Brahmatattvaprakashika, a vritti on Brahmasutras by Bhagavan Sadashivabrahmendra 1.1

 

श्रीसदाशिवब्रह्मेन्द्रविरचिता

॥ब्रह्मतत्त्वप्रकाशिका॥

ब्रह्मसूत्रवृत्तिः॥


आम्नायान्तैकसंसिद्धमादिमध्यान्तवर्जितम्।

आनन्दघनमापूर्णमात्मज्योतिरुपास्महे॥१॥

नमस्त्रय्यन्तकान्तारविहारैकपटीयसे।

वादिमत्तेभसंहर्त्रे व्यासकेसरिणे सते॥२॥

स्तुवन्मोहतमस्तोमभानुभावमुपेयुषः।

स्तुमस्तान्भगवत्पादान्भवरोगभिषग्वरान्॥३॥

यद्वाणीमणिध्वस्ता मन्मोहध्वान्तसंततिः।

श्रीगुरून्भावयामस्तांस्त्रय्यन्ताम्बुजभास्करान्॥४॥

श्रीमद्देशिकपादाब्जपरिचर्याबलादहम्।

भाष्यानुगां ब्रह्मसूत्रवृत्तिं कुर्वे यथामति॥५॥



॥प्रथमोध्यायः॥

॥समन्वयः॥


इह खलु भगवान्बादरायणः प्रेक्षावत्प्रवृत्त्यौपयिकम् आपाततस्त्रय्यन्तवचोभिः प्रतिपन्नमनुबन्धजातं न्यायतो निर्णेतुमिदमारचयाञ्कार—

... जिज्ञासाधिकरणम्।

अथातो ब्रह्मजिज्ञासा॥१..१॥

अत्र अथशब्देन साधनचतुष्टयसम्पत्त्यानन्तर्यमुच्यते। अतश्शब्देन साधनचतुष्टयस्य सम्भावना। 'ब्रह्मजिज्ञासा' इत्यनेन अज्ञातत्वेन विषयत्वम् ज्ञातत्वेनप्रयोजनत्वम् ब्रह्मण उक्तं भवति। एवञ्च प्रेक्षावत्प्रवृत्त्यङ्गभूताधिकार्यादिसमर्पकत्वेन समन्वयाद्यखिलविचारोपोद्धातत्वात् आदावस्य सूत्रस्य सङ्गतिः। विचारविषयवेदान्तवाक्यैः स्वार्थनिर्णयायास्यापेक्षणात् श्रुतिसङ्गतिः। एवं सर्वेषां सूत्राणां श्रुतिसङ्गतिर्द्रष्टव्या। विशेषतो ब्रह्मपरवाक्यतात्पर्यनिर्णायकन्यायसूचकत्वात् ब्रह्मविचारात्मकशास्त्रसङ्गतिः। एवमग्रेऽपि शास्त्रसङ्गतिरूह्या। 'अथातो ब्रह्मजिज्ञासा' इत्यादिभिः सूत्रैः सर्वे वेदान्ता ब्रह्मपरा इति समन्वयप्रतिपादनात् तेषाम् आध्यायं समन्वयाध्यायसङ्गतिः। प्रथमपादस्पष्टब्रह्मलिङ्गानां वाक्यानां विचार्यत्वात् आपादं पादसङ्गतिः। प्राथम्यादस्यधिकरणस्य नाधिकरणसङ्गतिः। उत्तराधिकरणसङ्गतिस्तु तस्यैवानेनेति नास्योच्यते।

पूर्वपक्षे विचारानारम्भादुपायान्तरसाध्या मुक्तिः। सिद्धान्ते तु तदारम्भसम्भवात् तदधीनज्ञानसिद्धेस्तेनैव मुक्तिरिति फलभेदः। अत्र वेदान्तवाक्यविचारो विषयः। स न कर्तव्यः कर्तव्यो वेति विषयप्रयोजनसम्भवासम्भवाभ्यां सन्देहे, यद्धि सन्दिग्धं सप्रयोजनं तस्य विचारविषयत्वम्। ब्रह्मणस्तु स्फुटतराहम्प्रत्ययालम्बनत्वेन असन्दिग्धत्वात् तज्ज्ञानान्मुक्तिलक्षणप्रयोजनाभावाच्च न विचारविषयत्वम्। अतोऽसम्भावितविषयादिमान् वेदान्तवाक्यविचारो न कर्तव्य इति पूर्वः पक्षः। सिद्धान्तस्तु— श्रुतिगम्यब्रह्मात्मतत्त्वस्य अहम्प्रत्ययानालम्बनत्वेन सन्दिग्धत्वात् तत्साक्षात्कारादनर्थनिवृत्तिलक्षणमोक्षसम्भवात् सम्भावितविषयादिमान् वेदान्तवाक्यविचारः कर्तव्यः—इति। सूत्रार्थस्तु— अत्र सूत्रे अनुवादकत्वेन आनर्थक्यपरिहाराय पुरुषप्रवृत्तये च 'कर्तव्या' इति पदमध्याहर्तव्यम्। नन्वेवमप्यानर्थक्यं तदवस्थमेव, प्रकृतिप्रत्ययार्थयोर्ज्ञानेच्छयोः कर्तव्यतानन्वयादिति चेत्, नैष दोषः, अत्र प्रकृत्या फलीभूतं ब्रह्मापरोक्षज्ञानम् अजहल्लक्षणया कथ्यते। सन्प्रत्ययेन इच्छासाध्यो विचारो जहल्लक्षणया जेगीयते। अर्थादपरोक्षज्ञानस्य मोक्षसाधनत्वं वेदान्तवाक्यानां विचार्यत्वं च लभ्यते। एवञ्च श्रुत्यर्थाभ्यां साधनचतुष्टयसम्पन्नस्याधिकारिणो मोक्षसाधनब्रह्मापरोक्षज्ञानाय वेदान्तवाक्यविचारः कर्तव्य इति विचारे कर्तव्यतान्वयसम्भवात्— इति।


नन्वित्थं ब्रह्मणस्त्रय्यन्तविचारमुखेन विचार्यत्वमवादि, तदसारम्। लक्षणाभावेन स्वरूपस्यैवासिद्धेः इत्याक्षिप्याह—

. जन्माद्यधिकरणम्।

जन्माद्यस्य यतः॥१..२॥

अस्य पूर्वाधिकरणेनाक्षेपिकी सङ्गतिः। अत्र पूर्वपक्षे ब्रह्मस्वरूपासिद्ध्या मुक्त्यसिद्धिः, सिद्धान्ते तु तत्सिद्धिरिति फलभेदः। अत्र 'यतो वा इमानि भूतानि...(तै. ..)' इत्यादिवाक्यं विषयः। तत्र श्रूयमाणं जन्मादिकं ब्रह्मलक्षणं न वेति सन्देहे, जन्मादेर्जगन्निष्ठत्वेन ब्रह्मनिष्ठत्वासम्भवान्न तद्ब्रह्मलक्षणम्। न च 'सत्यं ज्ञानमनन्तम् (तै. ..) ' इत्यादिवाक्यस्थसत्यादिकं लक्षणं स्यादिति साम्प्रतम्। लोकसिद्धभिन्नार्थकानामेकब्रह्मलक्षणत्वाप्रसिद्धेरिति पूर्वः पक्षः। सिद्धान्तस्तु— अस्य प्रत्यक्षाद्युपस्थापितस्य जगतः, जन्मादि जन्म उत्पत्तिः आदिर्यस्य जन्मस्थितिभङ्गस्य तत् जन्मादि, यतो यस्मात् ब्रह्मणो भवति, तस्य ब्रह्मणो जगज्जन्मादिकारणत्वं तटस्थलक्षणम्, सत्यादिकं स्वरूपलक्षणम्। न च लोकसिद्धभिन्नार्थकत्वादेकब्रह्मलक्षणत्वाप्रसिद्धिरिति साम्प्रतम्। सत्यादिपदानामखण्डार्थत्वेन एकब्रह्मपर्यवसायितया लक्षणत्वसम्भवात्— इति॥


नन्वित्थं ब्रह्मणो जगत्कारणत्वेन सर्वज्ञत्वमर्थादभाणि, तदरमणीयम्, वेदस्य नित्यत्वेन जगत्कारणत्वायोगादित्याक्षिप्याह—

... शास्त्रयोनित्वाधिकरणम्।

शास्त्रयोनित्वात्॥१..३॥

अस्य पूर्वाधिकरणेनाक्षेपिकी सङ्गतिः। फलं तु पूर्वपक्षे ब्रह्मणः सर्वज्ञत्वानिर्धारणम्, सिद्धान्ते तन्निर्धारणमिति द्रष्टव्यम्। 'अस्य महतो भूतस्य निःश्वसितमेवैतद्यदृग्वेदः (बृ. ..)' इत्यादिवाक्यं विषयः। तत् ब्रह्मणो वेदकर्तृत्वेन सर्वज्ञत्वं न साधयति, उत साधयतीति सन्देहे, 'वाचा विरूप नित्यया (. .७५.) ' इति वेदस्य नित्यत्वश्रवणात् तत्कर्तृत्वेन सर्वज्ञत्वं न साधयतीति पूर्वः पक्षः। सिद्धान्तस्तु— शास्त्रस्य ऋग्वेदादेः सर्वज्ञकल्पस्य, योनिः कारणं तस्य भावः तत्त्वं तस्माद्वेदकर्तृत्वात् सर्वज्ञत्वं साधयति। यदवादि पूर्ववादिना वेदस्य नित्यत्वश्रवणादिति, तदसाधु। 'अस्य महतो भूतस्य...' इत्यादिवेदोत्पत्तिश्रुत्यनुरोधेन नित्यत्वश्रुतेः अर्थवादपरत्वात्। न च वेदस्य सकर्तृकत्वे पौरुषेयत्वं स्यादिति साम्प्रतम्। तस्योपलभ्यरचितत्वानङ्गीकारात्— इति।

इति प्रथमवर्णकम्॥


यद्वा जगत्कारणत्वेन ब्रह्मणि लक्षिते तस्य मानान्तरगम्यत्वमाशङ्क्याह— शास्त्रयोनित्वात्। लक्षणप्रमाणयोनिर्णयार्थत्वात् एकफलत्वं सङ्गतिः। अत्र पूर्वपक्षे अनुमानस्यैव विचार्यत्वसिद्धिः, सिद्धान्ते वेदान्तवाक्यानामिति फलभेदः। 'तं त्वौपनिषदं पुरुषम्...(बृ. ..२६)' इत्यादिवाक्यं विषयः। तत्किं ब्रह्मणः शास्त्रैकगम्यत्वं समर्पयति, उत नेति सन्देहे, ब्रह्मणः सिद्धवस्तुत्वेन मानान्तरेणापि अवगम्यमानत्वान्न समर्पयतीति पूर्वः पक्षः। सिद्धान्तस्तु— शास्त्रम् ऋग्वेदादि योनिः प्रमाणं यस्य तत्तथोक्तं तस्य भावस्तत्त्वम् तस्माद्वेदैकप्रमाणकत्वात्तदेकगम्यत्वं समर्पयति। यत्तु मानान्तरगम्यत्वं ब्रह्मणोऽभाणि, तन्न। तस्य रूपाद्यभावेन तद्गम्यत्वासम्भवात् इति।

इति द्वितीयं वर्णकम्॥


नन्वित्थं ब्रह्मणः शास्त्रैकगम्यत्वमभ्यधायि, तदसाधु। शास्त्रस्यान्यपरत्वादित्याक्षिप्याह—

  • अपाम सोमम् अमृता अभूम (. वे. ..११)। अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवन्ति। इति पूर्वपक्षः।

... समन्वयाधिकरणम्।

तत्तु समन्वयात्॥१..४॥

अस्य पूर्वेणाक्षेपिकी सङ्गतिः। फलं तु पूर्वपक्षे मुमुक्षोर्वेदान्तेषु प्रवृत्त्यनुपपत्तिः, सिद्धान्ते प्रवृत्तिसिद्धिरिति द्रष्टव्यम्। अत्र सर्वे वेदान्ता विषयः। ते किं कर्मशेषकर्त्रादिपराः, उत नित्यसिद्धब्रह्मपरा इति सन्देहे, अहेयानुपादेयसिद्धब्रह्मपरत्वे निष्प्रयोजनत्वसापेक्षत्वप्रसङ्गात् कर्मशेषकर्त्रादिपरा एवेति पूर्वः पक्षः। सिद्धान्तस्तु— सौत्रतुशब्दः पूर्वपक्षव्यावृत्त्यर्थः। तत् ब्रह्म, वेदान्तेषु प्रतिपाद्यते। कुतः, समन्वयात् सम्यक्तात्पर्यवत्वेन वेदान्तानां ब्रह्मण्यन्वयात् सम्बन्धात्, अतो वेदान्ता नित्यसिद्धब्रह्मपराः, न कर्त्रादिपराः, भिन्नप्रकरणस्थत्वात्। न च प्रकरणाभेदादुपासनाविधिपरा इति साम्प्रतम्।तत्त्वमस्यादीनां विधिविधुराणां बहुलमुपलब्धेः। यत्तु निष्प्रयोजनत्वमुक्तम् तदयुक्तम् अनर्थनिवृत्तेः प्रयोजनस्य सम्भवात्। यच्च सापेक्षत्वम्, तन्न। रूपादिहीनस्य ब्रह्मणः प्रमाणान्तरागम्यत्वेन तत्प्रतिपादकवेदान्तानां सापेक्षत्वासम्भवात्। तस्मादुपक्रमादिलिङ्गैर्वेदान्ता ब्रह्मपरा एवेति सिद्धम्। इति प्रथमवर्णकम्॥


यद्वा इत्थं ब्रह्मणो वेदान्तवेद्यत्वेऽपि, तद्विधिद्वाराङ्गीकुर्वत एकदेशिनो मतं प्रसङ्गादाक्षिप्याह— तत्तु समन्वयात्। पूर्वेणास्य प्रसङ्गसङ्गतिः। अत्र पूर्वपक्षे उपासनया मुक्तिः, सिद्धान्ते ज्ञानादिति फलभेदः। तत्र वेदान्ताः प्रतिपत्तिविधिविषयतया ब्रह्म समर्पयन्ति, उत साक्षादिति सन्देहे, वृत्त्यादिलिङ्गाभावेन सिद्धे शक्तिग्रहायोगात् प्रवृत्तिनिवृत्तिपरस्यैव शास्त्रत्वेन सिद्धपरत्वे तत्त्वायोगाच्च विधिविषयतयैवेति पूर्वः पक्षः। सिद्धान्तस्तु— तत् ब्रह्म साक्षात् वेदान्ताः समर्पयन्ति। कुतः, समन्वयात् तात्पर्यवत्त्वेन तेषां तत्रान्वयात्।


यत्तु सिद्धे प्रवृत्त्यादिलिङ्गाभावेन न शक्तिग्रह इति, तन्न। प्रवृत्तिनिवृत्ती एव लिङ्गमिति न निर्बन्धः, 'पुत्रस्ते जातः' इत्यादिषु हर्षादिलिङ्गेनापि शक्तिग्रहसम्भवात्। यत्तु प्रवृत्त्यादिपरस्यैव शास्त्रत्वमिति, तदपि न। हितशासनात् वेदान्तानां शास्त्रत्वोपपत्तेः— इति दिक्। इति द्वितीयं वर्णकम्॥


इत्थं चतुर्भिः सर्वजगत्कारणं सर्वज्ञं सर्ववेदान्तप्रतिपाद्यं ब्रह्मैवेति प्रत्यपादि। तत्र साङ्ख्याः— कूटस्थत्वेन क्रियाशक्त्ययोगात् ब्रह्म न जगत्कारणम्। अपि तर्हि त्रिगुणात्मकत्वात् क्रियाशक्तिमत्प्रधानमेव जगत्कारणम्— इति जगुः। तन्मतं निराकर्तुमिदमाह—

... ईक्षत्यधिकरणम्।

ईक्षतेर्नाशब्दम्॥१..५॥

पूर्वेणास्याक्षेपसङ्गतिः। फलं तु पूर्वपक्षे प्रधानैक्यसम्पदुपास्तिः, सिद्धान्ते ब्रह्मैक्यधीरिति बोद्धव्यम्। छान्दोग्ये श्रूयते— 'सदेव' इत्युपक्रम्य 'तदैक्षत...' इति। तत्र सच्छब्दितं जगदुपादानं किं प्रधानम्, उत ब्रह्मेति संशये, प्रधानमिति पूर्वः पक्षः।

सिद्धान्तस्तु— न प्रधानं जगदुपादानम्। कस्मात्, अशब्दम्, हेतुगर्भविशेषणमेतत्, अशब्दत्वात् अवेदप्रमाणकत्वात्। कस्मादवेदप्रमाणकत्वम्, ईक्षतेः, धातुवाचकेक्षतिशब्दः तदर्थलक्षकः, ईक्षितृत्वश्रवणात्। न ह्यचेतनस्य प्रधानस्येक्षितृत्वं सम्भवति, तस्य चेतनधर्मत्वात्। न च कूटस्थब्रह्मणो ज्ञानक्रियाशक्त्यभावः, मायामहिम्ना सर्वस्याप्युपपत्तेः। अतः सत् ईक्षितृ चेतनं ब्रह्मैव जगदुपादानमित्यर्थः॥


