Saundaryalahari 16-20

 

कवीन्द्राणां चेतःकमलवनबालातपरुचिं
भजन्ते ये सन्तः कतिचिदरुणामेव भवतीम्।
विरिञ्चिप्रेयस्याः तरुणतरश्रृङ्गारलहरी-
-गभीराभिर्वाग्भिः विदधति सतां रञ्जनममी॥१६॥

  • कवि-इन्द्राणां (कविणाम् इन्द्रः।) M6/3 of the best of poets

  • चेतः-कमल-वन-बाल-आतप-रुचिं (चेतांसि एव कमलानि इति चेतःकमलानि minds themselves are [like] lotuses. चेतःकमलानां वनं चेतःकमलवनम् group thereof. बालः आतपः बालातपः rising sun. तस्य रुचिः बालातपरुचिः rays thereof. चेतकमलवनस्य बालातपरुचिम्।) F2/1 illuminating morning twilight of the red dawn to group of lotus hearts

  • भजन्ते (भजँ सेवायाम् +लट्) III/3 worship

  • ये M1/3 those who

  • सन्तः M1/3 good men

  • कतिचित् 0 some

  • अरुणाम् F2/1 By her grace

  • एव 0 indeed

  • भवतीम् F2/1 Thee

  • विरिञ्चि-प्रेयस्याः (विरिञ्चेः प्रेयस्याः।) F6/1 to one who is dear to Brahma (Goddess Saraswati)

  • तरुणतर1 -श्रृङ्गार-लहरी-गभीराभिः (तरुणतरश्च शृङ्गारः तरुणतरशृङ्गारः । तस्य लहरी तरुणतरशृङ्गारलहरी। लहरीयुक्तगभीराभिः तरुणतरश्रृङ्गारलहरीगभीराभिः ।) F3/3 with their creative, profound and romantic poetry

  • वाग्भिः F3/3 through words.

  • विदधति (डुदाञ् धारणपोषणदानेषु +लट्) III/3 they ever impart

  • सतां 6/3 to the hearts of like minded courtiers

  • रञ्जनम् 2/1 pleasure

  • अमी M1/3 they.

  • हे भगवति, कवीन्द्राणां कतिचित् ये सन्तः चेतःकमलवनबालातपरुचिम् अरुणां भवतीं भजन्ते, अमी सन्तः विरिञ्चिप्रेयस्याः तरुणतरश्रृङ्गारलहरीगभीराभिः वाग्भिः सतां रञ्जनं विदधति।

  • O! Mother, Just as the morning Sun shine is to the lotuses, You are the illuminating morning twilight of the red dawn, to lotus hearts of the best of poets (their creativity). Those blessed good men who worship Thee, become dearest to Goddess Saraswati. By her grace, they ever impart pleasure and consummation to the hearts of like minded courtiers with their creative, profound and romantic poetry.


सवित्रीभिर्वाचां शशिमणिशिलाभङ्ग रुचिभिः
वशिन्याद्याभिस्त्वां सह जननि सञ्चिन्तयति यः ।
स कर्ता काव्यानां भवति महतां भङ्गिरुचिभिः
वचोभिर्वाग्देवीवदनकमलामोदमधुरैः ॥१७॥

  • सवित्रीभिः F3/3 with the Divine Mother

  • वाचां F6/3 of speech

  • शशिमणि-शिला-भङ्ग-रुचिभिः (शशिमणीनां शिला शशिमणिशिला। तस्या भंगः शशिमणिशिलाभंगः। तस्य रुचिः इव रुचि यासु तैः शशिमणिशिलाभङ्गरुचिभिः ) F3/3 with those who have the luster like that of the moon-stone slabs (marble blocks).

  • वशिनी-आद्याभिः (आदिः भवा आद्या। वशिनी आद्या यासां ताः वशिन्याद्याः। ताभिः।) F3/3 those who have Vashini at the foremost

  • त्वां 2/1 Thee

  • सह 0 along

  • जननि F1S/1 O Mother

  • सञ्चिन्तयति (सम् +चितिँ स्मृत्याम् +लट्) III/1 meditates

  • यः M1/1 one who

  • सः M1/1 he

  • कर्ता M1/1 creator/ poet

  • काव्यानां M6/3 of poetry

  • भवति (भू सत्तायाम् +लट्) III/1 becomes

  • महतां M6/3 of extraordinary/ of great poets

  • भङ्गि-रुचिभिः (भङ्गीनां रुचिभिः) F3/3 with the beauty, taste and wit/ tasteful variety of expressions

  • वचोभिः F3/3 with words

  • वाग्देवी-वदन-कमल-आमोद-मधुरैः (वाचां देवी वाग्देवी। वदनं कमलम् इव इति वदनकमलम्। वाग्देव्याः वदनकमले यः आमोदः, तेन मधुरैः/ वाग्देव्याः वदनकमले यः आमोदः तस्य मधुरस्य इव मधुरैः। ) M3/3 with those which are as sweet as the sweetness of fragrance of the lotus-face of Goddess Sarasvati.

  • हे जननि, शशिमणिशिलाभङ्गरुचिभिः वशिन्याद्याभिः सह त्वां यः सञ्चिन्तयति, सः भङ्गिरुचिभिः वाग्देवीवदनकमलामोदमधुरैः वचोभिः महतां काव्यानां कर्ता भवति।

  • O! Mother! You are in the company of Vasini (Lakshmi), the Goddess of speech (Savitri) and the Goddess of beauty (Rati) with the luster of the moon-stone slabs (marble blocks). The one, who, adores You in the company of the above powers, certain, he becomes the author of extra-ordinary poetry with the beauty, taste and wit of all time great poets and his works emanate the sweet fragrance of the lotus face of the goddess Saraswati.


तनुच्छायाभिस्ते तरुणतरणिश्रीसरणिभिः
दिवं सर्वामुर्वीमरुणिमनिमग्नां स्मरति यः ।
भवन्त्यस्य त्रस्यद्वनहरिणशालीननयनाः
सहोर्वश्या वश्याः कति कति न गीर्वाणगणिकाः ॥१८॥

  • तनु-छायाभिः (तनोः छायाभिः) F3/3 due to lustre of persona

  • ते 6/1 Thy

  • तरुण-तरणि-श्री-सरणिभिः (तरुणश्च असौ सूर्यश्च तरुणसूर्यः। श्रीः इव सरणिः यासां ताभिः) F3/3 due to that which has the lustre akin to that of the early morning sun

  • दिवं F2/1 heaven

  • सर्वाम् F2/1 entire

  • उर्वीम् F2/1 earth

  • अरुणिम-नि-मग्नां (नितरां मग्नां निमग्नाम्। अरुणिमनि निमग्नाम् अरुणिमनिमग्नाम्।) ever-immersed in red

  • /अरुणिमनि M7/1 in red मग्नां F2/1 immersed

  • स्मरति (स्मृ चिन्तायाम् +लट्) III/1 remembers

  • यः M1/1 one who

  • भवन्ति (भू सत्तायाम् +लट्) III/3 they [would] become

  • अस्य 6/1 for this meditator

  • त्रस्यत्-वन-हरिण-शालीन-नयनाः (त्रस्यतां वनहरिणानां शालीने नयने इव नयने यासां ताः) F1/3 those having their eyes resembling frightened forest deer.

  • सह 0 along

  • उर्वश्या (उर्वश् सह वर्तन्ते इति ) F3/1 with Urvashi

  • वश्याः F1/3 maids

  • कति 0 - कति 0 how many

  • 0 not

  • गी-र्वाण-गणिकाः (गीः एव वाणः यासां ताः गीर्बाणाः। ताः एव गणिकाः।) F1/3 celestial courtesans

  • हे भगवति, तरुणतरणिश्रीसरणिभिः ते तनुच्छायाभिः सर्वां दिवम् उर्वीं [] अरुनिमनिमग्नां स्मरति, अस्य कति कति गीर्वाणगणिकाः उर्वश्या सह त्रस्यत्वनहरिणशालीननयनाः वश्याः न भवन्ति।

  • O! Mother! He, who understands that all heaven and earth are ever immersed in the pink luster of Thy persona, akin to the luster of the freshly arisen Sun, to him, how many celestial courtesan maids along with Urvasi are not at his feet - with their eyes resembling frightened forest deer? (Indeed all such women are after him).


मुखं बिन्दुं कृत्वा कुचयुगमधस्तस्य तदधो
हरार्धं ध्यायेद्यो हरमहिषि ते मन्मथकलाम्
स सद्यः संक्षोभं नयति वनिता इत्यतिलघु
त्रिलोकीमप्याशु भ्रमयति रवीन्दुस्तनयुगाम् ॥१९॥

  • मुखं N2/1 face

  • बिन्दुं N2/1 Bindu

  • कृत्वा 0 having made

  • कुच-युगम् (कुचयोः युगम्) pair of breasts

  • अधः 0 below

  • तस्य N6/1 of that

  • तदधः (तस्य अधः) below that

  • हरार्धं (हरस्य अर्धम्) N2/1 female organs of generation

  • ध्यायेत् (ध्यै चिन्तायाम् विधिलिङ्) III/1 would meditate

  • यः M1/1 one who

  • हर-महिषि (हरस्य महिषि) F1S/1 O Queen of Hara.

  • ते 6/1 Thy

  • मन्मथकलाम् (मनमथस्य कलाम्) F2/1 manifestation of the Creative Force

  • सः M1/1 he

  • सद्यः 0 immediately

  • संक्षोभं M2/1 state of agitation

  • नयति (णीञ् प्रापणे +लट्) III/1 reduces/ causes to reach

  • वनिताः F2/3 women

  • इति 0 thus

  • अतिलघु 0 very easily

  • त्रि-लोकीम् (त्रयाणां लोकानां समाहारः।) F2/1 triad of three worlds.

  • अपि 0 also

  • आशु 0 swiftly

  • भ्रमयति (भ्रमुँ चलने +णिच् +लट्) III/1 causes to be deluded.

  • रवि-इन्दु-स्तन-युगाम् (रविश्च इन्दुश्च रवीन्दू। रवीन्दू एव स्तनौ रवीन्दुस्तनौ। तयोः युगं यस्याः सा रवीन्दुस्तनयुगा।) F2/1 She who has sun and the moon as her breasts.

  • हे हरमिषि, मुखं बिन्दुं कृत्वा, तस्य अधः कुचयुगं कृत्वा, तदधः हरार्धं कृत्वा, ते मन्मथकलाम् इति यः ध्यायेत्, सः सद्यः वनिताः संक्षोभं अतिलघु नयति। सः रवीन्दुस्तनयुगां त्रिलिकीम् अपि अशु भ्रमयति।

  • O! Queen of Hara! He, who meditates on Thee as manifestation of the Creative Force, having imagined the Bindu as Thy face, Thy bosom as the middle part, and Thy female organs of generation below that (signifying you as force of the laya, sthiti and srusti), he immediately reduces all women into a state of agitation very easily. He even deludes quickly, the maiden named Trilokee (three worlds) who has the sun and moon as her pair of breasts.


किरन्तीमङ्गेभ्यः किरणनिकुरुम्बामृतरसं
हृदि त्वामाधत्ते हिमकरशिलामूर्तिमिव यः ।
स सर्पाणां दर्पं शमयति शकुन्ताधिप इव
ज्वरप्लुष्टान् दृष्ट्या सुखयति सुधाधारसिरया ॥ २० ॥

  • किरन्तीम् F2/1  pouring out

  • अङ्गेभ्यः 5/3 from the limbs

  • किरण-निकुरुम्ब-अमृतरसं (किरणानां निकुरुम्ब। तस्माद् उत्पन्नः यः अमृतरसः सः किरणनिकुरुम्बामृतरसः।) M2/1 multitude of rays of nectar

  • हृदि N7/1 in the heart

  • त्वाम् F2/1 Thee

  • आधत्ते (+डुधाञ् धारणपोषणयो +लट्)  III/1 one holds/ meditates

  • हिम-कर-शिला-मूर्तिम् (हिमः करः यस्यः सः हिमकरः। हिमकरस्य शिला हिमकरशिला। तस्याः मूर्तिः हिमकरशिलामूर्तिः।) F2/1 as the image of the moonstone

  • इव 0 like

  • यः M1/1 one who

  • सः M1/1 he

  • सर्पाणां M6/3 of snakes

  • दर्पं M2/1 pride

  • शमयति (शमुँ उपरमे +णिच् +लट्) III/1 destroys/ subdues/ causes to be quietened

  • शकुन्ताधिपः (शकुन्तानां अधिपः।) M1/1 Lord of birds/ Garuda

  • इव 0 like

  • ज्वरप्लुष्टान् (ज्वरेण प्लुष्टान्) M2/3 those scorched by fever

  • दृष्ट्या F3/1 by a [mere] look

  • सुखयति (सुखँ तत्क्रियायाम् +णिच् +लट्) III/1 causes to be comforted

  • सुधा-आधार-/धार-सिरया (सुधायाः धारा सुधाधारा।

    • सुधाधारभूता सिरा

    • /सुधाधारयुक्ता सिरा

    • /सुधा धारात्मिका यस्यां सिरां सा सिरा

    सुधाधारासिरा।) F3/1 with the energy channel overflowing with nectar

  • हे भगवति, यः अङ्गेभ्यः किरणनिकुरुम्बामृतरसं किरन्तीं हिमकरशिलामूर्तिम् इव हृदि त्वां आधत्ते, सः शुकन्ताधिप इव दृष्या सर्पानां दर्पं शमयति, सुधाधारसिरया दृष्ट्या ज्वरप्लुष्टान् सुखयति।

  • O! Mother! He, who fixes Thee in his heart as the scintillation emanating, like nectar, from the various parts of Thy persona, like the multitude of cool rays from an idol made up of moon-stone (marble), becomes powerful like Garutman, the lord of birds – who destroys the pride of serpents. Such a devoted man comforts those scorched by fever by his mere look, endowed as if he is with the vessel overflowing with Amrita.

Saundaryalahari 11-15

 

चतुर्भिः श्रीकण्ठैः शिवयुवतिभिः पञ्चभिरपि
प्रभिन्नाभिः शम्भोर्नवभिरपि मूलप्रकृतिभिः।
चतुश्चत्वारिंशद्वसुदलकलाश्रत्रिवलय-
त्रिरेखभिः सार्धं तव शरणकोणाः परिणताः ॥११॥

  • चतुर्भिः 3/3 with four

  • श्री-कण्ठैः (श्रीः कण्ठे यस्य तैः) 3/3 with Shiva [triangles]

  • शिव-युवतिभिः (शिवस्य युवतिभिः) 3/3 with Shakti [triangles]

  • पञ्चभिः 3/3 with five

  • अपि 0 also

  • प्रभिन्नाभिः N3/3 with those distinct

  • शम्भोः M5/1 from Shiva

  • नवभिः 3/3 with nine

  • अपि 0 also

  • मूल-प्रकृतिभिः (मूला च असौ प्रकृतिश्च मूलाप्रकृतिः।) 3/3 with basic causal force

  • चतुश्चत्वारिंशत् 1/3 forty-four

  • वसु-दल-कला-अश्र-त्रि-वलय-त्रि-रेखभिः (वसूनि दलानि यस्य तत् वसुदलम्। कलाः अश्राः यस्य तत् कलाश्रम्। त्रयाणां वलानां समाहारः त्रिवलयम्।) 3/3 with eight-petalled lotus and 16-petalled lotus with three circles around and three lines

  • सार्धं together with

  • तव Thy

  • शरण-कोणाः(शरणञ्च कोणाश्च) 1/3 angles of [Thy] abode

  • परिणताः 1/3 counted. ॥११॥

  • हे भगवति, चतुर्भिः श्रीकण्ठैः शंभोः [सकाशात्] प्रभिन्नाभिः पञ्चभिः शिवयुवतिभिः नवभिः अपि मूलप्रकृतिभिः तव शरणकोणाः वसुदलकाश्रत्रिवलयत्रिरेखाभिः सार्धं, परिणताः सन्तः चतुश्चत्वारिंशत् भवति।

  • The angles of the Thy abode (the Sricakra) which is made up of the nine mulaprakritis or basic triangles (the nine primary causative forces of the universe) consisting of the four distinct Siva triangles (with apex upwards), and the five distinct Sakti-triangles (with apex downwards) kept apart from the former by the Bindu, with the eight-petalled lotus, the lotus of sixteen petals with the three circles around and the three lines, are counted as forty-three (forty-four).


त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं
कवीन्द्राः कल्पन्ते कथमपि विरिञ्चिप्रभृतयः।
यदालोकौत्सुक्यादमरललना यान्ति मनसा
तपोभिर्दुष्प्रापामपि गिरिशसायुज्य-पदवीम् ॥ १२ ॥

  • त्वदीयं N2/1 Thy

  • सौन्दर्यं N2/1 beauty

  • तुहिन-गिरि-कन्ये (तुहिनप्रधानः गिरिः तुहिनगिरिः। तस्य कन्या तुहिनगिरिकन्या।) F1S/1 O daughter of the snow clad mountain

  • तुलयितुं 0 to compare

  • कवीन्द्राः (कवीणाम् इन्द्राः।) M1/3 best of thinkers

  • कल्पन्ते (कृपूँ सामर्थ्ये लट्) III/3 are capable

  • कथमपि 0 somehow with great pain

  • विरिञ्चि-प्रभृतयः (विरिञ्चिः प्रभृतिः येषां ते विरिञ्चिप्रभृतयः।) Brahma, etc

  • यत् 0 due to which reason

  • आलोकौत्सुक्यात् (आलोके औत्सुक्यम् आलोकौत्सुक्यम्। तस्मात् हेतोः। अथवा आलोकौत्सुक्यम् अवलम्ब्य [ल्यब्लोपे] आलोक्यौत्सुक्यात्) having resorted to the eagerness to see [Thy] splendour

  • अमर-ललनाः (अमराणां ललनाः/ अमरे लोके ललनाः।) F1/3 celestial damsels

  • यान्ति (या प्रापणगत्योः लट्) III/3 they attain

  • मनसा N3/1 through the mind

  • तपोभिः N3/3 through austerities

  • दुष्प्रापाम् F2/1 difficult to attain

  • अपि 0 even

  • गिरिश-सायुज्य-पदवीम् (गिरिशेन सह सायुज्यं गिरिशसायुज्यम्। तदेव पदवी तस्य पदवी वा गिरिशसायुज्यपदवी।) F2/1 state of attaining oneness with Shiva. ॥ १२ ॥

  • हे तुहिनगिरिकन्ये, त्वदीयं सौन्दर्यं तुलयितुं कवीन्द्राः विरिञ्चिप्रभृतयः कथमपि कल्पन्ते। यत् (यस्मात्) अमरललनाः आलोकौतुक्यात् तपोभिः दुष्प्रापाम् अपि गिरिशसायुज्यपदवीं मनसा यान्ति।

  • Oh, Daughter of the snow-clad Mountain (Himalaya)! The best of thinkers — Brahma and others — are at great pains to find a suitable comparison to Thy beauty. Even the celestial damsels, out of great eagerness to get a glimpse of Thy splendour, mentally attain a condition of absorption into Siva, which is unobtainable even by penance.


नरं वर्षीयांसं नयनविरसं नर्मसु जडं
तवापाङ्गालोके पतितमनुधावन्ति शतशः।
गलद्वेणीबन्धाः कुचकलशविस्रस्तसिचयाः
हठात्त्रुट्यत्काञ्च्यो विगलितदुकूला युवतयः॥१३॥

  • नरं M2/1 man

  • वर्षीयांसं M2/1 old

  • नयन-विरसं (विगतः रसाः यस्मात् सः विरसः। नयनाभ्यां विरसं नयनविरसम्।) M2/1 far advanced in age

  • नर्मसु 7/3 in amorous sports

  • जडं M2/1 incapable

  • तव 6/1 of Thy

  • अपाङ्ग-आलोके (अपाङ्गस्य आलोके) M7/1 in a side glance

  • पतितम् M2/1 fallen

  • अनुधावन्ति (अनु +धावुँ गतिशुद्ध्य +लट्) III/3 run after

  • शतशः 0 in hundreds

  • गलत्-वेणी-बन्धाः (गलन्तः वेणीनां बन्धाः यासां ताः) F1/3 those whose braids of hair are loosening

  • कुच-कलश-विस्रस्त-सिचयाः (कुचौ इमौ कलशौ इव कुचकुलशौ। कुचकलशाभ्यां विस्रस्ताः सिचयाः यासां ताः) F1/3 those whose clothes over the breasts are falling down

  • हठात् M5adv/1 suddenly

  • त्रुट्यत्काञ्च्यः (त्रुट्यत्यः काञ्च्याः यासां ताः त्रुट्यत्काञ्च्यः) F1/3 those whose girdles are breaking

  • विगलित-दुकूलाः (विगलिताः दुकूलाः यासां ताः) F1/3 those whose silken robes are slipping down

  • युवतयः F1/3 youthful women.

  • हे भगवति, वर्षीयांसं नर्मसु जडं, तव अपाङ्गालोके पतितं नरं, शतशः युवतयः गलद्वेणीबन्धाः कुचकलशविस्रस्तसिचयाः हठात् त्रुट्यत्काञ्च्यः विगलितदुकूलाः [सत्यः] अनुधावन्ति।

  • Youthful maidens, with their braids of hair loosened and dropping, the garments over their breasts falling down , their girdles breaking off suddenly and their silken robes slipping down, run in hundreds after a man, who is far advanced in years, uncouth to look at, and incapable of amorous sport, but has fallen within the ambit of Thy side-glances.


क्षितौ षट्पञ्चाशत् द्विसमधिकपञ्चाशदुदके
हुताशे द्वाषष्टिः चतुरधिकपञ्चाशदनिले।
दिवि द्विःषट्त्रिंशत् मनसि च चतुःषष्टिरिति ये
मयूखास्तेषामप्युपरि तव पादाम्बुजयुगम्॥१४॥

  • क्षितौ F7/1 in [Muladhara comprised of/ represented by] earth

  • षट्पञ्चाशत् (षडधिका पञ्चाशत् इति शाकपार्थिवः/ मध्यमपदलोपी।) F1/3 fifty-six

  • द्विसमधिकपञ्चाशत् (सम्यक् अधिका समधिका। द्वे च एते समधिका च द्विसमधिका। द्विसमधिका पञ्चाशत् द्विसमधिपञ्चाशत्) F1/3 fifty-two

  • उदके M7/1 in [Svadhishthana comprised of/ represented by] water

  • हुताशे (हुतम् अश्नाति इति हुताशः। तस्मिन्।) M7/1 in [Manipura comprised of/ represented by] fire

  • द्वाषष्टिः (द्वाधिका षष्टिः द्वाषष्टिः।) M1/3 sixty-two

  • चतुरधिकपञ्चाशत् (चतुरधिका पञ्चाशत् चतुरधिकपञ्चाशत्) M1/3 fifty-four

  • अनिले M7/1 in [Anahata comprised of/ represented by] air

  • दिवि MN7/1 in [Vishuddhi comprised of/ represented by] space

  • द्विःषट्त्रिंशत् (षडधिका त्रिंशत् षट्त्रिंशत्। द्विः षट्त्रिंशत् द्विःषट्त्रिंशत्।) N1/3 twice of thirty-six, seventy-two

  • मनसि N7/1 in [Ajna comprised of/ represented by] the mind

  • 0 and

  • चतुःषष्टिः (चतुरधिका षष्टिः चतुःषष्टिः।) M1/3 sixty-four

  • इति 0 thus

  • ये 1/3 those who

  • मयूखाः M1/3 rays

  • तेषाम् M6/3 for them

  • अपि 0 even

  • उपरि 0 above

  • तव 6/1 Thy

  • पादाम्बुजयुगम् (अम्बुनि जायेते इति अम्बुजम्। पादौ इमौ अमुबुदौ इव पादाम्बुजौ। पादाम्बुजयोः युगम्।) N2/1 pair of lotus-feet.

  • हे भगवति, क्षितौ षट्पञ्चाशत्, उदके द्विसमधिकपञ्चाशत्, हुताशे द्वाषष्टिः, अनिले चतुरधिकपञ्चाशत्, दिवि द्विःषट्त्रिंशत्, मनसि चतुःषष्टिः च इति [संख्यकाः] ये मयूखाः भवन्ति, तेषाम् अपि उपरि तव पादाम्बुजयुगं वर्तते।

  • Fifty-six rays shine in the Muladhara comprised of the element of Earth (Prthvi tattva), fifty-two rays shine in the Manipura of the essence of Water (Apatattva), sixty-two in the Svadishthana (the Agni or Tejas tattva) being of the nature of Fire, fifty-two in the Anahata of the character of Air (Vayu-tattva); seventy-two rays in the Visuddhi of the form of Ether (Akasa-tattva) and sixty-four in the Ajna (manas-tattva). Far above all these shine the pair of Thy lotus feet.


शरज्ज्योत्स्नाशुद्धां शशियुतजटाजूटमकुटां
वरत्रासत्राणस्फटिकघटिकापुस्तककराम्।
सकृन्न त्वा नत्वा कथमिव सतां सन्निदधते
मधुक्षीरद्राक्षामधुरिमधुरीणाः फणितयः॥१५॥

  • शरद्-ज्योत्स्ना-शुद्धां (शरदि/शरदः ज्योत्स्ना शरज्ज्योत्स्ना। शरज्ज्योत्स्ना इव शुद्धाम्।) F2/1 She who is bright like the autumnal moonlight

  • शशि-युत-जटा-जूट-मकुटां (शशिना युतः जटानां जूटः एव मकुटः यस्याः सा शशियुतजटाजूटमकुटा।) F2/1 She whose head is adorned with a crown, whose matted hair-locks have a crescent-moon on them/ She who has a moon as a crown on the matted hair-locks.

  • वर-त्रास-त्राण-स्फटिक-घटिका-पुस्तक-कराम् / वर-त्रास-त्राण-स्फटिक-घुटिका-पुस्तक-कराम् (त्रासात् त्राणं त्रासत्राणम्। स्फटिकस्य घुटिका स्फटिकघुटिका। वरश्च त्रासत्राणं च स्फटीकघुटिका च पुस्तकं च वरत्रासत्राणस्फटिकघुटिकापुस्तकानि। तैः युक्ता करा वरत्रासत्राणस्फटिकघुटिकापुस्तककराम्।) F2/1 She whose four hands hold the poses of bestowing boons and affording protection from fear, a string of crystal beads (sphatika) and a book

  • सकृत् 0 once

  • 0 not

  • त्वा F2/1 Thee

  • नत्वा 0 having saluted

  • कथम् 0 how

  • इव 0 as

  • सतां M6/3 for righteous people

  • सन्निदधते (सम्+नि+डुधाञ् धारणपोषणयोः+लट्) III/3 emanate from/ rest on [the tounge]

  • मधु-क्षीर-द्राक्षा-मधुरि-मधुरीणाः (मधु च क्षीरं च द्राक्षा च मधुक्षीरद्राक्षाः। तेषां मधुरिमा। तत्र धुरीणाः।) F1/3 capable w.r.t. sweetness as that of honey, milk and grapes.

  • फणितयः F1/3 speech/ words.

  • हे भगवति, शरज्ज्योत्स्नाशुद्धां शसियुतजटाजूटमकुटां वरत्रासत्राणस्फटिकघटिकापुस्तककरां त्वा सकृन्नत्वा, सतां मधुक्षीरद्राक्षामधुरिमधुरीणाः फणितयः कथम् इव न सन्निदधते।

  • How will not words (speech) sweet as honey, milk and grapes, emanate from the tongue of such as have bowed even once before Thee, whose form is as clean and bright as the moon-light of the Saradrutu (autumnal moon) whose head is adorned with a crown, whose matted hair-locks have a crescent-moon on them and whose four hands hold the poses of bestowing boons and affording protection from fear, a string of crystal beads (sphatika) and a book.