Saundaryalahari 6-10


धनुः पौष्पं मौर्वी मधुकरमयी पञ्च विशिखाः
वसन्तः सामन्तो मलयमरु-दायोधन-रथः ।
तथाप्येकः सर्वं हिमगिरिसुते कामपि कृपां
अपाङ्गात्ते लब्ध्वा जगदिद-मनङ्गो विजयते ॥

  • धनुः N1/1 bow

  • पौष्पं N1/1 made of flowers

  • मौर्वी F1/1 string

  • मधुकरमयी F1/1 comprised of a cluster of honey bees

  • पञ्च 0 five

  • विशिखाः F1/1 arrows

  • वसन्तः M1/1 spring season

  • सामन्तः M1/1 assistant

  • मलय-मरुत्-योधन-रथः (मलयात् आगतं मरुत् मलयमरुत् इति मध्यमपदलोपी। आयोधनस्य रथः आयोधनरथः। मलयमरुत् एव आयोधनरथः मलयमरुदायोधनरथ इति कर्मधारयः।) M1/1 breeze from Malaya mountain is the war-chariot.

  • तथा 0 then

  • अपि 0 even

  • कः M1/1 one

  • सर्वं N2/1 entire

  • हिमगिरिसुते (हिमप्रधानगिरिः। तस्य सुते।) F1S/1 O Daughter of the snow-clad Himalayas

  • काम् F2/1 which/ some

  • पि 0 even

  • कृपां F2/1 grace

  • अपाङ्गात् N5/1 due to side-glance

  • ते 6/1 Thy

  • लब्ध्वा 0 having obtained

  • जगत् N2/1 universe

  • म् N2/1 this

  • ङ्गः M1/1 bodiless

  • विजयते (जि जये लट् III/1) subjugates/ wins over.

  • हे हिमगिरिसुते, [यस्य कामस्य] धनुः पौष्पं भवति, [यस्य] मौर्वी मधुकरमयी भवति, [यस्य] विशिखाः पञ्च [एव] भवन्ति, [यस्य] सामन्तः वसन्तः भवति, मलयमरुदायोधनरथः भवति, तथा अपि ते काम् अपाङ्गात् कृपां लब्ध्वा, [सः] एकोऽनङ्गः इदं सर्वं जगत् विजयते।

  • Oh Daughter of the snow-clad Himalaya mountain! Cupid, the God of Love has only a bow made of flowers, with its string comprised of a cluster of honey-bees, and has arrows barely five. The spring season is his vassal (assistant) and the Southern breeze, his war-chariot. Yet (with such frail equipment, bodiless, and alone though he be), Cupid (Manmatha) subjugates the entire universe, having obtained some favour through Thy benign side-glance.


क्वणत्काञ्चीदामा करिकलभ कुम्भस्तननता
परिक्षीणा मध्ये परिणत शरच्चन्द्रवदना ।
धनुर्बाणान् पाशं सृ॒णिमपि दधाना करतलैः
पुरस्तादास्तां नः पुरमथितुराहोपुरुषिका

  • क्वणत्-काञ्ची-दामा (क्वणती काञ्ची दामा यस्याः सा) F1/1 one who has a jingling girdle-string ornament

  • करि-कलभ-कुम्भ-स्तन-नता (करिकलभस्य कुम्भ इव स्तनौ करिकलभस्तनौ। ताभ्यां नता [क्वणत्काञ्चीदामा] यस्याः सा।) F1/1 one who has a bent [ornament] due to breasts like the temples of a young elephant

  • परिक्षीणा F1/1 slender

  • मध्ये 7/1 in the waist

  • परिणत-शरद्-चन्द्र-वदना (शरद्रुतोः चन्द्रः शरच्चन्द्रः। परिणतः शरच्चन्द्रः परिणतशरच्चन्द्रः। तस्य [वदनम्] इव वदनं यस्याः सा परिणतशरच्चन्द्रवदना।) F1/1 one who has a face like the face of the autumnal full-moon.

  • धनुः N2/1 bow

  • बाणान् M2/3 arrows

  • पाशं M2/1 noose

  • सृ॒णिम् F2/1 goad

  • पि 0 also

  • दधाना F1/1 holder

  • करतलैः (करस्य तलः करतलः।) N3/3 with the hands

  • पुरस्तात् 0 in front

  • स्ताम् (अस् लोट् II/1) may you kindly manifest नः 2/6/3 for us पुर-मथितुः (पुराणां मथिता पुरमथिता।) M6/1 of the destroyer of the worlds हो-पुरुषिका (अहो अहम् अहङ्कारः एव पुरुषः इति मयूरव्यंसकः।) F1/1 being in the form of pride.

  • करिकलभकुम्भस्तननता, क्वणत्काञ्चीदामा, मध्ये परिक्षीणा, परिणतशरच्चन्द्रवदना, करतलैः धनुः बाणान् पाशं सृणिम् अपि पुरस्तात् दधाना, पुरमथितुः आहोपुरुषिका, नः आस्ताम्।

  • May Thou with Thy breasts like the temples (mastakas) of a young elephant, with Thy slender waist which is adorned by a jingling girdle-string (belt-like gold waist-ornament called Odyana having small tinkling gold bells attached), with Thy face blooming like the autumnal full moon ( of the Saradrutu, with Thy four hands holding bow, arrow, noose and goad (ankusa), Thou the pride of Siva (the Ahamkararupini of Siva), manifest.


सुधासिन्धोर्मध्ये सुरविटपिवाटीपरिवृते
मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे ।
शिवाकारे मञ्चे परमशिवपर्यङ्कनिलयाम्
भजन्ति त्वां धन्याः कतिचन चिदानन्दलहरीम् ॥ ८ ॥

  • सुधा-सिन्धोः (सुधायाः सिन्धुः सुधासिन्धुः।) M6/1 of the ocean of nectar

  • मध्ये N7/1 in the middle

  • सुर-विटपि-वाटी-परिवृते (सुराणां विटप्यः सुरविटप्यः। तेषां वाट्यः सुरवीटपिवाट्यः। ताभिः परिवृते सुरविटपिवाटीपरिवृते।) N7/1 in that surrounded by a forest of celestial trees

  • मणि-द्वीपे (मणिनां द्वीपे) N7/1 in the island of gems

  • नीप-उपवनवति (नीपैः उपवनवत् तस्मिन् उपवनवति) N7/1 in that surrounded by garden of Nipa trees

  • चिन्तामणि-गृहे (चिन्तामणिनां गृहे।) N7/1 in the house of cintAmaNi gems

  • शिव-आकारे (शिवस्य आकारः इव आकारः यस्य मञ्चस्य सः मञ्चः शिवाकारः।) M7/1 on that which is in/ has the form of Shiva

  • मञ्चे M7/1 on a cot

  • परम-शिव-पर्यङ्क-निलयाम् (परमश्च असौ शिवश्च परमशिवः। स एव पर्यङ्कः परमशिवपर्यङ्कः। तस्मिन् निलयः यस्याम् ताम्) F2/1 one who has a seat on the bed of/ in the form of Paramashiva.

  • भजन्ति (भज् सवायाम् लट् III/3) they worship

  • त्वां 2/1 Thee

  • धन्याः M1/3 fortunate

  • कतिचन 0 some

  • चित्-नन्द-लहरीम् (चिच्च असौ आनन्दश्च चिदानन्दः। तस्य लहरीम्) F2/1 that swell of consciousness and bliss. ॥ ८ ॥

  • हे [भगवति], सुधासिन्धोः मध्ये, सुरविटपिवाटीपरिवृते मणिद्वीपे, नीपोपवनवति चिन्तामणिगृहे, शिवाकारे मञ्चे, परमशिवपर्यङ्कनिलयां चिदानन्दलहरीं त्वाम्, कतिचन धन्याः भजन्ति।

  • Fortunate are those few, who worship Thee who is in the form of the swell of consciousness and Infinite Bliss, Thee who is reclining (seated) on the mattress of Paramasiva spread on the cot in the form of Sadasiva, inside the mansion constructed of precious Cintamani gems, which mansion is surrounded by the pleasure garden of Nipa (Kadamba) trees, and which is in the island of gems of all kinds, encircled by rows of celestial (Kalpa) trees, the island being situated in the midst of the Amritasamudra of ocean of nectar.


महीं मूलाधारे कमपि मणिपूरे हुतवहं
स्थितं स्वाधिष्ठाने हृदि मरुतमाकाशमुपरि ।
मनो‌ऽपि भ्रूमध्ये सकलमपि भित्त्वाकुलपथं
सहस्रारे पद्मे सह रहसि पत्या विहरसे ॥ ९ ॥

  • महीं F2/1 earth

  • मूलाधारे (मूले [स्थितः] आधारः/ मूलश्च असौ आधारश्च।) M7/1 in Muladhara

  • कम् MN2/1 water

  • अपि 0 also

  • मणिपूरे (मणिनां पूरः।) N7/1 in Manipura

  • हुतवहं (हुतं वहति इति उपपदतत्पुरुषः।) M2/1 fire

  • स्थितं M2/1 present

  • स्वाधिष्ठाने (स्वस्मिन् अधिष्ठानं यस्य तत्/ सुष्ठु अधिष्ठीयते इति।) N7/1 in Svadhishthana