ननु 'तत्तेज ऐक्षत' 'ता आप ऐक्षन्त' इत्यचेतनेऽपि ईक्षितृत्वश्रवणात् तत् प्रधानेऽपि गौणमस्त्वित्याशङ्क्याह—

गौणश्चेन्नात्मशब्दात्॥१..६॥

अप्तेजसोरिव प्रधाने ईक्षितृशब्दो गौण इति चेत्, न। कस्मात् आत्मशब्दात्, 'सदेव...' 'तदैक्षत' इति प्रकृतं सदीक्षितृ 'सेयं देवता' इति देवताशब्देन परामृश्य 'अनेन जीवेनात्मना' इत्यात्मशब्दश्रवणादित्यर्थः॥


नन्वात्मशब्दः प्रधानेऽप्यस्तु तस्य नानार्थकत्वादित्याशङ्क्याह—

तन्निष्ठस्य मोक्षोपदेशात्॥१..७॥

न प्रधानमात्मशब्दवाच्यम्, 'स आत्मा...' इति प्रकृतं सदणिमानमादाय 'तत्त्वमसि' इति श्वेतकेतोश्चेतनस्य तन्निष्ठतां तत्स्वरूपतामुपदिश्य 'अथ सम्पत्स्ये' इति प्रारब्धक्षयानन्तरं मोक्षोपदेशात्। अतश्चेतनस्याचेतननिष्ठत्वानुपपत्तेः

श्रद्धया तद्ध्यायतो मोक्षासम्भवादनर्थप्राप्तेश्च आत्मशब्दश्चेतनपर इति सिद्धम्।


ननु स्थूलारुन्धतीन्यायेन प्रधानोपदेशद्वारा अयमात्मोपदेशोऽस्त्वित्याशङ्क्याह—

हेयत्वावचनाच्च॥१..८॥

यद्यनात्मैव प्रधानं सच्छब्दवाच्यम् 'स आत्मा तत्त्वमसि' इतीहोपदिष्टं स्यात् स तदुपदेशश्रवणादनात्मज्ञतया तन्निष्ठो मा भूदिति मुख्यमात्मानमुपदिदिक्षु शास्त्रं तस्य हेयत्वं ब्रूयात्। न तथा ब्रूते। अतो हेयत्वस्यावचनात् अनभिधानात्, चकारात् एकविज्ञानेन सर्वविज्ञानोपक्रमविरोधाच्चेत्यर्थः॥


इत्थं प्रधानस्यात्मोपदेशद्वारत्वात्मत्वगौणेश्चितृत्वनिरासेन जगत्कारणत्वं निरस्य, अधुना स्वतन्त्रैर्हेतुभिस्तदेव निरसितुं सूत्रत्रयम् आह—

स्वाप्ययात्॥१..९॥

स्वस्मिन् प्रकृतसच्छब्दिते चिदात्मनि, अप्ययात् 'सता सौम्य तदा सम्पन्नो भवति' इति लयश्रवणात्, अपिपूर्वस्य एनेः लयार्थकत्वात्। अतो यस्मिन् सर्वेषां जीवानां सुषुप्तौ उपाधिकृतविशेषाभावाप्ययः, तश्चेतनं सच्छब्दवाच्यं ब्रह्मैव जगत्कारणम्, न प्रधानमित्यर्थः॥

गतिसामान्यात्॥१..१०॥

गतेः सर्वेषु 'आत्मन आकाशः सम्भूतः' इत्यादिवेदान्तेषु चेतनकारणत्वावगतेः समानत्वात्, नाचेतनं प्रधानं कारणमित्यर्थः॥

श्रुतत्वाच॥१..११॥

श्रूयते हि श्वेताश्वतरोपनिषदि सर्वज्ञमीश्वरं प्रकृत्य 'स कारणं करणाधिपाधिपो न चास्य कश्चिजनिता न चाधिपः' इति। तस्मात् सर्वज्ञं ब्रह्म जगतः कारणम्, नाचेतनं प्रधानमन्यद्वेति सिद्धम्॥


इत्थं सर्वेषां वेदान्तानां सविशेषनिर्विशेषब्रह्मपराणाम् उपास्तिविधिद्वारा साक्षात् निर्विशेषब्रह्मपरत्वे सिद्धेऽपि, अधुना निर्विशेषवाक्यविचारात्मकमिदमधिकरणमारभ्यते—


... आनन्दमयाधिकरणम्।

आनन्दमयोऽभ्यासात्॥१..१२॥

ईक्षत्यधिकरणे 'तत्तेज ऐक्षत' इत्यमुख्येक्षणप्रायपाठो यथा जगत्कारणत्वे न निश्चायकः, न तथा आनन्दमय इत्यत्र

मयटो विकारार्थत्वे प्रायपाठोऽनिश्चायक इति पूर्वेणास्य प्रत्युदाहरणसङ्गतिः। पूर्वपक्षे जीवस्यानन्दमयत्वेनोपास्तिः फलम्, सिद्धान्ते तु निर्विशेषब्रह्मैक्यप्रमितिरिति परमसिद्धान्तानुसारिणः। एकदेशिमते तु उभयत्रोपास्तिरिति विवेकः। तैत्तिरीयके श्रूयते— अन्नमयः इत्याद्युपक्रम्य 'अन्योऽन्तर आत्मानन्दमयः' इति। तत्र किम् आनन्दमयशब्देन 'सत्यं ज्ञानम्...' इति प्रकृतं परं

ब्रह्मैवोच्यते, किं वा अन्नमयादिवत् ब्रह्मणोऽर्थान्तरं जीव इति विशये, अर्थान्तरमिति पूर्वः पक्षः। (एकदेशिनः) सिद्धान्तस्तु— आनन्दमयः परमात्मैव। कुतः, अभ्यासात् आनन्दशब्दस्य ब्रह्मण्येव बहुकृत्वोऽभ्यासादित्यर्थः॥


नन्वानन्दमयशब्दस्य विकारार्थत्वादित्याशङ्क्याह—

विकारशब्दान्नेति चेन्न प्राचुर्यात्॥१..१३॥

न ब्रह्म आनन्दमयशब्दितम्। कुतः, विकारशब्दात् विकारार्थकमयट्प्रत्ययात् ब्रह्मणश्चानन्दविकारत्वानुपपत्तेः इति चेत्, न। कस्मात्, प्राचुर्यात् प्रकृते मयट आनन्दप्राचुर्यवाचकत्वादित्यर्थः॥


मयटः प्राचुर्यार्थकत्वे हेत्वन्तरमाह—

तद्धेतुव्यपदेशाच॥१..१४॥

तमानन्दं प्रति 'एष ह्येवानन्दयाति' इति ब्रह्मणो हेतुत्वव्यपदेशात् आनन्दमयः पर एवेत्यर्थः॥


इतश्चानन्दमयः पर एवेत्याह—

मान्त्रवर्णिकमेव च गीयते॥१..१५॥

'ब्रह्मविदाप्नोति परम्' इत्युपक्रम्य 'सत्यं ज्ञानमनन्तं ब्रह्म' इत्यस्मिन्मन्त्रे यत् सत्याद्यात्मकं सर्वान्तरं ज्ञेयत्वेनोक्तम्, तत् मान्त्रवर्णिकं ब्रह्मैव 'आनन्दमयः' इति ब्राह्मणे गीयते, मन्त्रब्राह्मणयोरैकार्थ्यादित्यर्थः॥


इतश्चानन्दमयः परो न जीव इत्याह—

नेतरोऽनुपपत्तेः॥१..१६॥

ईश्वरादितरो जीवो नानन्दमयः। कुतः, अनुपपत्तेः 'सोऽकामयत बहु स्यां प्रजायेयेति' इत्यादिश्रूयमाणस्य सृष्टेः प्राक् कामयितृत्वस्रष्टव्यात्मकत्वादेरनुपपत्तेरित्यर्थः॥


इतश्च नानन्दमयो जीव इत्याह—

भेदव्यपदेशाच्च॥१..१७॥

'रसो वै सः रस ह्येवायं लब्ध्वानन्दी भवति' इति लब्धृलब्धव्यत्वेन जीवानन्दमययोर्भेदेन व्यपदिश्यमानत्वादित्यर्थः॥


ननु तर्ह्यानन्दमयशब्देन प्रधानमुच्यताम्, तत्राह—

कामाच्च नानुमानापेक्षा॥१..१८॥

अनुमीयत इत्यनुमानम् अनुमानैकगम्यं प्रधानम्, तस्य नापेक्षा आनन्दमयत्वेनात्र न स्वीकारः। कुतः, कामात् तदधिकारे 'सोऽकामयत' इति कामयितृत्वश्रवणादित्यर्थः। अत्र प्रधाननिराकरणं प्रासङ्गिकमिति बोध्यम्॥


इतश्च नानन्दमयो जीव इत्याह—

अस्मिन्नस्य च तद्योगं शास्ति॥१..१९॥

अस्मिन् आनन्दमये प्रकृत आत्मनि, प्रबुद्धस्य अस्य जीवस्य, तद्योगं तदात्मना योगः तद्योगः तद्भावापत्तिः मुक्तिः तम्। 'यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्ते' इत्यादिशास्त्रं शास्ति। तस्मान्नानन्दमयो जीवः, किन्तु परमात्मैवेत्यर्थः।


इदं त्वेकदेशिमतम्। भगवत्पादीयमते त्वेवं सूत्रयोजना—

आनन्दमयोऽभ्यासात्। ईक्षत्यधिकरणे मुख्येक्षणात् ब्रह्मनिर्णये गौणप्रायपाठस्यानिश्चायकत्वं यथा, न तथेहाधारत्वावयवत्वयोः पुच्छशब्दलक्षकत्वसाम्यावयवप्रायपाठस्यानिश्चायकत्वमस्तीति तेनास्य प्रत्युदाहरणसङ्गतिः। फलं त्वधस्तादभिहितम्। 'ब्रह्म पुच्छं प्रतिष्ठा' इत्यत्र किमानन्दमयावयवत्वेन ब्रह्मोच्यते, उत स्वप्रधानत्वेनेति सन्देहे, अवयवत्वेनेति पूर्वः पक्षः। सिद्धान्तस्तु— सौत्रानन्दमयशब्देन आनन्दमयवाक्यस्थब्रह्मपुच्छमित्यत्रत्यब्रह्मशब्द उपलक्ष्यते। स स्वप्रधानब्रह्मपरः। कुतः, अभ्यासात् तस्यैव 'असन्नेव स भवति' इति लोके अभ्यस्यमानत्वादित्यर्थः॥


यत्तु पुच्छशब्दस्यावयवपरत्वमिति तत्राह— विकारशब्दान्नेति चेन्न प्राचुर्यात्। विकारशब्दात् अवयवपरपुच्छशब्दात् तत्समानाधिकरणब्रह्मशब्दो न स्वप्रधानब्रह्मपर इति चेत्, न। प्राचुर्यात् अवयवप्रायप्रयोगात् पुच्छमित्युच्यते। नावयवविवक्षया। अतः प्रतिष्ठा समभिव्याहारात् पुच्छशब्दस्याधारपरतया स्वप्रधानत्वेन ब्रह्मोच्यत इत्यर्थः॥


इतश्च पुच्छशब्दस्याधारपरत्वमित्याह— तद्धेतुव्यपदेशाच्च। तस्य ब्रह्मणः स्वविकारजातं प्रति हेतुत्वेन 'इदं सर्वमसृजत' इति वाक्ये व्यपदेशादित्यर्थः॥


इतश्च पुच्छवाक्ये ब्रह्म स्वप्रधानमित्याह— मान्त्रवर्णिकमेव च गीयते। यत् 'सत्यं ज्ञानमनन्तम्' इत्यादिमन्त्रवर्णप्रतिपाद्यं ब्रह्म, तदेव 'ब्रह्म पुच्छम्' इति ब्राह्मणवाक्ये स्वप्राधान्येन गीयते मन्त्रब्राह्मणयोरैकार्थ्यादित्यर्थः॥


ननु पुच्छवाक्ये आनन्दमयः स्वप्रधानत्वेन प्रतिपाद्य किं न स्यादित्यत आह— नेतरोऽनुपपत्तेः। इतर आनन्दमयोऽत्र न प्रतिपाद्यः, प्रियादिमत्त्वेनाग्रिमवाक्योक्तस्रष्टृत्वाद्यनुपपत्तेरित्यर्थः।


इतश्चानन्दमयोऽत्र न प्रतिपाद्य इत्याह— भेदव्यपदेशाच्च। 'रसं ह्येवायं लब्ध्वानन्दी भवति' इत्यानन्दमयब्रह्मणोर्लब्धृलब्धव्यत्वेन रूपेण भेदव्यपदेशादित्यर्थः॥


ननु 'आनन्दो ब्रह्म' इत्यत्रत्यानन्दस्य ब्रह्मत्वादानन्दमयस्यापि ब्रह्मत्वमनुमीयत इत्यत आह— कामाच्च नानुमानापेक्षा। काम्यत इति कामः आनन्दः तस्य ब्रह्मत्वदर्शनात् न अनुमानेन आनन्दमयस्यापि ब्रह्मत्वमपेक्षितव्यम्, विकारार्थमयड्विधानादित्यर्थः॥


इतोऽपि नानन्दमयोऽत्र प्रतिपाद्य इत्याह— अस्मिन्नस्य च तद्योगं शास्ति। अस्मिन् पुच्छवाक्योक्ते ब्रह्मणि, प्रबुद्धस्य अस्य आनन्दमयस्य 'यदा ह्येव...' इति शास्त्रं तद्योगं तद्भावापत्तिं शास्ति। अतोऽत्रानन्दमयस्याप्रतिपाद्यत्वात् पुच्छब्रह्मैव स्वप्रधानं निर्विशेषं ज्ञेयमिति सिद्धम्॥


इत्थं पूर्वसिद्धनिर्विशेषब्रह्मसमन्वयापवादकमिदमाह—

... अन्तरधिकरणम्।

अन्तस्तद्धर्मोपदेशात्॥१..२०॥

पूर्वत्र ब्रह्मपदम्, आनन्दमयपदम्, आनन्दाभ्यासश्चेति मुख्यत्रितयात्मकबहुप्रमाणवशात् निर्विशेषब्रह्मनिर्णयो यथा, तथा रूपवत्त्वादिबहुप्रमाणवशात् संसारी हिरण्मयः पुरुषोऽस्त्विति पूर्वसिद्धान्तयुक्त्या पूर्वपक्षोत्थानात् तेनास्य दृष्टान्तसङ्गतिः। फलं तु पूर्वोत्तरपक्षयोरपरपरब्रह्मोपास्तिरेवेति द्रष्टव्यम्। छान्दोग्ये श्रूयते— 'अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषः' इत्यादि। तत्र किमयं पुरुषो विद्याकर्मातिशयवशात्प्राप्तोत्कर्षः कश्चित्संसारी, उत नित्यसिद्धः परमेश्वर इति सन्देहे, संसारीति पूर्वः पक्षः। सिद्धान्तस्तु— 'य एषोऽन्तरादित्ये...' ' य एषोऽन्तरक्षिणि...' इति च श्रूयमाणः परमेश्वर एव, न संसारी। कुतः, तद्धर्मोपदेशात् तस्य परमेश्वरस्य ये सर्वपाप्मराहित्यादिधर्माः तेषामस्मिन्वाक्ये उपदेशात्। हिरण्यश्मश्रुकेशादिकं तु मायिकं परमेश्वरस्य लोकानुग्रहार्थमुपपद्यत इत्यविरोधः। तस्मादक्ष्यादित्ययोरन्तः परमेश्वर एवेत्यर्थः॥


किञ्च—

भेदव्यपदेशाच्चान्यः॥१..२१॥

आदित्याक्ष्णोरन्तः श्रूयमाणः पुरुषः आदित्यशरीराभिमानिनो जीवादन्यः। कुतः, भेदव्यपदेशात्, आदित्यशरीराभिमानिनो जीवादन्यस्य परमात्मनोऽन्तर्यामितया 'य आदित्ये तिष्ठन्...' इत्याद्यन्तर्यामिब्राह्मणे तयोर्मेदव्यपदेशात्। अत्रप्यन्तरशब्दश्रुत्या तत्प्रत्यभिज्ञानात्परमेश्वर एवाक्ष्यादित्ययोरुपास्य इति सिद्धम्॥


ननु पूर्वत्राव्यभिचरितापहृतपाप्मत्वादिब्रह्मलिङ्गेन रूपवत्त्वादिकमन्यथा नीतं यथा, न तथेह लिङ्गादाकाशशब्दश्रुतिरन्यथा नेतुं शक्या। तस्या बलवत्त्वादित्यत आह—

... आकाशाधिकरणम्।

आकाशस्तल्लिङ्गात्॥१..२२॥

पूर्वेणास्य प्रत्युदाहरणसङ्गतिः। फलं तु पूर्वपक्षे भूताकाशदृष्टया उद्गीथोपास्तिः, सिद्धान्ते ब्रह्मदृष्टयेति द्रष्टव्यम्। छान्दोग्ये श्रूयते— 'अस्य लोकस्य का गतिरित्याकाश इति होवाच' इत्यादि। तत्र किमाकाशशब्देन भूताकाशोऽभिधीयते, उत परं ब्रह्मेति विशये, भूताकाश इति पूर्वः पक्षः। सिद्धान्तस्तु— आकाशशब्देन ब्रह्मैव गृह्यते। कुतः, तल्लिङ्गात् तस्य ब्रह्मणो यल्लिङ्गं समस्तमहाभूतादिसृष्टयादिकं तस्यास्मिन्वाक्ये दृष्टत्वात्। यत्तु लिङ्गाच्छ्रतिर्बलीयसीति, तन्न। भूयसीनां ब्रह्मलिङ्गश्रुतीनामनुग्रहाय एकस्या आकाश श्रुतेर्बाधस्य युक्तत्वात्। 'आकाशो ह्येवैभ्यः...' इति श्रुत्यन्तराच्च आकाशशब्दितं ब्रह्मैवात्रोद्गीथे उपास्यमिति सिद्धम्॥


आकाशन्यायमन्यत्रातिदिशति—

... प्राणाधिकरणम्।

अत एव प्राणः॥१..२३॥

अत्रातिदेशत्वात्पृथक्सङ्गतिर्नापेक्षिता। यद्वा पूर्वमाकाशश्रुतेरव्यभिचारिब्रह्मलिङ्गाद्बाधो यथा युक्तः, न तथेह प्राण श्रुतेर्बाधो युक्तः संवेशनादिलिङ्गस्य प्राणसाधारणतया ब्रह्माव्यभिचाराभावादिति प्रत्युदाहरणसङ्गतिः। फलं तु पूर्वपक्षे प्राणदृष्ट्या प्रस्तावोपास्तिः, सिद्धान्ते ब्रह्मदृष्टयेति द्रष्टव्यम्। छान्दोग्ये श्रूयते उद्गीथे— 'प्रस्तोतर्या देवता...' इति प्रस्तुत्य, देवतेति प्राण इति होवाच' इत्यादि। तत्र किं प्राणशब्देन ब्रह्माभिधीयते, उत वायुविकार इति संशये, वायुविकार इति पूर्वः पक्षः। सिद्धान्तस्तु— प्राणशब्देन ब्रह्मैवाभिधीयते। कुतः, अत एव पूर्वसूत्रोक्ततल्लिङ्गादेव, तस्य ब्रह्मणो यल्लिङ्गम् '...' प्राणमेवाभिसंविशन्ति' इत्यादिसर्वभूतसंवेशनादिकं तस्यास्मिन्वाक्ये दृष्टत्वात्। न च 'प्राणं तर्हि वागप्येति' इत्यादिना वायुविकारेऽपि श्रुतमिति वाच्यम्। तत्र इन्द्रियसंवेशनादेरेव श्रुतत्वात्। अतोऽनन्यथासिद्धब्रह्मलिङ्गात् प्राणशब्दाभिधेयं ब्रह्मैवोपास्यमिति सिद्धम्॥


पूर्वं प्राणवाक्ये ब्रह्मलिङ्गसद्भावात् ब्रह्मपरता यथा, न तथेह स्ववाक्ये ब्रह्मपरता तदभावादिति प्रत्युदाहरणसङ्गत्येदमाह—

..१०. ज्योतिश्चरणाधिकरणम्।

ज्योतिश्चरणाभिधानात्॥१..२४॥

अत्र पूर्वपक्षे कौक्षेये ज्योतिषि आदित्यादिदृष्टयोपास्तिः, सिद्धान्ते ब्रह्मदृष्टयेति फलभेदः। छान्दोग्ये श्रूयते— 'अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु...' इत्यादि। तत्र किं ज्योतिःशब्देन आदित्यादिकं तेजोऽभिधीयते, उत ब्रह्मेति संशये, आदित्यादिकमिति पूर्वः पक्षः। सिद्धान्तस्तु— ' दिवो ज्योतिः...' ' इति ज्योतिःशब्देन ब्रह्मैव गृह्यते। कुतः, चरणाभिधानात्

ज्योतिर्वाक्यात्पूर्ववाक्ये 'पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि' इति चतुष्पात्त्वाभिधानात्। अतो ब्रह्मैव ज्योतिःशब्दितमित्यर्थः॥


ननु 'गायत्री वा इदं सर्वम् ...' इति गायत्र्याख्यच्छन्दसः प्रकृतत्त्वात्तस्यैवोपास्यत्वम्, नान्यस्येत्याशङ्क्याह—

छन्दोभिधानान्नेति चेन्न तथा चेतोर्पणनिगदात्तथाहि दर्शनम्॥१..२५॥

छन्दोभिधानात् गायत्र्याख्यछन्दस एवाभिधानात् पूर्ववाक्ये न ब्रह्मणः प्रकृतत्वमिति चेत्, न। कुतः, तथा च्छन्दोद्वारेण तद्गते ब्रह्मणि, चेतोर्पणस्य चित्तसमाधानस्य, निगदात् अभिधानात्। तत्र दृष्टान्तः— तथाहि दर्शनम्। अन्यत्रापि विकारद्वारेण 'एतं ह्येव बह्वृचा महत्युक्थे मीमांसन्ते' एतमात्मानं प्रधाने शस्त्रे तदनुगतमुपासते। इति ब्रह्मण उपासनं दृश्यते इति दर्शनं दृष्टमित्यतो ब्रह्मैव पूर्ववाक्ये निर्दिष्टम्, न छन्द इति सिद्धम्॥


इतश्च गायत्रीवाक्ये ब्रह्मैव प्रतिपाद्यमित्याह—

भूतादिपादव्यपदेशोपपत्तेश्चैवम्॥१..२६॥

भूतपृथिवीशरीरहृदयैः 'चतुष्पदा गायत्री' इति व्यपदेशस्य ब्रह्मण्येवोपपत्तेः। न ह्यक्षरसंनिवेशरूपगायत्र्या भूतादिपादव्यपदेशः सम्भवति। अतो गायत्रीवाक्ये ब्रह्मैव प्रतिपाद्यमिति, ज्योतिर्वाक्ये द्युसम्बन्धात्तदेव प्रत्यभिज्ञायत इति सिद्धम्॥


ननु पूर्वं दिवीति सप्तम्या द्यौराधारत्वेन निर्दिश्यते, दिव इति पञ्चम्या द्यौरवधित्वेन। तथा च विभक्तिभेदेन द्युसम्बन्धात् यत्प्रत्यभिज्ञानमुक्तं तन्नेत्याशङ्क्याह—

उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात्॥१..२७॥

'दिवि' 'दिवः' इति विभक्तिभेदेनोपदेशात् ज्योतिर्वाक्ये प्रत्यभिज्ञानं न सम्भवतीति चेत्, न। कुतः, उभयस्मिन्नपि विभक्तिभेदेन उपदेशद्वयेऽपि प्रधानप्रातिपदिकार्थेन प्रत्यभिज्ञाया अविरोधात्, प्रकृतत्रिपाद्ब्रह्मपरामर्शियच्छब्दानुबन्धाच्च परं ब्रह्मैव ज्योतिश्शब्दितमुपास्यमिति सिद्धम्॥


पूर्वस्मिन्नधिकरणे प्रकृतत्रिपाद्ब्रह्मपरामर्शियच्छब्दसमानाधिकृता ज्योतिश्श्रुतिस्तदर्थेत्युक्तं यथा, न तथेहासाधारणं

कञ्चित्समस्ति प्राणस्य ब्रह्मत्वे मानम्, येन तथा स्यादिति प्रत्युदाहरणसङ्गत्येदमाह—

..११. प्रातर्दनाधिकरणम्।

प्राणस्तथानुगमात्॥१..२८॥

अत्र पूर्वपक्षे प्राणेन्द्रदेवताजीवानामन्यतमोपास्तिः, सिद्धान्ते ब्रह्मधीरिति फलभेदः। कौषीतक्युपनिषदि इन्द्रप्रतर्दनाख्यायिकायां प्रतर्दनं प्रतीन्द्रवाक्यं श्रूयते— 'प्राणोऽस्मि प्रज्ञात्मा' इत्यादि। प्राणशब्देन वायुमात्रमभिधीयते, उत इन्द्रदेवता, उत जीवः,

अथवा परं ब्रह्मेति विशये, 'अथ खलु...' इत्यादिलिङ्गात् वायुमात्रमिति पूर्वः पक्षः। सिद्धान्तस्तु— प्राणशब्देन ब्रह्मैवाभिधीयते। कुतः, तथानुगमात् तथा ब्रह्मपरत्वे ' हिततमं मन्यसे ' इत्यादिहिततमत्वाद्यनेकलिङ्गानाम् अनुगमात् अवगमात्। अतोऽत्र प्राणो ब्रह्मैवेत्यर्थः॥


ननु अस्मीत्यहङ्कारवादाल्लिङ्गादिन्द्रदेवताभिधीयत इत्याशङ्क्याह—

न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा ह्यस्मिन्॥१..२९॥

वक्तुः इन्द्र॑स्य देवताविशेषस्य, आत्मोपदेशात् 'मामेव विजानीहि' इत्यात्मत्वेनोपदिश्यमानत्वात्, प्राणो न ब्रह्मेति चेत्,

अत्रोच्यते—अध्यात्मसम्बन्धभूमा ह्यस्मिन्निति। हि यस्मात्, अस्मिन् अध्याये यावद्ध्यस्मिन् शरीरे प्राणो वसति तावदायुः

स एष प्राण एव प्रज्ञात्मानन्दोऽजरोऽमृतः' इत्याद्यध्यात्मसम्बन्धस्य प्रत्यगात्मसम्बन्धस्य भूमा बाहुल्यमुपलभ्यते। तस्मात्

प्राणात्मकब्रह्मोपदेश एवायम्, न देवताविशेषोपदेश इति सिद्धम्॥


कथं तर्हि वक्तुरात्मेपदेशः, तत्राह—

शास्त्रदृष्ट्या तूपदेशो वामदेववत्॥१..३०॥

इन्द्रस्य वक्तुः 'मामेव विजानीहि' इत्युपदेशः शास्त्रदृष्टया ज्ञातव्यः। अहमेव परं ब्रह्मेति शास्त्रदृष्टया पश्यन्नेवमुक्तवानित्यर्थः। अत्र दृष्टान्त— वामदेववत् यथा वामदेवः शास्त्रदृष्टया 'अहं मनुरभवं पूर्यश्च' इत्याह तद्वदिति। अतो ब्रह्मपरमेवैतद्वाक्यमिति सिद्धम्॥


नन्वेवमपि न ब्रह्मपरमिदम् अपि त्वन्यपरमित्याशङ्क्याह—

जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात्॥१..३१॥

'वक्तारं विद्यात्' इति जीवलिङ्गात् 'इदं शरीरं परिगृह्योत्थापयति' इति मुख्यप्राणलिङ्गाच्च तदुभयपरम्, न ब्रह्मपरमेवेति चेत्, न। कुतः, उपासात्रैविध्यात् जीवमुख्यप्राणब्रह्मोपासनानि त्रीणि प्रसज्येरन्। न च तदिष्टम्। 'मामेव...' 'प्राणोऽस्मि' इत्युक्त्वा अन्ते उपसंहरति 'स एष प्राण एव प्रज्ञात्मा' इति। एवमुपक्रमोपसंहाराभ्यां वाक्यैकवाक्यत्वावगमात्। किञ्च अन्यत्र ब्रह्मलिङ्गवशात्

प्राणशब्दस्य ब्रह्मणि वृत्तेराश्रितत्वादिहापि तद्योगात् हिततमत्वाद्यसाधारणब्रह्मलिङ्गयोगात् ब्रह्मण एवायमुपदेश इति

सर्वमतिशोभनम्॥


इति श्रीब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां प्रथमाध्यायस्य प्रथमः पादः॥

No comments: