Saundaryalahari 16-20

 

कवीन्द्राणां चेतःकमलवनबालातपरुचिं
भजन्ते ये सन्तः कतिचिदरुणामेव भवतीम्।
विरिञ्चिप्रेयस्याः तरुणतरश्रृङ्गारलहरी-
-गभीराभिर्वाग्भिः विदधति सतां रञ्जनममी॥१६॥

  • कवि-इन्द्राणां (कविणाम् इन्द्रः।) M6/3 of the best of poets

  • चेतः-कमल-वन-बाल-आतप-रुचिं (चेतांसि एव कमलानि इति चेतःकमलानि minds themselves are [like] lotuses. चेतःकमलानां वनं चेतःकमलवनम् group thereof. बालः आतपः बालातपः rising sun. तस्य रुचिः बालातपरुचिः rays thereof. चेतकमलवनस्य बालातपरुचिम्।) F2/1 illuminating morning twilight of the red dawn to group of lotus hearts

  • भजन्ते (भजँ सेवायाम् +लट्) III/3 worship

  • ये M1/3 those who

  • सन्तः M1/3 good men

  • कतिचित् 0 some

  • अरुणाम् F2/1 By her grace

  • एव 0 indeed

  • भवतीम् F2/1 Thee

  • विरिञ्चि-प्रेयस्याः (विरिञ्चेः प्रेयस्याः।) F6/1 to one who is dear to Brahma (Goddess Saraswati)

  • तरुणतर1 -श्रृङ्गार-लहरी-गभीराभिः (तरुणतरश्च शृङ्गारः तरुणतरशृङ्गारः । तस्य लहरी तरुणतरशृङ्गारलहरी। लहरीयुक्तगभीराभिः तरुणतरश्रृङ्गारलहरीगभीराभिः ।) F3/3 with their creative, profound and romantic poetry

  • वाग्भिः F3/3 through words.

  • विदधति (डुदाञ् धारणपोषणदानेषु +लट्) III/3 they ever impart

  • सतां 6/3 to the hearts of like minded courtiers

  • रञ्जनम् 2/1 pleasure

  • अमी M1/3 they.

  • हे भगवति, कवीन्द्राणां कतिचित् ये सन्तः चेतःकमलवनबालातपरुचिम् अरुणां भवतीं भजन्ते, अमी सन्तः विरिञ्चिप्रेयस्याः तरुणतरश्रृङ्गारलहरीगभीराभिः वाग्भिः सतां रञ्जनं विदधति।

  • O! Mother, Just as the morning Sun shine is to the lotuses, You are the illuminating morning twilight of the red dawn, to lotus hearts of the best of poets (their creativity). Those blessed good men who worship Thee, become dearest to Goddess Saraswati. By her grace, they ever impart pleasure and consummation to the hearts of like minded courtiers with their creative, profound and romantic poetry.


सवित्रीभिर्वाचां शशिमणिशिलाभङ्ग रुचिभिः
वशिन्याद्याभिस्त्वां सह जननि सञ्चिन्तयति यः ।
स कर्ता काव्यानां भवति महतां भङ्गिरुचिभिः
वचोभिर्वाग्देवीवदनकमलामोदमधुरैः ॥१७॥

  • सवित्रीभिः F3/3 with the Divine Mother

  • वाचां F6/3 of speech

  • शशिमणि-शिला-भङ्ग-रुचिभिः (शशिमणीनां शिला शशिमणिशिला। तस्या भंगः शशिमणिशिलाभंगः। तस्य रुचिः इव रुचि यासु तैः शशिमणिशिलाभङ्गरुचिभिः ) F3/3 with those who have the luster like that of the moon-stone slabs (marble blocks).

  • वशिनी-आद्याभिः (आदिः भवा आद्या। वशिनी आद्या यासां ताः वशिन्याद्याः। ताभिः।) F3/3 those who have Vashini at the foremost

  • त्वां 2/1 Thee

  • सह 0 along

  • जननि F1S/1 O Mother

  • सञ्चिन्तयति (सम् +चितिँ स्मृत्याम् +लट्) III/1 meditates

  • यः M1/1 one who

  • सः M1/1 he

  • कर्ता M1/1 creator/ poet

  • काव्यानां M6/3 of poetry

  • भवति (भू सत्तायाम् +लट्) III/1 becomes

  • महतां M6/3 of extraordinary/ of great poets

  • भङ्गि-रुचिभिः (भङ्गीनां रुचिभिः) F3/3 with the beauty, taste and wit/ tasteful variety of expressions

  • वचोभिः F3/3 with words

  • वाग्देवी-वदन-कमल-आमोद-मधुरैः (वाचां देवी वाग्देवी। वदनं कमलम् इव इति वदनकमलम्। वाग्देव्याः वदनकमले यः आमोदः, तेन मधुरैः/ वाग्देव्याः वदनकमले यः आमोदः तस्य मधुरस्य इव मधुरैः। ) M3/3 with those which are as sweet as the sweetness of fragrance of the lotus-face of Goddess Sarasvati.

  • हे जननि, शशिमणिशिलाभङ्गरुचिभिः वशिन्याद्याभिः सह त्वां यः सञ्चिन्तयति, सः भङ्गिरुचिभिः वाग्देवीवदनकमलामोदमधुरैः वचोभिः महतां काव्यानां कर्ता भवति।

  • O! Mother! You are in the company of Vasini (Lakshmi), the Goddess of speech (Savitri) and the Goddess of beauty (Rati) with the luster of the moon-stone slabs (marble blocks). The one, who, adores You in the company of the above powers, certain, he becomes the author of extra-ordinary poetry with the beauty, taste and wit of all time great poets and his works emanate the sweet fragrance of the lotus face of the goddess Saraswati.


तनुच्छायाभिस्ते तरुणतरणिश्रीसरणिभिः
दिवं सर्वामुर्वीमरुणिमनिमग्नां स्मरति यः ।
भवन्त्यस्य त्रस्यद्वनहरिणशालीननयनाः
सहोर्वश्या वश्याः कति कति न गीर्वाणगणिकाः ॥१८॥

  • तनु-छायाभिः (तनोः छायाभिः) F3/3 due to lustre of persona

  • ते 6/1 Thy

  • तरुण-तरणि-श्री-सरणिभिः (तरुणश्च असौ सूर्यश्च तरुणसूर्यः। श्रीः इव सरणिः यासां ताभिः) F3/3 due to that which has the lustre akin to that of the early morning sun

  • दिवं F2/1 heaven

  • सर्वाम् F2/1 entire

  • उर्वीम् F2/1 earth

  • अरुणिम-नि-मग्नां (नितरां मग्नां निमग्नाम्। अरुणिमनि निमग्नाम् अरुणिमनिमग्नाम्।) ever-immersed in red

  • /अरुणिमनि M7/1 in red मग्नां F2/1 immersed

  • स्मरति (स्मृ चिन्तायाम् +लट्) III/1 remembers

  • यः M1/1 one who

  • भवन्ति (भू सत्तायाम् +लट्) III/3 they [would] become

  • अस्य 6/1 for this meditator

  • त्रस्यत्-वन-हरिण-शालीन-नयनाः (त्रस्यतां वनहरिणानां शालीने नयने इव नयने यासां ताः) F1/3 those having their eyes resembling frightened forest deer.

  • सह 0 along

  • उर्वश्या (उर्वश् सह वर्तन्ते इति ) F3/1 with Urvashi

  • वश्याः F1/3 maids

  • कति 0 - कति 0 how many

  • 0 not

  • गी-र्वाण-गणिकाः (गीः एव वाणः यासां ताः गीर्बाणाः। ताः एव गणिकाः।) F1/3 celestial courtesans

  • हे भगवति, तरुणतरणिश्रीसरणिभिः ते तनुच्छायाभिः सर्वां दिवम् उर्वीं [] अरुनिमनिमग्नां स्मरति, अस्य कति कति गीर्वाणगणिकाः उर्वश्या सह त्रस्यत्वनहरिणशालीननयनाः वश्याः न भवन्ति।

  • O! Mother! He, who understands that all heaven and earth are ever immersed in the pink luster of Thy persona, akin to the luster of the freshly arisen Sun, to him, how many celestial courtesan maids along with Urvasi are not at his feet - with their eyes resembling frightened forest deer? (Indeed all such women are after him).


मुखं बिन्दुं कृत्वा कुचयुगमधस्तस्य तदधो
हरार्धं ध्यायेद्यो हरमहिषि ते मन्मथकलाम्
स सद्यः संक्षोभं नयति वनिता इत्यतिलघु
त्रिलोकीमप्याशु भ्रमयति रवीन्दुस्तनयुगाम् ॥१९॥

  • मुखं N2/1 face

  • बिन्दुं N2/1 Bindu

  • कृत्वा 0 having made

  • कुच-युगम् (कुचयोः युगम्) pair of breasts

  • अधः 0 below

  • तस्य N6/1 of that

  • तदधः (तस्य अधः) below that

  • हरार्धं (हरस्य अर्धम्) N2/1 female organs of generation

  • ध्यायेत् (ध्यै चिन्तायाम् विधिलिङ्) III/1 would meditate

  • यः M1/1 one who

  • हर-महिषि (हरस्य महिषि) F1S/1 O Queen of Hara.

  • ते 6/1 Thy

  • मन्मथकलाम् (मनमथस्य कलाम्) F2/1 manifestation of the Creative Force

  • सः M1/1 he

  • सद्यः 0 immediately

  • संक्षोभं M2/1 state of agitation

  • नयति (णीञ् प्रापणे +लट्) III/1 reduces/ causes to reach

  • वनिताः F2/3 women

  • इति 0 thus

  • अतिलघु 0 very easily

  • त्रि-लोकीम् (त्रयाणां लोकानां समाहारः।) F2/1 triad of three worlds.

  • अपि 0 also

  • आशु 0 swiftly

  • भ्रमयति (भ्रमुँ चलने +णिच् +लट्) III/1 causes to be deluded.

  • रवि-इन्दु-स्तन-युगाम् (रविश्च इन्दुश्च रवीन्दू। रवीन्दू एव स्तनौ रवीन्दुस्तनौ। तयोः युगं यस्याः सा रवीन्दुस्तनयुगा।) F2/1 She who has sun and the moon as her breasts.

  • हे हरमिषि, मुखं बिन्दुं कृत्वा, तस्य अधः कुचयुगं कृत्वा, तदधः हरार्धं कृत्वा, ते मन्मथकलाम् इति यः ध्यायेत्, सः सद्यः वनिताः संक्षोभं अतिलघु नयति। सः रवीन्दुस्तनयुगां त्रिलिकीम् अपि अशु भ्रमयति।

  • O! Queen of Hara! He, who meditates on Thee as manifestation of the Creative Force, having imagined the Bindu as Thy face, Thy bosom as the middle part, and Thy female organs of generation below that (signifying you as force of the laya, sthiti and srusti), he immediately reduces all women into a state of agitation very easily. He even deludes quickly, the maiden named Trilokee (three worlds) who has the sun and moon as her pair of breasts.


किरन्तीमङ्गेभ्यः किरणनिकुरुम्बामृतरसं
हृदि त्वामाधत्ते हिमकरशिलामूर्तिमिव यः ।
स सर्पाणां दर्पं शमयति शकुन्ताधिप इव
ज्वरप्लुष्टान् दृष्ट्या सुखयति सुधाधारसिरया ॥ २० ॥

  • किरन्तीम् F2/1  pouring out

  • अङ्गेभ्यः 5/3 from the limbs

  • किरण-निकुरुम्ब-अमृतरसं (किरणानां निकुरुम्ब। तस्माद् उत्पन्नः यः अमृतरसः सः किरणनिकुरुम्बामृतरसः।) M2/1 multitude of rays of nectar

  • हृदि N7/1 in the heart

  • त्वाम् F2/1 Thee

  • आधत्ते (+डुधाञ् धारणपोषणयो +लट्)  III/1 one holds/ meditates

  • हिम-कर-शिला-मूर्तिम् (हिमः करः यस्यः सः हिमकरः। हिमकरस्य शिला हिमकरशिला। तस्याः मूर्तिः हिमकरशिलामूर्तिः।) F2/1 as the image of the moonstone

  • इव 0 like

  • यः M1/1 one who

  • सः M1/1 he

  • सर्पाणां M6/3 of snakes

  • दर्पं M2/1 pride

  • शमयति (शमुँ उपरमे +णिच् +लट्) III/1 destroys/ subdues/ causes to be quietened

  • शकुन्ताधिपः (शकुन्तानां अधिपः।) M1/1 Lord of birds/ Garuda

  • इव 0 like

  • ज्वरप्लुष्टान् (ज्वरेण प्लुष्टान्) M2/3 those scorched by fever

  • दृष्ट्या F3/1 by a [mere] look

  • सुखयति (सुखँ तत्क्रियायाम् +णिच् +लट्) III/1 causes to be comforted

  • सुधा-आधार-/धार-सिरया (सुधायाः धारा सुधाधारा।

    • सुधाधारभूता सिरा

    • /सुधाधारयुक्ता सिरा

    • /सुधा धारात्मिका यस्यां सिरां सा सिरा

    सुधाधारासिरा।) F3/1 with the energy channel overflowing with nectar

  • हे भगवति, यः अङ्गेभ्यः किरणनिकुरुम्बामृतरसं किरन्तीं हिमकरशिलामूर्तिम् इव हृदि त्वां आधत्ते, सः शुकन्ताधिप इव दृष्या सर्पानां दर्पं शमयति, सुधाधारसिरया दृष्ट्या ज्वरप्लुष्टान् सुखयति।

  • O! Mother! He, who fixes Thee in his heart as the scintillation emanating, like nectar, from the various parts of Thy persona, like the multitude of cool rays from an idol made up of moon-stone (marble), becomes powerful like Garutman, the lord of birds – who destroys the pride of serpents. Such a devoted man comforts those scorched by fever by his mere look, endowed as if he is with the vessel overflowing with Amrita.

No comments: