ॐ
सौन्दर्यलहरी
शिवः
शक्त्या युक्तो यदि भवति शक्तः
प्रभवितुंन
चेदेवं देवो न खलु कुशलः
स्पंदितुमपि।अतस्त्वामाराध्यां
हरिहरविरिंचादिभिरपिप्रणंतुं
स्तोतुं वा कथमकृतपुण्यः
प्रभवति॥
१ ॥
-
शिवः M1/1 Parameshvara
-
शक्त्या F3/1 with Shakti
-
युक्तः M1/1 endowed
-
भवति III लट्/1 becomes
-
शक्तः M1/1 capable
-
प्रभवितुं 0 to create
-
न 0 not
-
चेत् 0 if
-
एवं 0 so
-
देवः M1/1 effulgent Lord
-
न 0 not
-
खलु 0 indeed
-
कुशलः M1/1 capable
-
स्पंदितुम् 0 to stir
-
अपि 0 even
-
अतः 0 therefore
-
त्वाम् F2/1 Thee
-
आराध्यां F2/1 One adored
-
हरि-हर-विरिंचादिभिः (हरिश्च हरश्च विरिञ्चश्च हरिहरविरिञ्चाः इति द्वन्द्वः। ते आदि येषां ताभिः हरिहरविरिञ्चादिभिः इति बहुव्रीहिः।) M3/3 by Vishu, Shiva, Brahma, etc
-
अपि 0 even
-
प्रणतुं 0 to worship
-
स्तोतुं 0 to praise
-
वा 0 or
-
कथम् 0 how
-
अकृतपुण्यः (न कृताः पुण्याः येन स इति बहुव्रीहिः।) M1/1 one bereft of merit
-
प्रभवति III-लट्/1 could be.
-
शक्त्या युक्तः शिवः प्रभवितुं शक्तः भवति। एवं न चेत्, [सः] देवः स्पंदितुम् खल्वपि कुशलो न भवति। अतः कथम् अकृतपुण्यः हरिहरविरिंचादिभिरपि आराध्यां त्वां स्तोतुं प्रणतुं वा प्रभवति॥१॥
-
Paramesvara becomes capable of creating the Universe, only when united with Sakti (Thee), but otherwise (when not joined with Thee), He is incapable of even a stir. How then could one, who has not acquired merit (Punya — in this and the previous births) worship Thee, or at least praise Thee, who is adored even by Vishnu, Siva, Brahma and others?
तनीयांसं
पांसुं तव चरण-पङ्केरुह-भवंविरिञ्चिः
सञ्चिन्वन् विरचयति लोकानविकलम्
।विरिञ्चिः
सञ्चिन्वन् विरचयति लोकानविकलम्
।वहत्येनं
शौरिः कथमपि सहस्रेण शिरसांहरः
सङ्क्षुभ्यैनं
भजति भसितोद्धूल नविधिम्॥
२
॥
-
तनीयांसं N1/1 microscopic
-
पांसुं N1/1 dust
-
तव 6/1 Thy
-
चरण-पङ्केरुह-भवं (पङ्के रोहति इति पङ्केरुहम्। इति अलुक् उपपद तत्पुरुषः। चरणौ एव पङ्केरुहौ चरणपङ्केरुहौ इति कर्मधारयः। ताभ्यां भवं चरणपङ्केरुहभवम् इति पञ्चमीतत्पुरुषः।) N1/1 fallen from the lotus-feet
-
विरिञ्चिः M1/1 Brahma
-
सञ्चिन्वन् M1/1 collecting
-
विरचयति III लट्/1 creates
-
लोकान् M2/1 worlds
-
अविकलम् (न विकलम् अविकलम् इति नञ्तत्पुरुषः।) N2adv/1 in regular order (intact)
-
वहति (वह् प्रापणे +लट्) III/1 carries
-
एनं N2/1 this
-
शौरिः M1/1 Vishnu
-
कथमपि 0 somehow
-
सहस्रेण N3/1 with a thousand
-
शिरसां N6/1 of heads
-
हरः M1/1 Shiva
-
सङ्क्षुभ्य 0 having put great effort
-
एनं N2/1 this
-
भजति III लट्/1 resorts to
-
भसितोद्धूलनविधिम् (भसितस्य उद्धूलनं भसितोद्धूलनम् इति षष्ठीतत्पुरुषः। तदेव विधिः भसितोद्धूलनविधिः इति कर्मधारय। षष्ठीतत्पुरुषः।) M2/1 act of covering with dust (Vibhuti), reducing to ashes.
-
तव चरणपङ्केरुहभवं तनीयांसं पांसुं सञ्चिन्वन् विरिञ्चिः लोकान् अविकलं विरचयति। शौरिः एनं कथमपि सहस्रेण शिरसां संक्षुभ्य वहति। हरः एनं भसितोद्धूलनविधिं भजति॥२॥
-
Collecting microscopic particles of the dust falling from Thy lotus-feet, Brahma creates the worlds in regular order (intact), Vishnu (in the form of Adisesha) bears them somehow with great effort (might) though with thousand heads and Siva reducing the particles into ashes be-smears his body with them (Vibhuti).
अविद्यानामन्तस्तिमिरमिहिरद्वीपनगरीजडानां
चैतन्यस्तबकमकरन्दश्रुतिझरी
।दरिद्राणां
चिन्तामणिगुणनिका जन्मजलधौनिमग्नानां
दंष्ट्रा मुररिपुवराहस्य
भवति॥ ३
॥
-
अविद्यानाम् (नास्ति विद्या यस्य सः अविद्यः।) M6/1 of the ignorant
-
अन्तस्-तिमिर-मिहिर-द्वीप-नगरी (अन्तः तिमिरः अन्तस्तिमिरः। द्वीपः एव नगरी द्वीपनगरी। मिहिराणां द्वीपनगरी मिहिरद्वीपनगरी। अन्तस्तिमिरस्य मिहिरद्वीपनगरी अन्तस्तिमिरमिहिरद्वीपनगरी।) F1/1 island-city of suns for the inner-darkness [that dispels it]
/अन्तस्-तिमिर-मिहिर-उद्दीपन-करी (अन्तः तिमिरः अन्तस्तिमिरः। तस्य मिहिरः अन्तस्तिमिरमिहिरः। तस्य उद्दीपनम् अन्तस्तिमिरमिहिरोद्दीपनम्। तं करोति इति अन्तस्तिमिरमिहिरोद्दीपनकरी।) F1/1 one who causes the rise of the sun to dispel the inner-darkness
-
जडानां M6/3 for dull-witted
-
चैतन्य-स्तबक-मकरन्द-श्रुति-झरी (श्रुतिः विद्या एव झरी श्रुतिझरी। [वृक्ष इव] चैतन्यस्य स्तबकः चैतन्यस्तबकः। तस्मिन् तस्य वा मकरन्दः चैतन्यस्तबकमकरन्दः। तेषां श्रुतिझरी चैतन्यस्तबकमकरन्दश्रुतिझरी।) F1/1 knowledge-river of fragrance emanating from bunch of flowers of tree of consciousness.
-
दरिद्राणां M6/3 to those in the grip of chill penury
-
चिन्तामणि-गुणनिका (चिन्तामणिनां गुणनिका।) F1/1 neckace of cintAmaNi gems
-
जन्मजलधौ (जन्मानां जलधिः जन्मजलधिः।) M7/1 in the ocean of earthly existence/ births (and death)
-
निमग्नानां M6/3 to those drowned
-
दंष्ट्रा F1/1 tusk
-
मुररिपुवराहस्य (मुरस्य रिपुः मुररिपुः। सः एव वराहः तस्य मुररिपुवराहस्य।) M6/1 of the Varaha incarnation of Vishnu
-
भवति III-लट्/1 is.
-
[पांसु] अविद्यानाम् अन्तस्तिमिरमिहिरद्वीपनगरी, जडानां चैतन्यस्तबकमकरन्दश्रुतिझरी, दरिद्राणां चिन्तामणिगुणनिका , जन्मजलधौ निमग्नानां मुररिपुवराहस्य दंष्ट्रा च भवति।
-
/हे भवति, त्वम् अविद्यानाम् अन्तस्तिमिरमिहिरद्वीपनगरी असि। जडानां चैतन्यस्तबकमकरन्दश्रुतिझरी असि। दरिद्राणां चिन्तामणिगुणनिका असि। जन्मजलधौ निमग्नानां मुररिपुवराहस्य दंष्ट्रा असि।
-
The particles of dust of Thy Lotus feet serve to remove the inner darkness of the ignorant (those who have not attained Tatvajnana or divine knowledge). In other words, the dust is the sun that dispels the inner darkness of the ignorant or the worldly-minded. The speck of dust is a flood of fragrance emanating from the bunch of flowers of the Kalpaka tree of caitanya or clear consciousness, awakening the unknowing or dull-witted. To those in the grip of chill penury, they (the dust particles) are a string of gems of the Cintamani variety. And to those drowned in the ocean of earthly existence (Samsara — the ocean of births and deaths) that dust becomes the tusk of the wild boar of Muraripu i.e. Vishnu who incarnated as Varaha.
त्वदन्यः
पाणिभ्यामभयवरदो दैवतगणःत्वमेका
नैवासि प्रकटित-वराभीत्यभिनया
।भयात्
त्रातुं दातुं फलमपि च
वांछासमधिकंशरण्ये
लोकानां तव हि चरणावेव निपुणौ
॥ ४ ॥
-
त्वदन्यः M1/1 other than you
-
पाणिभ्याम् M3/2 by hands
-
अभयवरदः (अभयं च वरं च अभयवरौ। अभयवरौ ददाति इति अभयवरदः।) M1/1 one who grants protection/ fearlessness and desires/ boons
-
दैवतगणः (देवता एव दैवता इति स्वार्थे अण्। दैवतानां गणः दैवतागणः।) M1/1 group of gods
-
त्वम् 1/1 Thou
-
एका F1/1 alone
-
न 0 not
-
एव 0 indeed
-
असि II-लट्/1 you are
-
प्रकटितवराभीत्यभिनया (वरश्च अभीतिश्च वराभीती। प्रकटिते वराभीती अभिनयौ यस्याः तया प्रकटितवराभीत्यभिनया।) F1/1 one who has manifested gestures to vouchsafe protection and grant desires
-
भयात् N5/1 from fear
-
त्रातुं 0 to protect
-
दातुं 0 to grant
-
फलम् N2/1 result
-
अपि 0 even
-
च and
-
वांछासमधिकं (वांछायाः समधिकं तं वांछासमधिकम्।) N2/1 more than desired
-
शरण्ये F1S/1 O refuge
-
लोकानां N6/3 of all worlds
-
तव 6/1 Thy
-
हि 0 because
-
चरणौ N1/2 feet
-
एव indeed
-
निपुणौ N1/2 powerful.
-
हे लोकानां शरण्ये, त्वदन्यः दैवतगणः पाणिभ्याम् अभयवरदः भवति। त्वम् एव एका प्रकटितवराभीत्यभिनया न असि। तव चरणौ हि भयात् त्रातुं अपि च वांछासमधिकं फलं दातुं निपुणौ भवतः॥४॥
-
Thou, the refuge of all the worlds! All Devas (gods) except Thee, vouchsafe protection to the devotees and grant their desires by gestures of their hands. Thou alone doth not show forth the varada and abhaya (granting and protection) gestures. It is so because Thy feet are by themselves powerful to protect those in the grip of fear and grant more than what is desired for by devotees.
हरिस्त्वामाराध्य
प्रणतजनसौभाग्यजननींपुरा
नारी भूत्वा पुररिपुमपि
क्षोभमनयत्।स्मरोऽपि
त्वां नत्वा रतिनयनलेह्येन
वपुषामुनीनामप्यन्तः
प्रभवति हि मोहाय महताम् ॥५॥
-
हरिः M1/1 Vishnu
-
त्वाम् F2/1 Thee
-
आराध्य 0 having worshipped
-
प्रणतजनसौभाग्यजननीं (प्रणताश्च जनाश्च प्रणतजनाः इति कर्मधारयः। सौभाग्यानां जननी सौभाग्यजननी इति षष्ठीतत्पुरुषः। प्रणतजनानां सोभागयजननी तां प्रणतजनसौभाग्यजननी इति षष्ठीतत्पुरुषः। ताम्।) F2/1 bestower of prosperities on those who reverentially bow/ salute
-
पुरा F1/1 - नारी F1/1 woman in an ancient past
-
भूत्वा 0 having become
-
पुररिपुम् M2/1 Shiva
-
अपि 0 even
-
क्षोभम् M2/1 - अनयत् (नीञ् प्रापणे लङ्) III/1 impassioned
-
स्मरः M1/1 Kama
-
अपि 0 also
-
त्वां F2/1 Thou
-
नत्वा 0 having saluted
-
रतिनयनलेह्येन (रतेः नयनौ रतिनयनौ। तयोः लेह्यः [वपुः] रतिनयनलेह्यम्। तेन) N3/1 with that [bodily form] which is attractive to the eyes of Rati
-
वपुषा N3/1 with a bodily form
-
मुनीनाम् M6/3 of sages
-
अपि 0 also
-
अन्तः N1/1 mind
-
प्रभवति III-लट्/1 capable to provoke
-
हि 0 indeed
-
मोहाय 4/1 towards passion/ delusion
-
महताम् M6/3 of great. ॥५॥
-
प्रणतजनसौभाग्यजननीं त्वाम् आराध्य, हरिः पुरा नारी भूत्वा, पुरुरिपुम् अपि क्षोभमनयत्। स्मरोऽपि त्वां नत्वा महतां मुनीनां अपि रतिनयनलेह्येन वपुषा मोहाय हि प्रभवति।
-
Once Vishnu having worshipped Thee — the bestower of all prosperity on those who worship Thee (through mind, speech and body) – concentrated on Thy Divine Form – and assuming the form of a woman impassioned even Siva, (the Controller of all senses, the destroyer of the three cities and the enemy of Kama). Has not Smara (Kama, the God of Love) because of having bowed before Thee, obtained a personality, pleasingly attractive to the eyes of Rati (his beloved) and become capable of generating passion even in the minds of great sages.
No comments:
Post a Comment