चतुर्भिः
श्रीकण्ठैः शिवयुवतिभिः
पञ्चभिरपिप्रभिन्नाभिः
शम्भोर्नवभिरपि
मूलप्रकृतिभिः।चतुश्चत्वारिंशद्वसुदलकलाश्रत्रिवलय-त्रिरेखभिः
सार्धं तव शरणकोणाः परिणताः
॥११॥
-
चतुर्भिः 3/3 with four
-
श्री-कण्ठैः (श्रीः कण्ठे यस्य तैः) 3/3 with Shiva [triangles]
-
शिव-युवतिभिः (शिवस्य युवतिभिः) 3/3 with Shakti [triangles]
-
पञ्चभिः 3/3 with five
-
अपि 0 also
-
प्रभिन्नाभिः N3/3 with those distinct
-
शम्भोः M5/1 from Shiva
-
नवभिः 3/3 with nine
-
अपि 0 also
-
मूल-प्रकृतिभिः (मूला च असौ प्रकृतिश्च मूलाप्रकृतिः।) 3/3 with basic causal force
-
चतुश्चत्वारिंशत् 1/3 forty-four
-
वसु-दल-कला-अश्र-त्रि-वलय-त्रि-रेखभिः (वसूनि दलानि यस्य तत् वसुदलम्। कलाः अश्राः यस्य तत् कलाश्रम्। त्रयाणां वलानां समाहारः त्रिवलयम्।) 3/3 with eight-petalled lotus and 16-petalled lotus with three circles around and three lines
-
सार्धं together with
-
तव Thy
-
शरण-कोणाः(शरणञ्च कोणाश्च) 1/3 angles of [Thy] abode
-
परिणताः 1/3 counted. ॥११॥
-
हे भगवति, चतुर्भिः श्रीकण्ठैः शंभोः [सकाशात्] प्रभिन्नाभिः पञ्चभिः शिवयुवतिभिः नवभिः अपि मूलप्रकृतिभिः तव शरणकोणाः वसुदलकाश्रत्रिवलयत्रिरेखाभिः सार्धं, परिणताः सन्तः चतुश्चत्वारिंशत् भवति।
-
The angles of the Thy abode (the Sricakra) which is made up of the nine mulaprakritis or basic triangles (the nine primary causative forces of the universe) consisting of the four distinct Siva triangles (with apex upwards), and the five distinct Sakti-triangles (with apex downwards) kept apart from the former by the Bindu, with the eight-petalled lotus, the lotus of sixteen petals with the three circles around and the three lines, are counted as forty-three (forty-four).
त्वदीयं
सौन्दर्यं तुहिनगिरिकन्ये
तुलयितुंकवीन्द्राः
कल्पन्ते कथमपि
विरिञ्चिप्रभृतयः।यदालोकौत्सुक्यादमरललना
यान्ति मनसातपोभिर्दुष्प्रापामपि
गिरिशसायुज्य-पदवीम्
॥ १२ ॥
-
त्वदीयं N2/1 Thy
-
सौन्दर्यं N2/1 beauty
-
तुहिन-गिरि-कन्ये (तुहिनप्रधानः गिरिः तुहिनगिरिः। तस्य कन्या तुहिनगिरिकन्या।) F1S/1 O daughter of the snow clad mountain
-
तुलयितुं 0 to compare
-
कवीन्द्राः (कवीणाम् इन्द्राः।) M1/3 best of thinkers
-
कल्पन्ते (कृपूँ सामर्थ्ये लट्) III/3 are capable
-
कथमपि 0 somehow with great pain
-
विरिञ्चि-प्रभृतयः (विरिञ्चिः प्रभृतिः येषां ते विरिञ्चिप्रभृतयः।) Brahma, etc
-
यत् 0 due to which reason
-
आलोकौत्सुक्यात् (आलोके औत्सुक्यम् आलोकौत्सुक्यम्। तस्मात् हेतोः। अथवा आलोकौत्सुक्यम् अवलम्ब्य [ल्यब्लोपे] आलोक्यौत्सुक्यात्) having resorted to the eagerness to see [Thy] splendour
-
अमर-ललनाः (अमराणां ललनाः/ अमरे लोके ललनाः।) F1/3 celestial damsels
-
यान्ति (या प्रापणगत्योः लट्) III/3 they attain
-
मनसा N3/1 through the mind
-
तपोभिः N3/3 through austerities
-
दुष्प्रापाम् F2/1 difficult to attain
-
अपि 0 even
-
गिरिश-सायुज्य-पदवीम् (गिरिशेन सह सायुज्यं गिरिशसायुज्यम्। तदेव पदवी तस्य पदवी वा गिरिशसायुज्यपदवी।) F2/1 state of attaining oneness with Shiva. ॥ १२ ॥
-
हे तुहिनगिरिकन्ये, त्वदीयं सौन्दर्यं तुलयितुं कवीन्द्राः विरिञ्चिप्रभृतयः कथमपि कल्पन्ते। यत् (यस्मात्) अमरललनाः आलोकौतुक्यात् तपोभिः दुष्प्रापाम् अपि गिरिशसायुज्यपदवीं मनसा यान्ति।
-
Oh, Daughter of the snow-clad Mountain (Himalaya)! The best of thinkers — Brahma and others — are at great pains to find a suitable comparison to Thy beauty. Even the celestial damsels, out of great eagerness to get a glimpse of Thy splendour, mentally attain a condition of absorption into Siva, which is unobtainable even by penance.
नरं
वर्षीयांसं नयनविरसं नर्मसु
जडंतवापाङ्गालोके
पतितमनुधावन्ति शतशः।गलद्वेणीबन्धाः
कुचकलशविस्रस्तसिचयाःहठात्त्रुट्यत्काञ्च्यो
विगलितदुकूला युवतयः॥१३॥
-
नरं M2/1 man
-
वर्षीयांसं M2/1 old
-
नयन-विरसं (विगतः रसाः यस्मात् सः विरसः। नयनाभ्यां विरसं नयनविरसम्।) M2/1 far advanced in age
-
नर्मसु 7/3 in amorous sports
-
जडं M2/1 incapable
-
तव 6/1 of Thy
-
अपाङ्ग-आलोके (अपाङ्गस्य आलोके) M7/1 in a side glance
-
पतितम् M2/1 fallen
-
अनुधावन्ति (अनु +धावुँ गतिशुद्ध्य +लट्) III/3 run after
-
शतशः 0 in hundreds
-
गलत्-वेणी-बन्धाः (गलन्तः वेणीनां बन्धाः यासां ताः) F1/3 those whose braids of hair are loosening
-
कुच-कलश-विस्रस्त-सिचयाः (कुचौ इमौ कलशौ इव कुचकुलशौ। कुचकलशाभ्यां विस्रस्ताः सिचयाः यासां ताः) F1/3 those whose clothes over the breasts are falling down
-
हठात् M5adv/1 suddenly
-
त्रुट्यत्काञ्च्यः (त्रुट्यत्यः काञ्च्याः यासां ताः त्रुट्यत्काञ्च्यः) F1/3 those whose girdles are breaking
-
विगलित-दुकूलाः (विगलिताः दुकूलाः यासां ताः) F1/3 those whose silken robes are slipping down
-
युवतयः F1/3 youthful women.
-
हे भगवति, वर्षीयांसं नर्मसु जडं, तव अपाङ्गालोके पतितं नरं, शतशः युवतयः गलद्वेणीबन्धाः कुचकलशविस्रस्तसिचयाः हठात् त्रुट्यत्काञ्च्यः विगलितदुकूलाः [सत्यः] अनुधावन्ति।
-
Youthful maidens, with their braids of hair loosened and dropping, the garments over their breasts falling down , their girdles breaking off suddenly and their silken robes slipping down, run in hundreds after a man, who is far advanced in years, uncouth to look at, and incapable of amorous sport, but has fallen within the ambit of Thy side-glances.
क्षितौ
षट्पञ्चाशत् द्विसमधिकपञ्चाशदुदकेहुताशे
द्वाषष्टिः चतुरधिकपञ्चाशदनिले।दिवि
द्विःषट्त्रिंशत् मनसि च
चतुःषष्टिरिति येमयूखास्तेषामप्युपरि
तव पादाम्बुजयुगम्॥१४॥
-
क्षितौ F7/1 in [Muladhara comprised of/ represented by] earth
-
षट्पञ्चाशत् (षडधिका पञ्चाशत् इति शाकपार्थिवः/ मध्यमपदलोपी।) F1/3 fifty-six
-
द्विसमधिकपञ्चाशत् (सम्यक् अधिका समधिका। द्वे च एते समधिका च द्विसमधिका। द्विसमधिका पञ्चाशत् द्विसमधिपञ्चाशत्) F1/3 fifty-two
-
उदके M7/1 in [Svadhishthana comprised of/ represented by] water
-
हुताशे (हुतम् अश्नाति इति हुताशः। तस्मिन्।) M7/1 in [Manipura comprised of/ represented by] fire
-
द्वाषष्टिः (द्वाधिका षष्टिः द्वाषष्टिः।) M1/3 sixty-two
-
चतुरधिकपञ्चाशत् (चतुरधिका पञ्चाशत् चतुरधिकपञ्चाशत्) M1/3 fifty-four
-
अनिले M7/1 in [Anahata comprised of/ represented by] air
-
दिवि MN7/1 in [Vishuddhi comprised of/ represented by] space
-
द्विःषट्त्रिंशत् (षडधिका त्रिंशत् षट्त्रिंशत्। द्विः षट्त्रिंशत् द्विःषट्त्रिंशत्।) N1/3 twice of thirty-six, seventy-two
-
मनसि N7/1 in [Ajna comprised of/ represented by] the mind
-
च 0 and
-
चतुःषष्टिः (चतुरधिका षष्टिः चतुःषष्टिः।) M1/3 sixty-four
-
इति 0 thus
-
ये 1/3 those who
-
मयूखाः M1/3 rays
-
तेषाम् M6/3 for them
-
अपि 0 even
-
उपरि 0 above
-
तव 6/1 Thy
-
पादाम्बुजयुगम् (अम्बुनि जायेते इति अम्बुजम्। पादौ इमौ अमुबुदौ इव पादाम्बुजौ। पादाम्बुजयोः युगम्।) N2/1 pair of lotus-feet.
-
हे भगवति, क्षितौ षट्पञ्चाशत्, उदके द्विसमधिकपञ्चाशत्, हुताशे द्वाषष्टिः, अनिले चतुरधिकपञ्चाशत्, दिवि द्विःषट्त्रिंशत्, मनसि चतुःषष्टिः च इति [संख्यकाः] ये मयूखाः भवन्ति, तेषाम् अपि उपरि तव पादाम्बुजयुगं वर्तते।
-
Fifty-six rays shine in the Muladhara comprised of the element of Earth (Prthvi tattva), fifty-two rays shine in the Manipura of the essence of Water (Apatattva), sixty-two in the Svadishthana (the Agni or Tejas tattva) being of the nature of Fire, fifty-two in the Anahata of the character of Air (Vayu-tattva); seventy-two rays in the Visuddhi of the form of Ether (Akasa-tattva) and sixty-four in the Ajna (manas-tattva). Far above all these shine the pair of Thy lotus feet.
शरज्ज्योत्स्नाशुद्धां
शशियुतजटाजूटमकुटांवरत्रासत्राणस्फटिकघटिकापुस्तककराम्।सकृन्न
त्वा नत्वा कथमिव सतां सन्निदधतेमधुक्षीरद्राक्षामधुरिमधुरीणाः
फणितयः॥१५॥
-
शरद्-ज्योत्स्ना-शुद्धां (शरदि/शरदः ज्योत्स्ना शरज्ज्योत्स्ना। शरज्ज्योत्स्ना इव शुद्धाम्।) F2/1 She who is bright like the autumnal moonlight
-
शशि-युत-जटा-जूट-मकुटां (शशिना युतः जटानां जूटः एव मकुटः यस्याः सा शशियुतजटाजूटमकुटा।) F2/1 She whose head is adorned with a crown, whose matted hair-locks have a crescent-moon on them/ She who has a moon as a crown on the matted hair-locks.
-
वर-त्रास-त्राण-स्फटिक-घटिका-पुस्तक-कराम् / वर-त्रास-त्राण-स्फटिक-घुटिका-पुस्तक-कराम् (त्रासात् त्राणं त्रासत्राणम्। स्फटिकस्य घुटिका स्फटिकघुटिका। वरश्च त्रासत्राणं च स्फटीकघुटिका च पुस्तकं च वरत्रासत्राणस्फटिकघुटिकापुस्तकानि। तैः युक्ता करा वरत्रासत्राणस्फटिकघुटिकापुस्तककराम्।) F2/1 She whose four hands hold the poses of bestowing boons and affording protection from fear, a string of crystal beads (sphatika) and a book
-
सकृत् 0 once
-
न 0 not
-
त्वा F2/1 Thee
-
नत्वा 0 having saluted
-
कथम् 0 how
-
इव 0 as
-
सतां M6/3 for righteous people
-
सन्निदधते (सम्+नि+डुधाञ् धारणपोषणयोः+लट्) III/3 emanate from/ rest on [the tounge]
-
मधु-क्षीर-द्राक्षा-मधुरि-मधुरीणाः (मधु च क्षीरं च द्राक्षा च मधुक्षीरद्राक्षाः। तेषां मधुरिमा। तत्र धुरीणाः।) F1/3 capable w.r.t. sweetness as that of honey, milk and grapes.
-
फणितयः F1/3 speech/ words.
-
हे भगवति, शरज्ज्योत्स्नाशुद्धां शसियुतजटाजूटमकुटां वरत्रासत्राणस्फटिकघटिकापुस्तककरां त्वा सकृन्नत्वा, सतां मधुक्षीरद्राक्षामधुरिमधुरीणाः फणितयः कथम् इव न सन्निदधते।
-
How will not words (speech) sweet as honey, milk and grapes, emanate from the tongue of such as have bowed even once before Thee, whose form is as clean and bright as the moon-light of the Saradrutu (autumnal moon) whose head is adorned with a crown, whose matted hair-locks have a crescent-moon on them and whose four hands hold the poses of bestowing boons and affording protection from fear, a string of crystal beads (sphatika) and a book.
No comments:
Post a Comment