्ष्यत्वं भविष्यतीत्यर्थः।
ईशित्रीशितव्यभावेन तर्हि भेदः प्राप्त इत्याशङ्क्याऽऽह—सर्वजन्तूनामात्मा सन्निति।
यथाऽऽदशादिषु प्रतिबिम्बानामात्मा सन् बिम्बभूतो देवदत्त ईशिता भवति तथा कल्पितभेदेनेशित्रीशितव्यभावसम्भवान्न वास्तवभेदानुमानं सम्भवतीत्यर्थः । 'वस' आच्छादने। अस्य रूपं वास्यम्। तत्वत ईश्वरात्मकमेव सर्व भ्रान्त्या यदनीश्वररूपेण गृहीतं तत्सर्वमीश्वर एवाऽऽत्मैवेति ज्ञानेनाऽऽच्छादनीयम् । सर्वात्मकं ईश्वरोऽस्मीति ज्ञातव्यमेष तत्त्वोपदेशश्छान्दोग्ये तत्त्वमसीतिवदित्यर्थः ।
ब्रह्मैव सर्वमात्मैव सत्प्रकाशाविशेषतः।
हेयोपादेयभावोऽयं न सन्स्वप्नवदीर्यते॥'
उक्तं च—
न बन्धोऽस्ति न मोक्षोऽस्ति न विकल्पोऽस्ति तत्त्वतः।
नित्यप्रकाश एवास्ति विश्वाकारो महेश्वरः॥'
इति ।

यस्यौपदेशिकज्ञानमात्रेणानृतदृष्टिर्न तिरस्क्रियते तस्य विचारादिप्रयत्नेन तत्त्वप्रकाशे सत्यनृतदृष्टिस्तिरस्क्रियेतेत्यभिप्रेत्य दृष्टान्तमाह —यथेति।

चन्दनागर्वादेरुदकादिसम्बन्धादाद्रभावादिना जातं यद्दौर्गन्ध्यमौपाधिकं मिथ्या तद्यथा तत्स्वरूपनिघर्षणाभिव्यक्तेन स्वाभाविकेन गन्धेनाऽऽच्छाद्यते तद्वद्विचारादेः स्वरूपसद्भावान्मिथ्याबुद्धेर्बाधकत्वं सम्भवतीत्याह —तद्वदेव हीति।

स्वभावोऽनादिरविद्या तत्कार्यं स्वाभाविकमित्यादिबाधयोग्यत्वप्रदर्शनार्थं विशेषणम्। एवं विचारादिप्रयत्नवतोऽनृतदृष्टितिरस्कारसम्भावनामुक्त्वा युक्त्यनभिज्ञस्य सर्वमिदमहं चेश्वर एवेति भावनायामधिकृतस्य युक्तिकुशलस्य च विचारेऽधिकृतस्य सर्वकर्मसंन्यास एवाधिकार इह मन्त्रे विवक्षितस्तेन त्यक्तेनेत्यत्र त्यागपरामर्शात्। “त्यजतैव हितज्ज्ञेयंत्यक्तुः प्रत्यक्परं पदमि"त्यन्यत्राप्युक्तत्वात्पुत्राद्येषणायाश्चित्तविक्षेपहेतुत्वेन प्रसिद्धत्वाच्चेत्यभिप्रेत्याऽऽह —एवमीश्वरात्मेति।
चिकीर्षितं संन्यासं स्तौति —तेन त्यक्तेनेति।
त्यागेनाऽऽत्मा रक्षितः स्यान्निष्क्रियात्मस्वरूपावस्थानानुकूलत्वात्त्यागस्येत्यर्थः।
संन्यासिनः शरीरसन्धारणोपयुक्तकौपीनाच्छादनभिक्षाशनादिव्यतिरिक्तेऽपि कथञ्चिद्द्रव्यपरिग्रहे रागश्चेत्प्राप्नोति तन्निरोधे यत्नः कर्तव्यः। तस्य प्रधानविरोधित्वादित्यभिप्रेत्य नियमविधिमाह —एवं त्यक्तैषण इति।
स्विदिति निपातस्य सामान्यार्थत्वेऽपि कस्यस्विदिति वितर्कार्थित्वमन्यत्र प्रसिद्धं तदिह न गृह्यत इत्यनर्थकमित्युक्तम्। व्यवहारदृष्टयाऽप्यात्मन एवेदं सर्वं शेषभूतं जडस्य चित्परतन्त्रत्वादतोऽप्राप्ते विषये नाऽऽकाङ्क्षा कर्तव्या। परमार्थतस्त्वात्मैव सर्वमित्याकाङ्क्षाविषय एव नास्तीत्यर्थः ॥१॥

आद्यमन्त्रस्य पूर्वार्धेन तत्वोपदेशः कृतस्तृतीयपादेनापरिपक्वज्ञानस्य संन्यासविधिरुक्तश्चतुर्थपादेन संन्यासिनो नियमविधिरुक्त इति प्रतिपदं व्याख्याय संक्षिप्यार्थमनुवदत्युत्तरस्य सम्बन्धाभिधित्सया —एवमात्मविद इत्यादिना।
पूर्वमन्त्रेण ज्ञानं विहितं यस्य तस्यैवोत्तरमन्त्रेण कर्म विहितं ततः समुच्चयानुष्ठाने तात्पर्यं मन्त्रद्वयस्येत्येकदेशिशङ्कामुद्भावयति —कर्थ पुनरिति।

शुद्धब्रह्मज्ञानकर्मणी नैकाधिकारे विरुद्धत्वादृतुगमनत्रिदण्डिधर्मवत्। अस्त्येव तत्रापि क्रमेणैककर्तुकत्वमिति चेन्न। विशिष्टरूपभेदाद्भिन्नाधिकारत्वात्
यच्चोक्तं— ज्ञानकर्मणोर्वेदविहितत्वेन शुद्धिसाम्याद्विरोधोऽसिद्ध इति तदसत्। ऋतुगमनत्रिदण्डिधर्मयोरप्यविरोधप्रसङ्गात्। तदुभयं नैकस्य विहितमिति चेत्तुल्यमेतत्। प्रतिषेधात्तत्र न समुच्चय इति चेदिहापि ‘न कर्मणा न प्रजया' 'नानुध्यायाद्बहूञ्छब्दानि’त्यादिप्रतिषेधस्तुल्यः। केवलकर्मविषयो निषेध इति न च वाच्यं केवलपदव्यवच्छेद्याभावात्समुच्चयविधेरद्याप्यनिश्चितत्वात्तस्मान्न समुच्चये तात्पर्यं मन्त्रद्वयस्येत्याह —ज्ञानकर्मणोर्विरोधमिति।
कर्तृत्वाद्यध्यासाश्रयं कर्म शुद्धत्वाकर्तृत्वादिज्ञानेनोपमृद्यत इति सम्बन्धग्रन्थे यथोक्तं सहानवस्थानलक्षणं विरोधं किं न स्मरसि येनैकाधिकारत्वं तयोः कल्पयसीत्यर्थः। मन्त्रलिङ्गादपि तयोर्भिन्नाधिकारत्वं प्रतीयत इत्याह —इहाप्युक्तमिति।
जिजीविषो रागिणः कर्मं विहितं सर्वमीश्वर एवेति ज्ञानवतस्त्यागो विहितः। किञ्च धनसम्पन्नस्यैव कर्मण्यधिकारः। प्रथममन्त्रार्थाधिकारिणश्च धनाकाङ्क्षानिषेधेन कर्माधिकारनिषेधः प्रतीयत इत्यर्थः। जिजीविषा हि कर्माधिकारिण एव न ज्ञानाधिकारिण इत्यत्र प्रमाणमाह —न जीवित इति।
अरण्यं स्त्रीजनासङ्कीर्णमाश्रममियाद्गच्छेदिति पदं वेदशास्त्रस्थितिस्ततोऽरण्यवासोपलक्षितात्संन्यासान्न पुनरियात्कर्मश्रद्धया न प्रत्यावृत्तिं कुर्यादिति जिजीविषादिरहितस्य संन्यासविधानादित्यर्थः। इतश्च नैकफलकामस्य ज्ञानकर्मणोरधिकारः प्रतिपत्तव्य इत्याह —उभयोरिति।
को मोहः कः शोक एकत्वमनुपश्यत इति सनिदानानर्थप्रहाणं ज्ञानफलं वक्ष्यति। संसारमण्डलान्तर्गतमेव च देशान्तरप्राप्त्यायत्तं हिरण्यगर्भपदप्राप्त्यादिलक्षणं कर्मफलं वक्ष्यति। अग्ने नय सुपथेत्यन्तेनेत्यर्थः। नारायणोपनिषद्वाक्यमपि भिन्नाधिकारित्वे प्रमाणयति —इमौ द्वावेवेति।
पुरस्तात्सृष्टिकालेऽनुनिष्क्रान्ततरौ भूतसृष्टिमनुप्रवृत्तौ भिन्नाधिकारित्वादुभयोः संन्यास एवातिरिक्तः श्रेष्ठो भवति परमपुरुषार्थाव्यवधानादित्यर्थः। व्यासवाक्यमपि संवादकमाह —द्वाविमाविति॥ २॥

आद्यमन्त्रार्थं प्रपञ्चयितुं प्रथममविद्वन्निन्दा क्रियत इत्याह —अथेति।
ते लोका इति तच्छब्दो यच्छब्दार्थे। यथाश्रुतमिति। येन यादृशं प्रतिषिद्धं विहितं वा देवतादिज्ञानमनुष्ठितं स तदनुरूपमेव योनिमाप्नोतीत्यर्थः। आत्महन्तृत्वस्योदरभेदिनि प्रसिद्धेः कथमविद्वांस आत्महन इत्याह —कथं त इति।
उदरभेदिनोऽध्यात्माधिकारे प्रसज्ञाभावादशुद्धत्वाध्यसेन तिरस्कार एवाऽऽत्महन्तृत्वमित्याह—अविद्यादोषेणेति।
यथा कस्यचिच्छुद्धस्य मिथ्याभिशापोऽशस्त्रवध उच्यते तद्वदात्मनि पापित्वाद्यध्यासोऽपि हिंसैवेत्यर्थः। अजरामरत्वादिलक्षणोऽहमिति संवेदनमभिधानं च यत्कार्यं तद्धतस्येव न दृश्यत इति हननमुपचर्यत इत्याह —विद्यमानस्येति।
अस्याऽऽत्मघातस्य प्रायश्चितविधानादर्शनात्संसरणमेव फलमित्याह —तेन हीति॥३॥

उत्तरमन्त्रमवतारयति—यस्याऽऽत्मन इत्यादिना।
अविक्रियमेकं चेदात्मतत्त्वं कथं तर्हि केचन स्वर्गगामिनः केचिन नरकगामिन इति सांसारिकव्यवस्था स्यादिति चेन्मनउपाधिनिबन्धनेत्यभिप्रेत्याऽऽह—मनस इत्यादिना।
उपाधेरनुवर्तनात् विक्रियादिव्यवहाराश्रयत्वमिति शेषः। ननु मनसो देहान्तःस्थत्वाद्बहिर्गमनायोग्यत्वात्कथं वेगवत्त्वमित्याशङ्कयाह—देहस्थस्येति। जवीयस्त्वादश्वादिवत्तर्हि चक्षुरादिग्राह्यत्वं प्राप्तमित्याशङ्कयाऽऽह —नैनद्देवा इति।
चक्षुरादिप्रवृत्तेर्मनोव्यापारपूर्वकत्वात्तदविषयत्वे चक्षुरादिविषयत्वमप्यात्मनो न सम्भवतीत्यर्थः।
मनसो वा कथं न विषय आत्मेत्यत आह —यस्मादिति।
यथा मनःस्थं परिमाणं मनसो न विषयोऽत्यन्ताव्यवधानात्तथाऽऽत्माऽप्यन्ताव्यवधानान्मनसो न विषयस्तद्वयापकत्वाच्चेत्यर्थः। उक्तात्मसम्भावनायोपपत्तिमाह—तस्मिन्नात्मतत्वे सतीति।
श्रौतानि कर्माणि सोमाज्यपयः प्रभृतिभिरद्भिः सम्पाद्यन्त इति सम्बन्धाल्लाक्षणिकोऽप्शब्दः कर्मसु प्राणचेष्टायाश्चाब्निमित्तत्वप्रसिद्धेः; कारणवाचकः शब्दः कार्ये लक्षणया प्रयुक्त इत्यर्थः। ईश्वरस्यापि हिरण्यगर्भस्य नियतप्रवृत्यन्यथानुपपत्याऽधिष्ठाता परमेश्वरः सम्भाव्यत इत्युत्तमिदानीं मातरिश्वग्रहणमुपलक्षणार्थमादाय तात्पर्यंमाह —सर्वा हीति ॥४॥

जामिता-आालस्यम् । व्यापित्वाद्बाह्यतोऽस्ति निरतिशयसूक्ष्मत्वादन्तश्चेदस्ति तर्हि निरन्तरमेकरसं न स्यान्मानाभावादित्याशङ्कयाऽऽह —प्रज्ञानघन एवेति ॥५॥
उक्तात्मज्ञानस्य फलं विधिनिषेधातीतजीवन्मुक्तस्वरूपेणावस्थानमित्याह—यस्त्विति॥६॥

निरतिशयानन्दस्वरूपमत एव दुःखास्पृष्टमात्मानमजानतः शोको भवति हा हतोऽहं न मे पुत्रोऽस्ति न मे क्षेत्रमिति। ततः पुत्रादीन्कामयते तदर्थं देवताराधनादि चिकीर्षति न त्वात्मैकत्वं पश्यतस्ततोऽन्वयव्यतिरेकाभ्यां शोकादेरविद्याकार्यत्वावधारणान्मूलाविद्यानिवृत्यैव शोकादेरात्यन्तिकी निवृत्तिर्विद्याफलत्वेन विवक्षिता लयमात्रस्य सुषुप्तेऽपि भावादित्याह —शोकश्च मोहश्चेत्यादिना॥७॥

योऽयमिति। ‘स्नु' प्रक्षरणे धातुः । स्नावयन्ति शरीरमिति स्नावाः शिराः। क्रान्तमतिक्रान्तं नष्टमित्युपलक्षणं भूतभविष्यद्वर्तमानदर्शी॥८॥

प्रकरणविभागं दिदर्शयिषुर्वृत्तमनुवदति—अत्राऽऽद्येनेति।
यदुक्ततं भास्करेण सर्वाऽप्युपनिषदेकं ब्रह्मविद्याप्रकरणं ततः प्रकरणभेदकरणमनुचिमिति। तदसत्। प्राणाद्युपासनविधानस्याप्युपनिषत्सु दर्शनात्। न च तदपि ब्रह्मज्ञानाङ्गमिति वाच्यम्। पृथक्फलश्रवणात्। तेनापि व्याकृताव्याकृतोपासनसमुच्चयविधानस्य प्रकरणभेदेनैवेष्टत्वाद्व्याकृताव्याकृतोपासनस्य प्रकारान्तरत्वात्तस्माद्यथा कर्मकाण्डेऽग्निहोत्रादिप्रकरणं भिन्नमेवष्यते भिन्नाधिकारत्वात्तत्तत्कर्मणस्तथोपनिषत्स्वपि भिन्नाधिकारत्वात्कर्माविरुद्धतद्विरुद्धविद्याप्रकरणभेदो न विरुध्यते। मन्त्रार्थे ब्राह्मणसम्मतिं दर्शयितुमुपक्रमते—अनयोश्चेत्यादिना।
तत्र वाक्ये कथमज्ञत्वमवगम्यत इत्याशङ्कयाऽऽह—मन एवेति।
जाया मे स्यादथ प्रजायेयाथ वितं मे स्यादथ कर्म कुर्वीये’ति कामयमानस्य सर्वथैव बाह्यो जायादिर्यदा न सम्पद्यते तदाऽध्यात्मं जायादिसम्पतिं दर्शयति। एतच्चाज्ञत्वलिङ्गं मनआादिष्वात्मत्वाद्यभिमानस्याज्ञानकार्यत्वात्। यथा च बाह्यकामिन्यलाभे सुप्तो मनोविजृम्भितकामिनीमुपभुञ्जानोऽज्ञः प्रसिद्धस्तद्वदयमपीत्यर्थः। तेषां च कर्मणां फलं संसाराप्तिरेवेत्यपि तत्रैव दर्शितमित्याह —तथा चेति।
एकं साधारणमन्नं यदिदमद्यते द्वे देवानां हुतप्रहुते दर्शपूर्णमासौ वा; त्रीण्यस्य भोगसाधनानि मनोवाक्प्राणलक्षणानि; पश्वर्थमेकं तत्पय इति सप्तान्नसर्गो दर्शितः श्रुत्या यत्सप्तान्नानि मेधया तपसाऽजनयत्पितेत्यादिना। अत्रैकैको यजमान एव विहितप्रतिषिद्धज्ञानकर्मानुष्ठानात्सर्वस्य संसारस्य साक्षात्पारम्पर्याभ्यां जनकत्वात्पितोच्यते। तेषु च सृष्टेष्वन्नेषु तस्य पितुरहमिदं ममेदमित्यात्मत्वाध्यासेन मनआादिष्वितरेषु च सम्बन्धाध्यासेनावस्थानं संसारः प्रसिद्ध इत्यर्थः। एवं मन्त्रप्रदर्शिते निष्ठाद्वये ब्राह्मणसम्मति दर्शयित्वा प्रकरणविभागं दर्शयति —ये तु ज्ञाननिष्ठा इत्यादिना।
अत्याश्रमिभ्य इति। उत्तमाश्रमिभ्य इत्यर्थः। साध्यसाधनभेदोपमर्देन यदात्मैकत्वविज्ञानं यस्मिन्सर्वाणिभूतान्यात्मैवाभूदित्यवधारणेनोक्तं पूर्वार्धेन, उत्तरार्धेन च संसारनिवृत्तिफलकमुक्तं तन्न श्रौतेन स्मार्तेन वा कर्मणा केनचिदमूढः समुच्चिचीषति। अन्धं तम इत्यादौ तु समुच्चिचीष्याऽविद्वदादिनिन्दा दृश्यते। ततः किमित्यत आह —तत्र च यस्येति।
कस्य तर्हि ज्ञानस्य कर्मसमुच्चयः सम्भवतीत्यत आह —यद्दैवं वित्तमिति।
यच्चोक्तं भास्करेणेशा वास्यमिति मन्त्रे ब्रह्मविद्यायाः प्रक्रान्तत्वात्तस्या एव समुच्चिचीषया निन्दोच्यत इति । तदसत् । न हि प्रकृतमित्येतावता सम्बध्यते किं तु सम्बन्धयोग्यम् । शुद्धब्रह्मात्मैकत्वविद्यायास्तु कतृत्वाद्यध्यासोपमर्दकत्वान्नास्ति कर्मसम्बन्धयोग्यता । किञ्च यस्मिन्निष्पन्नेऽपि फलस्य व्यवधानं सम्भाव्यते तस्यैव सहकारिसमुच्चय इष्यते दर्शादेः, इह त्वेकत्वमनुपश्यतः को मोहः कः शोक इत्येकत्वदर्शनसमकालमेव मोहादिनिवृत्त्यभिधानान्न कालान्तरीयफलम् । ततो न सहकारिसमुच्चिचीषा । किञ्चास्या मन्त्रोपनिषदो ब्राह्मणे “ब्राह्मणा विविदिषन्ति यज्ञेने"त्यादौ तृतीयाश्रुत्या यज्ञादेरिष्यमाणवेदने क्ररणत्वेन सम्बन्धः प्रतीयते । तत्कथं दुर्बलेन प्रकरणेन सहकारितया सम्बन्धः प्रकल्प्यते । प्रधानस्य च विद्यायाः सहकारिसम्बन्धविधित्सया निन्देत्यप्ययुक्तम्। अत एव चाग्नीन्धनाद्यनपेक्षेतिसूत्रविरोधश्च । समुच्चयश्च परेणापि नेष्यते । विरोधेन च परिजह्रै । तस्मात्कर्माविरुद्धदेवताज्ञानस्येवात्र समुच्चयो विधित्स्यते । ननु देवताज्ञानस्य कर्मफलातिरिक्तफलाभावात्समुच्चयो न सम्भवतीत्यत आह —विद्ययेति।
ननु समुच्चिचीषया निन्देति किमिति व्याख्यायते । अध्ययनविधेर्मोक्षादर्वाक्पर्यवसानानुपपत्तेर्देवलोकादिप्राप्तेः फलाभासत्वात्प्रहाणार्थैव निन्दा किं नेष्यते तत्राऽऽह —तयोजनकर्मणोरिति।
न फलशब्दो मोक्षे रूढो मोक्षमनिच्छतामपि समीहिते फलव्यवहारदर्शनात्ततो यो देवलोकादिमुपादित्सते तस्य तदपि फलं भवत्येवेत्यर्थः ॥९-१०-११॥

सम्भूतशब्देनोच्यते न ब्रह्म । तस्य निर्विकारस्य साक्षात्प्रकृतित्वानुपपत्तेः । भास्कराभिमतस्तु परिणामवादस्तत्त्वालोके' निरस्त एवास्माभि: । सांसारिकदुःखानुभवाभावेन च सुषुप्तिवत्प्रकृतिलयस्य पुरुषेणार्थ्यमानताऽप्युपपद्यते । फलं च कर्मोपासन इव प्रकृत्युपासनेऽपि परमेश्वर एव दास्यति । ततो जडत्वात्प्रकृतेः फलदातृत्वानुपपत्तेरुपास्यत्वानुपपत्तिरित्यपि कुचोद्यमेव ॥१२-१३-१४॥

विस्तरेणोक्तमर्थजातं संक्षिप्योपसंहरति —मानुषदैववित्तसाध्यमित्यादिना।
शरीरपाटवं गोभूहिरण्यादिसाधनसम्पतिश्च मानुषं वित्तम्। दैवं वित्तं देवताज्ञानम्। उत्तरग्रन्थस्य सम्बन्धाभिधित्सयाऽर्थविशेषमनुवदति—तत्र निषेकादीत्यादिना।
तदुक्तमिति तं प्रत्युक्तं मन्त्रेण विद्यां चेत्यादिनाऽऽपेक्षिकामृतत्वं फलमित्युक्तमस्माभिरिति॥१५॥

व्याहृत्यवयव इति। तस्य भूरिति शिरः भुव इति बाहू सुवरिति प्रतिष्ठा पादावित्यर्थः ॥१६-१७॥

मन्त्रान्पदशो व्याख्याय संक्षेपतो विचारमारभते —अविद्यया मृत्युं तीर्त्वेत्यादिना।
अमृतत्वं चेति। अमृतत्वं च मुख्यमेव कस्मान्न गृह्यत इति सम्बन्धः। शास्त्रीययोर्ज्ञानकर्मणोर्विरोधाविरोधौ शास्त्रीयावेव ग्राह्यौ न तर्कमात्रेणेति परेणोक्ते सिद्धान्ती शास्त्रसिद्ध एव विरोध इत्याह —न दूरमेते इति।
विषूची नानागती विद्याविद्ये दूरं विपरीते अतिशयेन विरुद्धे इत्यर्थः। सहसम्भवानुपपत्तेरिति । काऽनुपपत्तिः? काष्ठके विरोधश्रवणात् तद्गतविद्याविद्ययोर्विरोधोऽस्तु । इह त्वविरोधश्रवणादविरोधो भविष्यतीति न वाच्यम् । विरोधाविरोधयोः सिद्धत्वेन विकल्पासम्भवात् । उदितानुदितहोमयोर्हि पुरुषतन्त्रत्वाद्युक्त विकल्प इत्युक्तं, तर्ह्यविरोध एवास्तु समुच्चयविधिबलादिति चेन्न। मुख्यब्रह्मविद्याविद्ययोः शुक्तिविद्याविद्ययोरिव सहसम्भवानुपपत्तेः ’समुच्चयविधिरसिद्धः । सिद्धे समुच्चयविधौ तद्बलादविरोधावगमोऽविरोधावगमाच्च समुच्चयसिद्धिरित्यन्योन्याश्रयः स्यादित्यर्थः । सहसम्भवानुपपत्तावपि क्रमेणौकाश्रये विद्याविद्ये स्यातामिति चेद्यदि पूर्वमविद्या पश्चात्तु विद्येति क्रमस्तर्हीष्यत एव । यदि पश्चात्तर्ह्यसम्भव इत्याह —न विद्योत्पत्ताविति ।
पूर्वीसिद्धाया अविद्यायाः प्रध्वस्तत्वादन्यस्याश्चोत्पत्तौ कारणासम्भवान्मूलाभावेन भ्रमसंशयाग्रहणानामपि विदुषोऽनुपपत्तिरित्यर्थः। विद्योत्पत्तौ मा भूदविद्या कर्मं तु भविष्यति विदुषोऽपि व्याख्यानभिक्षाटनादिदर्शनादित्याशङ्कयाह—अविद्याऽसम्भवादिति।
चोदनाप्रयुक्तानुष्ठानं हि कर्म ज्ञानेन सह तव समुच्चिचीषितं ब्रह्मात्मैकत्वं तु साक्षादनुभवतो न चोदना सम्भवति कामाभावात्कामिनो हि सर्वाश्चोदनाः । 'अकामिनः क्रिया काचिद्दृश्यते नेह कस्यचित्' 'यद्यद्धि कुरुते जन्तुस्तत्तत्कामस्य चेष्टितम्', इति स्मरणात्। विद्वच्छरीरस्थितिहेत्वविद्यालेशाश्रयकर्मशेषनिमित्तं तु विदुषो भिक्षाटनादि न कर्म, चोदनाभावात्किन्तु यावत्प्राणशरीरसंयोगभावि तत्कर्माभासं तच्च विद्वान्न स्वगतं मन्यते कर्माध्यासोपादानाविद्याया असम्भवान्नैव किंचित्करोमीति प्रत्ययाच्चेति भावः। यदुक्तममृतशब्देन मुख्यमेवामृतत्वं किं न गृह्यते विद्याशब्देन च परमात्मविद्येति तत्राऽऽह —अमृतमिति।
मुख्यामृतत्वग्रहणे हिरण्मयादिमन्त्रेण द्वारमार्गयाचनमनुपपन्नं स्यात्। न तस्य प्राणा उत्क्रामन्त्यत्र ब्रह्म समश्नुत इत्यादिश्रुतेः। ततो मुख्यार्थबाधाद्गौणार्थग्रहणं युक्तमित्यर्थः। यस्मादर्थान्तरं न सङ्गच्छते तस्मादित्युपसंहारः॥१८॥

ईशाप्रभृतिभाष्यस्य शाङ्करस्य परात्मनः।
मन्दोपकृतिसिद्धयर्थं प्रणीतं टिप्पणं स्फुटम्॥

इति श्रीपरमहंसपरिव्राजकाचार्यश्रीशुद्धानन्दभगवत्पूज्यपादशिष्यभगवदानन्दज्ञानकृता

वाजसनेयसंहितोपनिषद्भाष्यटीका समाप्ता।

Shell-silver examples in Upanishads


Further to my post on rope-snake examples in Upanishads, here's one on शुक्तिकारजत shell-silver example used in Upanishads for भ्रान्ति as well as creation which is itself a delusion. The reasons for this exercise is quite similar to those mentioned in my earlier post, however, prompted by different sources. Briefly, it is to establish that whenever Bhashyakara uses these examples in His commentary on dashopanishads, Gita or Brahmasutra, they are very-well backed up by other Upanishads that He didn't comment on. One should not imagine that examples imagined by Bhashyakara are against Shruti.

पैङ्गलोपनिषदि।
तस्मिन्मरुशुक्तिकास्थाणुस्फटिकादौ जलरौप्यपुरुषरेखादिवल्लोहितशुक्लकृष्णगुणमयी गुणसाम्यानिर्वाच्या मूलप्रकृतिरासीत्॥१.३॥
(Translated by Dr. A. G. Krishna Warrier) In it existed the primordial and indefinable Prakriti, consisting of Gunas in a state of equipoise, red, white and dark, resembling (the existence of) water, silver, a man and outlines (respectively) in the mirage oyster-shell, a stump and a mirror; what was reflected in it was the Witness Consciousness.

योगकुण्डल्युपनिषदि। In Yogakundalyupanishad.
मृषैवोदेति सकलं मृषैव प्रविलीयते।
रौप्यबुद्धिः शुक्तिकायां स्त्रीपुंसोर्भ्रमतो यथा ॥ ८०॥
(Translated by K. Narayanasvami Aiyar) 80. Whatever appears is unreal. Whatever is absorbed is unreal. Like the illusory conception of silver in the mother-of-pearl, so is the idea of man and woman.

वराहोपनिषदि। In Varahopanishad.
शुक्तिकाया यथा तारं कल्पितं मायया तथा ।
महदादि जगन्मायामयं मय्येव केवलम् ॥ १५॥
(Translated by K. Narayanasvami Aiyar) 15. As to the mother-of pearl, the illusory conception of silver is falsely attributed, so to me is falsely attributed through Maya this universe which is composed of Mahat, etc.

महोपनिषदि। In Mahopanishad.
द्विचन्द्रशुक्तिकारूप्यमृगतृष्णादिभेदतः ।
अभ्यासं प्राप्य जाग्रत्तत्स्वप्नो नानाविधो भवेत् ॥ ५.१५॥
(Translated by Dr. A. G. Krishna Warrier) 5.15. The dream state: it is of many kinds arising from the waking state, in the form of two-moons, shell-silver, mirage etc. The reflection by the awakened person 'this was seen only a short time, it will not arise - Because of not seeing for long, it is like the working state.'

तेजोबिन्दूपनिषदि। In Tejobindupanishad.
गगने नीलिमासत्ये जगत्सत्यं भविष्यति ।
शुक्तिकारजतं सत्यं भूषणं चेज्जगद्भवेत् ॥६.७६ ॥
(Translated by K. Narayanasvami Aiyar) When the blueness of the sky really exists in it, when the silver in mother-of pearl can be used in making an ornament, then the universe really is.

ॐ तत् सत्।
गुरुपादुकाभ्याम्।


How does the Lord punish without being cruel?

ॐ श्रीगुरुभ्यो नमः।


Neither can the Lord be stated to be handing out favours, nor can He be said to be cruel when He punishes, unlike one's relatives and friends or enemies. He is the only real neutral entity, everyone else has some motive. Ishvara is presented by the shAstra as a karmaphaladAta, meaning that He hands over the results in keeping with action as and when the karma is ripe to yield results. The connection as to which action gave which result is unclear to human beings since it may take across lives for the the circumstances to be perfect to manifest the result of any action. Some actions show immediate results, which also are assumed to be of the some perceivable action, but may not be so. With this background, we know that we get the result, for good or bad, based on our own actions. The Lord just gives us what we earn, without adding or subtracting anything from His side.

Yet, if He punishes, is He cruel? This doubt should not be entertained. For one, the punishment is just earned by our own performance of a prohibited action. Can the Lord remain without punishing? No, for the following reasons:
  • If He did, the performer of ill-action will likely consider the wrong action to be the norm and continue doing so. This is disastrous to the person spiritually as well as for the society at large, since people may follow the same. There will be no social-order. 
  • With the law of karma, if one is punished as per wrongdoings, he is freed of such wrong doing and will not have to wait to have all pApa to add up and result in a life that no one should get. Such life can be full of pain and not worth living even for a moment. So in one way, Ishvara's punishment can be seen as a blessing, not cruelty at all. This is the same reason that Manu smriti also recommends a proper punishment in this life itself, so that the future life is not ruined for the jIva. The punishment and suffering in this very life can cleanse the person of future suffering in hell, or animal bodies, etc!
  • Once a person learns that every wrong action brings pain through punishment, one will refrain to the best of his ability, since no one wants pain. This will lead the person to good action and thereby, spiritual growth towards the goal of all-life, moksha.
One may doubt that why then should the Lord be called compassionate, if He is neutral? This is to be understood that the Lord has provided us with Vedas, which reveal dharma and mokSha both. Although mokSha alone is the highest goal of all life, dharma is the means to it by avoiding pApa, and thereby punishment and by performing puNyakarma, and thereby, enjoying happiness. This is a compassionate revelation available for all to follow; a generic human life is sufficient to follow scriptures and no special action is needed for that. And hence, Ishvara is a compassionate Being and not cruel. There is compassion even in cruelty if one looks at a long span that spreads across lives, keeping one inline with dharma.


ॐ तत् सत्।


जगन्मिथ्यात्वम्

ॐ श्रीगुरुभ्यो नमः।




जाग्रत्स्वप्नपदार्थयोः दृश्यत्वाद् द्वयोरपि समानता। अत्र अन्ये द्वैतिनः कथयन्ति यद् द्वयोः सामान्यं तेन द्वयोरपि सत्त्यमेव अतः स्वप्नपदार्थानामपि जाग्रद्वत् सत्यत्वम् इति तन्न। स्वप्नवद्दृश्यत्वात्। ततोऽस्माकमद्वैतवेदान्तिनां जाग्रद्पदार्थानां वैतथ्यम्। 

केचिदन्ये स्वप्नपदार्थानां मिथ्यात्वं मन्यन्ते किन्तु जाग्रद्पदार्थानां सत्यत्वम्। कस्मात्? यस्मात्तेषां यज्जाग्रद्पदार्थानां प्रयोजनत्वेन सत्यत्वं, यदपि स्वप्नपदार्थानामप्रयोजनत्वेनासत्यत्वम्। तत्र तेषां हेत्वाभासः। कथम्? यज्जाग्रद्भावानां प्रयोजनत्वमुक्तं तज्जाग्रदृष्ट्या किन्तु यत्स्वप्नभावानामप्रयोजनत्वं कथितं तन्न स्वप्नदृष्ट्येति व्यभिचारेण हेत्वाभासः। तन्न्यायादेव जाग्रद्भावानामपि स्वप्ने अप्रयोजनत्वान्मिथ्यात्वमेव शक्यते वक्तुम् अथवा स्वप्नभावानामपि स्वप्ने प्रयोजनत्वात् सत्यता। त्रिकालबाधितत्वात् द्वयोरप्यसत्यत्वम्। 

ननु द्वितीयपक्षे यदुक्तं नाम द्वयोरपि सत्यत्वमिति तत्किं न शक्यते? दृश्यत्वादिति मन्यामहे। दृश्यत्वेन हेतुना सर्वेषां पदार्थानां स्वतःसिद्धत्वं नास्ति। द्रष्ट्रधीनमेव तेषामस्तित्वं दृश्यं नतु स्वातन्त्र्येण। इत्यतः तेषां मिथ्यात्वम्। 

ननु द्रष्टापि दृश्यापेक्ष इत्यतः तस्यापि मिथ्यात्वमिति चेत्। बाढमेतस्यास्माकमिष्टापत्तिरेव। सर्ववेदान्तशास्त्रेषु दृश्यद्रष्ट्रोरधिष्ठानरूपस्य एकस्याद्वितीयस्य ब्रह्मण एव सत्यत्वाभ्युपगमात्। 


श्रीगुरुपादुकाभ्याम्।
ॐ तत् सत्।

Thoughts 114

Thoughts 114: येषां मते मुक्तिर्नानन्दस्वरूपः तेषां प्रसिद्धिरपि आनन्दनामान्तेनैव।

अनुभवो ज्ञानम्।



अनुभवस्य तुच्छत्वाय केचन तस्य जडत्वं दर्शयन्ति। तद्वचनन्तु ज्ञानस्य जडत्वमित्युक्त्या तुल्यम्। कथम्? स्मृतिभिन्नं ज्ञानम् अनुभव इति लक्षणात्। ब्रह्मव्यतिरिक्ते सर्वेषां मिथ्यात्वे सत्यनुभवस्यैव जडत्वं न वक्तुमिष्टम्। सत्यं ज्ञानमनन्तमिति श्रुत्या ज्ञानलक्षणाच्च। भगवान्भाष्यकारैस्तत्रतत्रानुभवशब्दस्य प्रयोगादपि।

सर्वेष्वनुभवेषु ब्रह्मैवानुभूयतयित्यपि यदि सत्यं तर्हि सर्वेषु ज्ञानोत्पत्तिष्वपि ब्रह्मैव ज्ञायते। तत्र कोऽपि विशेषभेदो न कर्त्तव्यः। किञ्च अनुभवानां भ्रान्तिश्शक्यते इति यदुक्तिः, तस्याम् एतत्प्रष्टव्यं किं ज्ञानानां भ्रान्तिर्नास्ति वा। एकस्मिन्विषये एकेन गुरुणा वाक्येन शिष्याणां विविधं ज्ञानोत्पत्तेः दर्शनात्, तद्भ्रान्तिरपि शक्यते एव। ततस्तत्रापि उभयोर्भेदो नास्ति।

ननु लक्षणवाक्ये तु ज्ञानमुक्तं न त्वनुभवम्। सत्यमेव तत्। तत्र, भगवत्पादैर्ज्ञानमिति शुद्धधात्वर्थो भावसाधनो, न तु वृत्तिरूप इत्युक्त्यानन्तरं, धातोः कारकापेक्षास्ति इत्यतो ज्ञानं धात्वर्थोऽपि न भवति, परन्तु लक्षार्थश्चिदिति साधितम्।

तस्माद्यदपि सामान्येन ज्ञानशब्देनोच्यते तस्यानुभवशब्दाद्भेदं कृत्वा श्रेष्टमिति वक्तुं नार्हः। यथानुभवो वृत्तिरूपस्तथा ज्ञानमपि। द्वयोर्मध्ये एक एव भेदो यद्यदनुभवं तत्तज्ज्ञानं, किन्तु यद्यज्ज्ञानं तत्तन्नानुभवम्।


ॐ तत् सत्।
श्रीगुरुपादुकाभ्याम्।

(चैत्रमासे वसन्तनवरात्र्यां शुद्धसप्तमी)।



निर्विकल्पसमाधिः।


केचिदाहुः वेदान्ते यो निर्विकल्पकसमाधिः सः योगसमाधेर्भिन्न इति। कस्मिंश्चिद्विषये शब्दे वस्तुनि वा सः समाधिः शक्यते। यथा ध्यानधारणसमाधिविषयमनु योगसमाधिफलं स्यात्, तथा अत्र वेदान्तेऽपि समाधेः फलं विषयमनु शक्यते इति युक्तमेव। योगशास्त्रे समाधिरित्युक्ते सामान्येन योगस्य लक्षणं नाम चित्तवृत्तिनिरोध इति प्रसिद्धः। वृत्तिशून्यता वेदान्तस्य लक्ष्यं नास्ति, अतः निर्विकल्पसमाधिर्वृत्तिरूप एव भवति, न तु वृत्तिरहित इति केषामभिप्रायः।

अन्येषां निर्विकल्पसमाधौ वृत्तयः सन्ति वा न सन्ति वा इति संशयः क्रियते। तस्य समाधानं तु विविधा। केचिद्वदन्ति-- यो योगसमाधिर्निर्बीजोऽथवा निर्वितर्कः सः वृत्तिरहितः किंतु यो वेदान्तसमाधिः सः वृत्तिसहित इति, तदसत्। यत्र निर्विकल्पसमाधौ त्रिपुटिभेदो नास्ति तत्र वृत्तिः कथं भवितुं शक्यते। अपिच तस्मिन्पक्षे  सविकल्पनिर्विकल्पयोर्भेदोऽपि न सिध्यति। स एव सविकल्पो गहनस्थः निर्विकल्पो भवति इत्यप्यनाधारः। योगवेदान्तसमाध्योः ध्यानधारणवस्तुनोः भेदौ एव न तु वृत्त्यस्तित्वभेदौ इति युक्तम्। योगशास्त्रेषु या या विभूतिरथवा यद्यत्फलं दृश्यते तत्तद्विषयभेदेन तेन च वृत्तिभेदेनैव न तु समाधिभेदेन। किंचाविद्यानिवारणं महावाक्यजस्य ज्ञानस्य फलं यद्यपि निर्विल्पेन न सम्भवति चेत्, सविकल्पेन तु सम्भवत्येव यतः सः सविकल्पो वृत्तिसहितः। तदेव श्रीदत्तात्रेयेण परशुरामायोक्तम्

निवृत्तिस्तस्य तु ज्ञानादेवेति प्रविभावितम्।
तज्ज्ञानं सविकल्पं स्यादज्ञानस्य प्रबाधनम्॥१७.२६॥
निर्विकल्पकविज्ञानादज्ञानं न निवर्तते।
निर्विकल्पकविज्ञानं केनचिन्न विरुद्ध्यते॥१७.२७॥

तदविद्यानिवृत्तिरूपेण सविकल्पस्य विज्ञानस्य दृष्टफलम्। ज्ञानोत्पत्तेः पश्चात् यत्समाधिसाधनं तत्सर्वं निदिध्यासनम्।
श्रवणमननपूर्वकं निदिध्यासनं महावाक्यविषयम्। निदिध्यासने यदा अखण्डाकारवृत्तिर्भवति, तदा वृत्तिरविद्यानाशं कृत्वा स्वतः क्षयमापद्यते। अनन्तरं च निर्विकपकसमाधेः संस्कारशेष एव वर्तते। वृत्तिक्षयवृत्तिनिरोधयोर्मध्ये को भेदः? अन्यो वेदान्तवृत्तिरन्यो योगवृत्तिरिति न वक्तव्यम्। तयोः वृत्तिरूपत्वात्। ननु फलभेदः कथं सिध्यतीति उच्यते। यद्यपि वृत्तित्वर्भेदो नास्ति, तर्हि संस्कारविशेषौ वर्तेते। अतो द्वयोर्फलभेदः। अदृष्टफलमपि सविकल्पस्य निर्विलपवद्धर्मरूपम्। तदेव निर्विकल्पे धर्ममेघम्। अदृष्टं वासनाक्षयञ्च मनोनाशञ्च प्रति नयति अतः निष्ठां ददाति।

ननु योगश्चित्तवृत्तिनिरोध इत्युक्तम्। विद्यारण्यैस्तु

वृत्तयस्तु तदानीमज्ञाता अप्यात्मगोचराः ।
स्मरणादनुमीयन्ते व्युत्थितस्य समुत्थितात्॥१.५६॥

इत्युक्तम्। तत्र योगवेदान्तसमाधयोर्भेदस्स्पष्टम्।

सत्यमेतदुक्तं किन्तु भेदो नोक्तम्। यो भेदो योगशास्त्रे सविकल्पनिर्विकल्पयोर्मध्ये, स एव अत्रापि वेदान्तानाम्। अन्ये वृत्तिनिरोधोऽन्ये निरोध इति न। किंच निद्रायां यद्यपि वृत्तिनिरोधो वेदान्ते अङ्गीकृतस्तर्हि सूक्ष्मवृत्तिर्बीजरूपे मनसि वर्ततैव। निद्रापि योगशास्त्रे वृत्तिरेव। सापि सूक्ष्मा। अस्तु तर्हि निर्भेदो योगवेदान्तसमाध्योर्तेन ज्ञानेन एव मोक्ष इति सिधान्तहानिर्न भवति।


श्रीत्रिपुरायै अर्पणमस्तु।
ॐ तत् सत्।

(वसन्तनवरात्रौ चैत्रसुद्धसप्तमी।)

Rope-snake example in Upanishads




Further to the blog entry रज्जुसर्प rope-snake about the Shruti examples used for the creation of the world, here are the specific mantras of the Upanishads in which the rope-snake example is used. Some of them are clearly in the context of creation itself while others are in the context of मोक्षकारक ज्ञान (liberating knowledge). Please note that all these Upanishads are considered authentic in the tradition since they occur in Muktika's list of 108 Upanishads. And since Shrutis have एकवाक्यता (status of being for the same highest goal) as per सिद्धान्त (traditional Advaita Vedanta stance), no Upanishad can be placed above the other to disqualify the same. 

Most people seem to be unaware as to why Bhashyakara chose those 10 Upanishads only for commenting upon and not others. This is clearly seen in Muktikopanishad which lists Mandukya as enough for ज्ञानोत्पत्ति rise of knowledge, but if not so, then those 10 Upanishads listed, which are commented upon by Bhagavatpadacharya, are to be studied for मोक्ष (liberation). Even then, if knowledge is lacking, then the other Upanishads are introduced in groups till the number reaches 108. However, Upanishad Brahmendra Yogin, who is considered to follow Bhashyakara's interpretation, elaborating further, has commented on all 108 Upanishads. Those interested further may kindly refer the same.

Niralambopanishad
अज्ञानमिति च रज्जौ सर्पभ्रान्तिरिवाद्वितीये सर्वानुस्यूते सर्वमये ब्रह्मणि देवतिर्यङ्नरस्थावरस्त्रीपुरुषवर्णाश्रमबन्धमोक्षोपाधिनानात्मभेदकल्पितं ज्ञानमज्ञानम् ॥ १४ ॥
And [as to what is] अज्ञान is [answered as follows]: अज्ञान is the [delusory] knowledge, [that causes] superimposition of varieties of non-selves based on the manifold adjuncts, gods, animals, immovable (trees), women, men, varNas, stages of life, bondage and liberation, upon ​​​non-dual, all-pervasive, all-inclusive, ​ब्रह्म, like ​the delusion of snake in the rope.

Yogakundalinyupanishad Translated by K. Narayanasvami Aiyar
जायाभवविनिर्मुक्तिः कालरूपस्य विभ्रमः ।
इति तं स्वस्वरूपा हि मती रज्जुभुजङ्गवत् ॥ ७९॥
1.79: Like the conception of the snake in a rope, so the idea of the release from life and Samsara is the delusion of time.

Tejobindupanishad Translated by K. Narayanasvami Aiyar
गगने नीलिमासत्ये जगत्सत्यं भविष्यति ।
शुक्तिकारजतं सत्यं भूषणं चेज्जगद्भवेत् ॥ ७६ ॥
रज्जुसर्पेण दष्टश्चेन्नरो भवतु संसृतिः ।
जातरूपेण बाणेन ज्वालाग्नौ नाशिते जगत् ॥ ७७ ॥
4/6.76-77 (continues till 98): When the blueness of the sky really exists in it, then the universe really is. When the silver in mother-of pearl can be used in making an ornament, when a man is bitten by (the conception of) a snake in a rope, when the flaming fire is quenched by means of a golden arrow, ... then the world really is.

Rudrahridayopanishad
यः सर्वज्ञः सर्वविद्यो यस्य ज्ञानमयं तपः ।
तस्मादत्रान्नरूपेण जायते जगदावलिः ॥ ३३॥
सत्यवद्भाति तत्सर्वं रज्जुसर्पवदास्थितम् ।
तदेतदक्षरं सत्यं तद्विज्ञाय विमुच्यते ॥ ३४॥
33-35: From that all-knowing, omniscient Lord, whose being endowed with knowledge itself is the penance [=visualisation], the whole world is created in the form of food [that is consumed by all sense organs]. That entire [world] shines [=appears] as-if real, superimposed [on the Lord] just like a rope on a snake. That is this imperishable reality, knowing which, one is liberated.

Nirvanopanishad Translated by Prof. A. A. Ramanathan
अनित्यं जगद्यज्जनितं स्वप्नजगदभ्रगजादितुल्यम् । 
तथा देहादिसंघातं मोहगुणजालकलितं तद्रज्जुसर्पवत्कल्पितम् । 
28. The phenomenal world is impermanent as it is produced [from Brahman which alone is real]; it is similar to a world seen in a dream and an [illusory] elephant in the sky; similarly, the cluster of things such as the body is perceived by a network of a multitude of delusions and it is fancied to exist as a serpent in a rope.

Nadabindupanishad Translated by K. Narayanasvami Aiyar
अज्ञानं चेति वेदान्तैस्तस्मिन्नष्टे क्व विश्वता ।
यथा रज्जुं परित्यज्य सर्पं गृह्णाति वै भ्रमात् ॥ २६ ॥
26 (1/2) -27. As a person through illusion mistakes a rope for a serpent, so the fool not knowing the eternal truth sees the world [to be true]. When he knows it to be a piece of rope, the illusory idea of a serpent vanishes.

Katharudropanishad Translated by Prof. A. A. Ramanathan
ब्रह्मभूतात्मनस्तस्मादेतस्माच्च्ह्क्तिमिश्रितात् ।
अपञ्चीकृत आकाशसंभूतो रज्जुसर्पवत् ॥ १३॥
13/17. From this Self which is one with Brahman and which is possessed of Maya power arose the unmanifest Akasa like a rope-serpent.

Atmabodhopanishad Translated by Dr. A. G. Krishna Warrier
विवेकयुक्तिबुद्ध्याहं जानाम्यात्मानमद्वयम् । तथापि बन्धमोक्षादिव्यवहारः प्रतीयते ॥ ११॥
निवृत्तोऽपि प्रपञ्चो मे सत्यवद्भाति सर्वदा । सर्पादौ रज्जुसत्तेव ब्रह्मसत्तैव केवलम् ॥ १२॥
प्रपञ्चाधाररूपेण वर्ततेऽतो जगन्न हि । यथेक्षुरससंव्याप्ता शर्करा वर्तते तथा ॥ १३॥
II-1-11-13. I know myself without a second, with discrimination. Even then bondage and liberation are experienced. The world has gone away that appears to be real like serpent upon rope; only Brahman exists as the basis of the world; therefore the world does not exist; like sugar pervaded by the taste of the sugarcane, I am pervaded by bliss. All the three worlds, from Brahma to the smallest worm are imagined in me.

Atmopanishad Translated by Dr. A. G. Krishna Warrier
अमुष्य ब्रह्मभूतत्त्वाद्ब्रह्मणः कुत उद्भवः ।
मायाक्लृप्तौ बन्धमोक्षौ न स्तः स्वात्मनि वस्तुतः ॥ २६॥
यथा रज्जौ निष्क्रियायां सर्पाभासविनिर्गमौ ।
अवृतेः सदसत्त्वाभ्यां वक्तव्ये बन्धमोक्षणे ॥ २७॥
नावृत्तिर्ब्रह्मणः क्वाचिदन्याभावादनावृतम् ।
अस्तीति प्रत्ययो यश्च यश्च नास्तीति वस्तुनि ॥ २८॥
II-26-27(a). Because that Yogin has become Brahman, how can Brahman be reborn? Bondage and liberation, set up by Maya, are not real in themselves in relation to the Self, just as the appearance and disappearance of the snake are not in relation to the stirless rope.


Annapurnopanishad
रज्जुसर्पदर्शनेन कारणाद्भिन्नजगतः सत्यत्वभ्रमो निवृत्तः ॥ १.१६॥
1.10 The delusion of the reality of the world, as different from its cause, is negated, by [way of example of negation of] the vision of the snake in the rope [as different from its cause].

Annapurnopanishad Translated by Dr. A. G. Krishna Warrier
अधिष्ठाने परे तत्त्वे कल्पिता रज्जुसर्पवत् ।
कल्पिताश्चर्यजालेषु नाभ्युदेति कुतूहलम् ॥४.१०॥
4.10. (The whole world) is superimposed on the supreme Reality, the Ground, as the snake is on the rope. No curiosity is aroused as regards these superimposed wonders.

ॐ तत् सत्।


गुरुपादुकाभ्याम्।



Thoughts 113

Thoughts 113: यस्य दहन्ती मुमुक्षा नास्ति तं इच्छाः दहन्ति।

रज्जुसर्प rope-snake



Today morning, I was thinking about प्रक्रियाभेद in Vedanta and how each one is so meticulously made to lead one to the non-dual truth, whether by Shruti or by commentators of the tradition. I was planning to jot down something about a साध्वी प्रक्रिया as a quotation, but I am happy to close the day with the same thought via this blog entry, thanks to an occasion that arose a while back. There was an interesting explanation I was subject to about the रज्जुसर्प rope-snake example and what is the point to be taken home from that. That one fears from a snake superimposed or projected subjectively on an existent rope is an example for निवृत्ति from the world. This example contrasts the प्रवृत्ति towards the world indicated by another example of शुक्तिरजक appearance of silver in nacre. Interestingly, some say that these examples do not serve any further purpose in explaining creation and therefore best left alone, although the tradition is said to use these for the latter! 

Now, instead, clay-pot is talked about in Shruti itself and it best explains creation. True, but so is rope-snake! Bhashyakara is well-known to quote ideas that are covered across various Shrutis and this includes examples of रज्जुसर्प many a time. It is, therefore, no surprise to me that the रज्जुसर्प examples are dealt with for explaining creation itself in the following Upanishads themselves: Niralamba, Yogakundalini, Tejobindu, Rudrahridaya, Nirvana, Nadabindu, Katharudra, Atmabodha, Atma, Annapurna, all part of authentic 108 Upanishads, commented by Upanishad Yogendra, needless to mention that Karikakara used the example very fruitfully to serve a great purpose. 

This brings us to the प्रक्रियाभेद। One shouldn't restrict oneself to one example of one प्रक्रिया and map everything under the sun on to it. The pot-clay example is undoubtedly a great example in शृष्टिदृष्टिवाद, but rope-snake is the best fit for दृष्टिसृष्टिवाद। Throwing this example out would be throwing the baby with the bath water, since there would go a gem of a प्रक्रिया, praised by great stalwarts of Vedanta such as Vidyaranyacharya, Appayya Dikshita, Madhusudhana Sarasvati and Prakashananda. And of course, the entire Mandukya Upanishad uses this very प्रक्रिया, leading the Karikakara to use the rope-snake example in two of His verses.

The following verse about प्रक्रियाभेद should be well understood and remembered for one's own successful pursuit of the goal.

यया यया भवेत् पुंसां व्युत्पत्तिः प्रत्यगात्मनि।
सा सैव प्रक्रिया साध्वी विपरीता ततोऽन्यथा ॥ 


श्रीधरपादुकाभ्याम्।
ॐ तत् सत्।