अनुभवः ज्ञानम्।



अनुभवस्य तुच्छत्वाय केचन तस्य जडत्वं दर्शयन्ति। तद्वचनन्तु ज्ञानस्य जडत्वमित्युक्त्या तुल्यम्। कथम्? स्मृतिभिन्नं ज्ञानम् अनुभव इति लक्षणात्। ब्रह्मव्यतिरिक्ते सर्वेषां मिथ्यायामनुभवस्यैव जडत्वं न वक्तुमिष्टम्। सत्यंज्ञानमनन्तमिति श्रुत्या ज्ञानलक्षणाच्च। भगवान्भाष्यकारैरपि तत्रतत्रानुभवशब्दस्य प्रयोगादपि।

सर्वेष्वनुभवेषु ब्रह्मैवानुभूयतयित्यपि यदि सत्यं तर्हि सर्वेषु ज्ञानोत्पत्तिष्वपि ब्रह्मैव ज्ञायते। तत्र कोऽपि विशेषभेदो न कर्त्तव्यः। किञ्च अनुभवानां भ्रान्तिश्शक्यते इति यदुक्तिः, तस्याम् एतत्प्रष्टव्यं किं ज्ञानानां भ्रान्तिर्नास्ति वा। एकस्मिन्विषये एकेन गुरुणा वाक्येन शिष्याणां विविधं ज्ञानोत्पत्तिः दर्शनात्। तत्रापि उभयोर्भेदो नास्ति।

ननु लक्षणवाक्ये तु ज्ञानमुक्तं न तु अनुभवम्। सत्यमेव तत्। तत्र भगवत्पादैः ज्ञानमिति शुद्धधात्वर्थो भावसाधनो न तु वृत्तिरुप इत्युक्त्यानन्तरं धातोः कारकापेक्षास्ति इत्यतः ज्ञानं धात्वर्थोऽपि न परन्तु लक्षार्थश्चिदिति सिद्धम्।

तस्मात् यदपि सामान्येन ज्ञानशब्देनोच्यते तस्यानुभवशब्दात् भेदं कृत्वा श्रेष्टमिति वक्तुं नार्हः। यथानुभवो वृत्तिरूपस्तथा ज्ञानमपि। द्वयोर्मध्ये एक एव भेदो यद्यदनुभवं तत्तज्ज्ञानं किन्तु यद्यज्ज्ञानं तत्तन्नानुभवम्।


ॐ तत् सत्।
श्रीगुरुपादुकाभ्याम्।

(चैत्रमासे वसन्तनवरात्र्यां शुद्धसप्तमी)।



Post a Comment