  • हृदि 7/1 in the heart

  • मरुतम् air

  • आकाशम् space

  • उपरि 0 in that above [those]/ Vishuddha

  • मनः 2/1 mind

  • अपि 0 also

  • भ्रूमध्ये (भ्रुवोः मध्ये) 7/1 in between the eyebrows

  • सकलम् (कलया सह वर्तते इति सह बहुव्रीहिः।) 2/1 entire

  • अपि 0 even

  • भित्वा having broken

  • कुलपथं (कुलस्य पथम्।) 2/1 path of Kundalini

  • सहस्रारे (सहस्रम् आराणि यस्य ) N7/1 - पद्मे N7/1 in the thousand-petalled lotus

  • सह 0 along

  • रहसि 7/1 in solitude

  • पत्या M3/1 with Thy spouse

  • विहरसे (वि+हृ क्रीडायाम् +लट् II/1) Thou sporteth. ॥ ९ ॥

  • हे भगवति, मूलाधारे स्थितिं महीं भित्त्वा, मणिपूरे स्थितं कं हुतवहमपि भित्त्वा, स्वाधिष्ठाने स्थितं हुतवहं भित्त्वा, हृदि स्थितं मरुतं भित्त्वा, [तेषाम्] उपरि स्थितम् आकाशं भित्त्वा, भ्रूमध्ये स्थितं मनोऽपि भित्त्वा, सकलं कुलपथम् अपि भित्त्वा, सहस्रारे पद्मे पत्या सह विहरसे।

  • Breaking through the Muladhara, the Manipura, the Svadishthana, the Anahata, the Visuddhi, the Ajna cakras (plexuses) and having crossed Prthvi (earth), Apas (water), Tejas (fire), Vayu (air), Akasa (ether) and Manas (mind) tatvas of the respective cakras, Thou reacheth the thousand-petalled lotus and sporteth there with Thy spouse Sadasiva.


सुधाधारासारैश्चरणयुगलान्तर्विगलितैः
प्रपञ्चं सिञ्चन्ती पुनरपि रसाम्नायमहसः।
अवाप्य स्वां भूमिं भुजगनिभमध्युष्टवलयं
स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि ॥ १०॥

  • सुधा-धारा-आसारैः (सुधायाः धाराः। धाराणाम् आसारैः।) M3/3 through the showers of the flood of nectar

  • चरण-युगल-अन्तर्-विगलितैः (चरणयोः युगलम्। अन्तर् विगलितं अन्तर्विगलितम्। चरणयुगलस्य अन्तर्विगलितैः।) M3/3 through those oozing from within the pair of [your] feet

  • प्रपञ्चं N2/1 body of vital energy channels/ universe

  • सिञ्चन्ती F1/1 one who drenches

  • पुनः 0 again

  • अपि 0 even

  • रस-आम्नाय-महसः (रसस्य आम्नायः रसाम्नायः। रसाम्नायः महः यस्य सः रसाम्नायमहा। तस्मात्) M5/1 from that which has the brilliance of excess of nectar

  • अवाप्य 0 having returned

  • स्वां F2/1 own

  • भूमिं F2/1 ground

  • भुजग-निभम् (भुजगेन भुजगस्य वा निभम्।) M2/1 like a snake

  • अध्युष्ट-वलयं 2/1 coil up three and a half times

  • स्वम् M2/1 own

  • आत्मानं M2/1 self

  • कृत्वा 0 having made

  • स्वपिषि (ञिष्वपँ शये, अदादिः, लट् III/1) you sleep

  • कुलकुण्डे (कुलस्य कुण्डे) N7/1 in the crevice of the Muladhara

  • कुहरिणि (कुं हरति इति कुहरिणी/ कुहराणि अस्याः सन्ति इति कुहरिणी।) F1S/1 or F7/1 O Kuharini/ in that which has chakras. ॥ १०॥

  • हे कुहरिणि, चरणयुगलान्तरविगलितैः सुधाधारासारैः प्रपञ्चं सिञ्चन्ती [त्वं] पुनरपि रसाम्नायमहसः स्वां भूमिम् अवाप्य, स्वम् आत्मानं भुजगनिभम् अध्युष्टवलयं कृत्वा, कुलकुण्डे स्वपिषि।

  • /हे भगवति, चरणयुगलान्तरविगलितैः सुधाधारासारैः प्रपञ्चं सिञ्चन्ती [त्वं] पुनरपि रसाम्नायमहसः स्वां भूमिम् अवाप्य, स्वम् आत्मानं भुजगनिभम् अध्युष्टवलयं कृत्वा, कुहरिणि कुलकुण्डे स्वपिषि।

  • Thou drencheth the nadis (nerves) in the body with the flood of nectar gushing from Thy feet. Reaching again Thy own ground (Muladhara) and converting Thyself into a serpent with three coils and a half Thou sleepeth in the crevice in the centre of the Muladhara lotus.


No comments: