Brahmatattvaprakashika, a vritti on Brahmasutras by Bhagavan Sadashivabrahmendra 1.2

 

द्वितीयः पादः॥


इत्थं पूर्वस्मिन्पादे स्पष्टब्रह्मलिङ्गवाक्यानां ब्रह्मणि समन्वयः साधितः। अधुना अस्पष्टब्रह्मलिङ्गानां समन्वयं साधयितुं द्वितीयतृतीयपादावारभ्येते। पूर्वस्मिन्पादे जगत्कारणत्वेन व्यापित्वादिकमर्थसिद्धम्। तदुपजीव्योत्तरपादद्वयस्य उत्थानात् हेतुहेतुमद्भावः सङ्गतिरस्य पूर्वपादेन। यथा पूर्वं जीवादिलिङ्गबाधया ब्रह्मपरत्वमुक्तम्, न तथेह मनोमयादिवाक्ये ब्रह्मलिङ्गमस्तीति प्रत्युदाहरणसङ्गत्येदमारभ्यते॥

... सर्वत्र प्रसिद्ध्यधिकरणम्।

सर्वत्र प्रसिद्धोपदेशात्॥१..१॥

अस्य पूर्वपक्षे जीवस्योपास्तिः, सिद्धान्ते ब्रह्मण इति फलभेदः। छान्दोग्ये शाण्डिल्यविद्यायामिदमाम्नायते— 'स ऋतुं कुर्वीत' 'मनोमयः प्राणशरीरो भारूपः' इत्यादि। तत्र किं मनोमयत्वादिगुणकः शारीर उपास्यत्वेन उपदिश्यते किं वा परमात्मेति संशये, शारीर इति पूर्वं पक्षः। सिद्धान्तस्तु— परं ब्रह्मैवोपास्यत्वेनोपदिश्यते। कुतः, सर्वत्र प्रसिद्धोपदेशात्। सर्वेषु वेदान्तेषु यत्प्रसिद्धं जगत्कारणं ब्रह्म तस्यैवात्र 'सर्वं खलु...' इत्यादिना उपदेशादित्यर्थः॥


इतश्च ब्रह्मैवात्रोपदिश्यत इत्याह—

विवक्षितगुणोपपत्तेश्च॥१..२॥

विवक्षिताः 'भारूपः सत्यसङ्कल्पः' इत्यादिना उपासनायामुपादेयत्वेनोपदिष्टा ये गुणाः सत्यसङ्कल्पत्वादयः तेषां ब्रह्मण्येवोपपत्तेरित्यर्थः। जीवासाधारणस्यापि मनोमयत्वादेः सत्यसङ्कल्पत्वाद्यनुरोधेन सर्वात्मके ब्रह्मण्युपपत्तेः। अतः

तद्गुणकं ब्रह्मैवोपास्यमिति सिद्धम्॥


ननु विपरीतं किं न स्यादिति चेत्, नेत्याह—

अनुपपत्तेस्तु न शारीरः॥१..३॥

सत्यसङ्कल्पत्वादीनां जीवे सामञ्जस्येनानुपपत्तेः न शारीरो जीवस्तद्धर्मेणोपास्य, किन्तु ब्रह्मवेत्यर्थः॥


इतश्च न शारीर उपास्य इत्याह—

कर्मकर्तृव्यपदेशाच्च॥१..४॥

'एतमितः प्रेत्याभिसम्भवितास्मि' इत्यनेन एतमिति प्रकृतस्य मनोमयत्वादिगुणकस्य ब्रह्मणः कर्मत्वेन प्राप्यत्वेन, अभिसम्भवितास्मि प्राप्तास्मि इति शारीरस्य कर्तृत्वेन व्यपदिश्यमानत्वादित्यर्थः॥


इतश्च न शारीर उपास्य इत्याह—

शब्दविशेषात्॥१..५॥

समानप्रकरणे 'अन्तरात्मन्पुरुषो हिरण्मयः' इति शारीरस्य यः शब्दोऽभिधायकः सप्तम्यन्तः अन्तरात्मन्निति, तस्माद्विशिष्टोऽन्यः प्रथमान्तः पुरुषशब्दो मनोमयत्वादिविशिष्टस्यात्मनोऽभिधायकः। तस्य सत्त्वान्न परस्मादन्यः शारीरः उपास्य इत्यर्थः॥


किञ्च—

स्मृतेश्च॥१..६॥

'ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति। भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया॥' इत्यादौ जीवपरमात्मनोर्भेदस्मरणान्न परस्मादन्यो जीव उपास्य इति सिद्धम्। अनयोर्भेदस्तु काल्पनिकः, न वास्तव इति रहस्यम्॥


अधुना परमात्मन उपास्यत्वमाक्षिप्य परिहरति—

अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च॥१..७॥

अर्भकौकस्त्वात् अर्भकमल्पम् ओकः स्थानं यस्य सोऽर्भकौकाः तस्य भावस्तत्त्वं तस्मात्, 'एष म आत्मान्तर्हृदये' इति

परिच्छिन्नहृदयायतनत्वादित्यर्थः। किञ्च तद्व्यपदेशाच्च तस्य स्वशब्देनैव 'अणीयान्' इत्यणीयस्त्वस्य व्यपदेशात् आराग्रमात्रो

जीव इहोपास्यः न सर्वगतः परमात्मेति चेत्, न। कुतः, निचाय्यत्वादेवम् अर्भकौकस्त्वाणीयस्त्वादिविशिष्टत्वेन रूपेण परमात्मन इह निचाय्यत्वात् उपास्यत्वात्। अतः सर्वगतस्यात्मन उपासनापेक्षया अर्भकौकस्त्वादिगुणः। नैतावता सर्वगतत्वहानिः। तव दृष्टान्तः व्योमवत्। यथा सर्वगतमपि व्योम सूच्याद्यवच्छेदेनार्भकौकोऽणीयश्च व्यपदिश्यते तद्वत् ब्रह्मापीत्यर्थः॥


अधुना परमात्मनः सर्वगतत्वे दोषमाशङ्क्य परिहरति—

सम्भोगप्राप्तिरिति चेन्न वैशेष्यात्॥१..८॥

व्योमवत्परमात्मनः सर्वगतत्वे चेतनत्वाविशेषात् जीववत् सुखदुःखानुभवरूपसम्भोगप्राप्तिरिति चेत्, न। वैशेष्यात् जीवपरमात्मनोः भोक्तृत्वाभोक्तृत्वादिविशेषान्न तद्भोगेनास्य भोगप्राप्तिः। तस्मान्मनोमयत्वादिगुणकः परमात्मैवोपास्यः, न शारीर इति सुस्थितम्॥


पूर्वं यथा ब्रह्मणो भोक्तृत्वाभाव उक्तः, तथा कर्तृत्वाभाव इह ब्रह्मण इति दृष्टान्तसङ्गत्येदमाह—

... अत्त्रधिकरणम्।

अत्ता चराचरग्रहणात्॥१..९॥

अत्र पूर्वपक्षे अग्नेर्जीवस्य वोपास्तिः, सिद्धान्ते निर्विशेषब्रह्मधीरिति फलभेदः। कठवल्लीषु श्रूयते 'यस्य ब्रह्म च

क्षत्रं चोभे भवत ओदनः ' इत्यादि। तत्रौदनोपसेचनसूचितः कश्चिदत्ता प्रतीयते। स किमग्निः, उत जीवः, उताहो परमात्मेति विशये, अग्निजीवाविति पूर्वः पक्षः। सिद्धान्तस्तु— परमात्मैवात्ता। कुतः, चराचरग्रहणात्। चराचरयोः स्थावरजङ्गमयोः आद्यत्वेनास्मिन्वाक्ये ग्रहणात् श्रवणात्। न हि परमात्मानं सर्वसंहर्तारमृतेऽन्यस्य कस्यचिच्चराचरात्तृत्वं सम्भवतीत्यर्थः॥


इतश्च परमात्मैवात्तेत्याह—

प्रकरणाच्च॥१..१०॥

'न जायते म्रियते वा विपश्चित्' इत्यादिना परमात्मनः प्रकरणात् प्रकृतत्वात् 'क इत्था वेद यत्र सः' इति दुर्विज्ञेयत्वरूपासाधारणलिङ्गाच्चेत्यर्थः॥


पूर्वं ब्रह्मक्षत्रपदस्य मृत्युपदसांनिध्यादनित्यवस्तुपरत्ववदिहापि पिबच्छब्दस्य संनिहितगुहाप्रवेशादिना बुद्धिक्षेत्रज्ञपरत्वमस्त्विति दृष्टान्तसङ्गत्येदमाह—

... गुहाप्रविष्टाधिकरणम्।

गुहां प्रविष्टावात्मानौ हि तद्दर्शनात्॥१..११॥

अत्र पूर्वपक्षे बुद्धिभिन्नजीवज्ञानम्, सिद्धान्ते तु जीवविलक्षणपरमात्मज्ञानमिति फलभेदः। कठवल्लीष्वेवं श्रूयते—

'ऋतं पिबन्तौ सुकृतस्य लोके' इत्यादि। तत्र किं बुद्धिजीवौ निर्दिष्टौ, उत जीवपरमात्मानाविति विशये, बुद्धिजीवाविति पूर्वः पक्षः। सिद्धान्तस्तु— इह गुहां प्रविष्टौ जीवपरमात्मानावेव। कुतः, आत्मानौ हि, हि यस्मादात्मानौ चेतनौ, 'ऋतं पिबन्तौ' इति कर्मफलभोगश्रवणेन एकस्यात्मत्वे द्वितीयस्याप्यात्मत्वं न्याय्यम्। तत्र हेतुः तद्दर्शनात् सङ्ख्याश्रवणे च सङ्ख्यावतोरेकरूपत्वस्य लोके दर्शनादित्यर्थः॥


इतश्च जीवपरमात्मानावेव गुहां प्रविष्टावित्याह—

विशेषणाच्च॥१..२॥

'सोऽध्वनः पारमाप्नोति...' 'देवं मत्वा धीरो हर्षशोकौ जहाति' इति जीवपरमात्मनोरेवास्मिन्प्रकरणे गन्तृगन्तव्यभावेन च विशेषितत्वादित्यर्थः॥


पूर्वं प्राथमिकपिबन्ताविति द्वित्वश्रुत्या चेतनत्वेन तुल्यजीवपरदृष्ट्यनुसाराच्चरमश्रुता गुहाप्रवेशादयो नीताः। तर्हि तदेव 'दृश्यते' इति प्राथमिकप्रत्यक्षत्वोक्त्या अक्षिप्रतिबिम्बात्मावगत्यनुरोधाच्चरमश्रुता अमृतत्वादयः स्तुत्यर्थत्वेन कथञ्चिन्नेया इति दृष्टान्तसङ्गत्येदमाह—

... अन्तराधिकरणम्।

अन्तर उपपत्तेः॥१..३॥

अत्र पूर्वपक्षे प्रतिबिम्बोपास्तिः, सिद्धान्ते ब्रह्मोपास्तिरिति फलभेदः। उपकोसलविद्यायां छान्दोग्ये श्रूयते—'य एषोक्षिणि पुरुषो दृश्यत एष आत्मेति होवाच' इत्यादि। तत्र अक्षिण्यन्तरुपदिश्यमानः प्रतिबिम्बादिः, उत परमात्मेति संशये, प्रतिबिम्बादिरिति पूर्वः पक्षः। सिद्धान्तस्तु— अन्तरः अक्षिमध्यगतः परमात्मैवोपदिश्यते। कुतः, उपपत्तेः आत्मत्वामृतत्वाभयत्वादीनामिहोक्तानां परमात्मन्येवोपपत्तेः। 'एतं संयद्वाम इत्याचक्षते' इत्यादिनिर्दिष्टसंयद्वामत्वादीनां च परमात्मन्येव, न प्रतिबिम्बेऽन्यत्र वोपपत्तिः। अतः अक्ष्यन्तरः पुरुषः परमात्मैवेत्यर्थः॥


ननु सर्वगतस्याल्पमक्षिस्थानं न सम्भवति इति पूर्वपक्षबीजं दूषयितुमिदमाह—

स्थानादिव्यपदेशाच्च॥१..४॥

'यश्चक्षुषि तिष्ठन्' इत्यादिचक्षुरादीनि स्थानान्यादयो येषाम् 'तस्योदिति नाम' 'हिरण्यश्मश्रुः' इत्यादिनामरूपाणां तेषामुपासनार्थत्वेन व्यपदेशादिहापि परमात्मनोऽक्षिस्थानादिव्यपदेशो नानुपपन्न इत्यर्थः॥


प्रकरणादप्यक्षिस्थः परमात्मैवोपदिश्यत इत्याह—

सुखविशिष्टाभिधानादेव च॥१..५॥

'प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म' इति वाक्योपक्रमे श्रूयमाणं यत्सुखविशिष्टं ब्रह्म तस्यैवेहाभिधानादित्यर्थः॥


प्रकरणादक्षिस्थस्य ब्रह्मत्वमभिधाय लिङ्गादपि तदाह—

श्रुतोपनिषत्कगत्यभिधानाच्च॥१..६॥

श्रुता उपनिषत् रहस्यं ब्रह्मविज्ञानं यस्य स तथा, तस्य ब्रह्मविदो या गतिः देवयानाख्या 'अथोत्तरेण तपसा ब्रह्मचर्येण' इत्यादिश्रुतौ 'अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम्' इति स्मृतौ च प्रसिद्धा। तस्या गतेरिहापि 'आदित्याच्चन्द्रमसम्'

इत्यादावभिधानादक्षिस्थस्य ब्रह्मत्वं निश्चीयत इत्यर्थः॥


इत्थं सिद्धान्तमभिधाय पूर्वपक्षं प्रत्याह—

अनवस्थितेरसम्भवाच्च नेतरः॥१..७॥

उपासकस्य सर्वत्राक्षिणि प्रतिबिम्बसम्पादकबिम्बभूतपुरुषान्तरस्यानवस्थानात् असम्भवाच्च अमृतत्वादिगुणानां न च्छायात्मादिरितरः। अतः परमात्मैवाक्षिस्थान उपदिश्यत इति सिद्धम्॥


पूर्वं 'स्थानादिव्यपदेशाच्च' इति सूत्रे 'यः पृथिव्यां तिष्ठन्' इत्याद्यन्तर्यामिब्राह्मणस्थम् 'यश्चक्षुषि तिष्ठन्' इत्यादिवाक्यम् अन्तर्यामिणो ब्रह्मत्वं सिद्धवत्कृत्योदाहृतम्। तदाक्षिप्य समाधत्त इत्याक्षेपसङ्गत्येदमाह—

... अन्तर्याम्यधिकरणम्।

अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात्॥१..१८॥

अत्र पूर्वपक्षे प्रधानस्य योगिनो जीवस्य वोपास्तिः, सिद्धान्ते परमात्मन एवेति फलभेदः। बृहदारण्यके श्रूयते— यः पृथिव्यां तिष्ठन्...' पृथिवीमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः' इत्यादि। तत्र अन्तर्यामी प्रधानम्, उत अणिमादिविशिष्टो जीवः,

उताहो परमात्मेति विशये, प्रधानजीवाविति पूर्वः पक्षः। सिद्धान्तस्तु— इह अधिदैवादिषु श्रूयमाणोऽन्तर्यामी परमात्मैव। कुतः,

तद्धर्मव्यपदेशात् तस्य परमात्मनो ये धर्माः सर्वान्तर्यामित्वात्मत्वामृतत्वादयः साधारणाः तेषामिह व्यपदेशादित्यर्थः॥


ननु प्रधानमन्तर्याम्यस्त्वित्याशङ्क्याह—

न च स्मार्तमतद्धर्माभिलापात्॥१..९॥

स्मार्तं साङ्ख्यं स्मृतिकल्पितं प्रधानं नान्तर्यामि। कुतः, अतद्धर्माभिलापात्। अत्र तच्छब्देन प्रधानमुच्यते, न तत् अतत्, प्रधानभिन्नपरमात्मा, तस्यैव चेतनस्य ये धर्माः 'अदृष्टो द्रष्टाश्रुतः श्रोता...' इति वाक्यशेषे श्रूयमाणादृष्टत्वादयः, तेषामिहाभिलापात् अभिधानादित्यर्थः॥


ननु तर्हि चेतनो जीवो योगी भवत्वन्तर्यामीत्यत आह—

शारीरश्चोभयेऽपि हि भेदेनैनमधीयते॥१..२०॥

शारीरो नान्तर्यामीति पूर्वसूत्रात् नञोऽनुषङ्गः। कस्मात् उभयेऽपि 'यो विज्ञाने तिष्ठन्...' इति काण्वाः, 'य आत्मनि तिष्ठन्...' इति माध्यन्दिनाः, तेऽप्यन्तर्यामिणो भेदेन एनं शारीरं पृथिव्यादिवदधिष्ठानत्वेन नियम्यत्वेन च अधीयते। अतोऽधिदैवादिष्वन्तर्यामी परमात्मैवेति सिद्धम्॥


पूर्वं प्रधानविरोधिद्रष्टृत्वादिधर्मवशात् न प्रधानमन्तर्यामीत्युक्तम्। तर्हि तद्विरोधिधर्माणामत्राश्रवणात् प्रधानमेवादृश्यत्वादिगुणको भूतयोनिः स्यादिति प्रत्युदाहरणसङ्गत्येदमाह—

... अदृश्यत्वाद्यधिकरणम्।

अदृश्यत्वादिगुणको धर्मोक्तेः॥१..२१॥

पूर्वपक्षे प्रधानस्य शारीरस्य वा ध्यानम्, सिद्धान्ते निर्विशेषब्रह्मज्ञानमिति फलभेदः। मुण्डके श्रूयते— 'यत्तदद्वेश्यमग्राह्यम्...' तदव्ययं यद्भूतयोनि परिपश्यन्ति धीराः इति। तत्र किम् अदृश्यत्वादिगुणको भूतयोनिः प्रधानम् उत शारीरः, किं वा परमात्मेति सन्देहे, प्रधानशारीराविति पूर्वः पक्षः। सिद्धान्तस्तु— 'यत्तदद्रेश्यम्...' इत्यादौ श्रुता अदृश्यत्वादयो गुणाः यस्य, सोऽदृश्यत्वादिगुणको भूतयोनिः परमात्मैव। कुतः, धर्मोक्तेः 'यः सर्वज्ञः सर्ववित्' इत्यादिश्रूयमाणसर्वज्ञत्वादेः परमेश्वरधर्मस्य भूतयोनौ निर्देशात्। न ह्यचेतने प्रधाने किञ्चिज्ज्ञे शारीरे वा सर्वज्ञत्वादिधर्मः सम्भवति, येन भूतयोनिता स्यात्। अतो भूतयोनिः परमात्मैवेत्यर्थः॥


भूतयोनेः परमात्मत्वे हेत्वन्तरमाह—

विशेषणभेदव्यपदेशाभ्यां च नेतरौ॥१..२२॥

विशेषणं च भेदव्यपदेशश्च विशेषणभेदव्यपदेशौ ताभ्याम् इतरौ प्रधानजीवौ न भूतयोनी भवतः। तत्र 'दिव्यो ह्यमूर्तः पुरुषः...' इत्यादिना दिव्यत्वादिविशेषणश्रवणात् न जीवः। 'अक्षरात्परतः परः' इत्यक्षरस्याव्याकृतस्य परमात्मनश्च भेदेन व्यपदिष्टत्वात् न प्रधानं भूतयोनिः। अपि तु परात्मैवेत्यर्थः॥


भूतयोनेः परमात्मत्वे हेत्वन्तरमाह—

रूपोपन्यासाच्च॥१..२३॥

'अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यो' इत्यादिसर्वकार्यात्मकरूपस्योपन्यासात् परमात्मैव भूतयोनिरिति वृत्तिकारमतम्। 'पुरुष एवेदं विश्वं कर्म' इत्यादिसर्वात्मकरूपोपन्यासात् परमात्मैव भूतयोनिरिति भगवत्पादीयमतम्॥


पूर्वं रूपोपन्यासप्रसङ्गात् त्रैलोक्यदेही वैश्वानरोऽत्र स्मृतो विचार्यत इति प्रसङ्गसङ्गत्येदमाह। यद्वा, पूर्वम् उपक्रमस्थादृश्यत्वादिसाधारणधर्मस्य वाक्यशेषस्थसर्वज्ञत्वादिलिङ्गेन ब्रह्मनिष्ठत्वमुक्तम्। तद्वदत्राप्युपक्रमस्थसाधारणवैश्वानरशब्दस्य वाक्यशेषस्थहोमाधारत्वलिङ्गेन जाठरनिष्ठत्वमस्त्विति दृष्टान्तसङ्गत्येदमाह—

... वैश्वानराधिकरणम्।

वैश्वानरः साधारणशब्दविशेषात्॥१..२४॥

अत्र पूर्वपक्षे जाठरादेरुपास्तिः, सिद्धान्ते ब्रह्मण इति फलभेदः। छान्दोग्ये वैश्वानरविद्यायाम् 'को न आत्मा किं ब्रह्म' इति 'आत्मानमेवेमं वैश्वानरम्...' इति चोपक्रम्याम्नायते— 'यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते' इत्यादि। तत्र किं वैश्वानरो जाठराग्निः, उत भूताग्निः, उत आदित्यादिदेवता, आहो शारीरः, आहोस्वित् परमेश्वर इति विशये, जाठरादिरिति पूर्वः पक्षः। सिद्धान्तस्तु— वैश्वानरः परमात्मैव। कुतः? साधारणशब्दविशेषात् साधारणशब्दयोर्विशेषः तस्मादित्यर्थः। जाठरभूताग्न्यादित्यदेवतासु साधारणो वैश्वानरशब्दः। जीवपरमात्मनोः साधारणः आत्मशब्दः। तयोः वैश्वानरात्मशब्दयोः उभयत्र साधारणयोरपि सतोः परमात्मपरत्व एव विशेषोऽवगम्यते। 'तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाः' इत्यादौ उक्तद्युमूर्धत्वादिः सर्वात्मकपरमात्मपरत्व एव विशेषोऽवगम्यते, उपपन्नतरत्वात्। तस्मात् वैश्वानरः परमात्मैव, न जाठरः। चरमश्रुत होमाधारत्वापेक्षया प्रथमश्रुतद्युमूर्धत्वादेर्बलवत्वादिति सिद्धम्॥


स्मृत्या च श्रुत्यर्थः शक्यो निर्णेतुमित्याह—

स्मर्यमाणमनुमानं स्यादिति॥..२५॥

वैश्वानरशब्दस्य परमात्मपरत्वे स्मर्यमाणम् 'यस्याग्निरास्यं द्यौर्मूधी खम्...' इत्यादिस्मृत्युक्तत्रैलोक्यात्मकं रूपम्, अनुमानं स्यात् अनुमापकं लिङ्गं स्यादित्यर्थः। एवञ्च स्मृतौ परमेश्वरस्यैवोक्तत्वात् तन्मूलभूतश्रुतौ विद्यमानवैश्वानरशब्दः परमात्मपर एवेति तात्पर्यम्। सूत्रे इतिशब्दः हेतौ। यस्मादेवं लिङ्गमस्ति तस्माद्वैश्वानरः परमात्मैवेति सिद्धम्॥


सिद्धान्तविधिं विधान्तरेणाक्षिप्य समाधातुमाह—

शब्दादिभ्योऽन्तःप्रतिष्ठानाच्च नेति चेन्न तथादृष्ट्युपदेशादसम्भवात्पुरुषमपि चैनमधीयते॥१..२६॥

शब्दस्तावत् वैश्वानरशब्दो न परमात्मपरः, जाठरादौ रूढत्वात्। आदिशब्देन 'हृदयं गार्हपत्यः' इत्याद्यग्नित्रितयकल्पनम् 'तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयम्' इत्यादिना प्राणाहुत्याधारतासङ्कीर्तनं च गृह्यते। एतेभ्यो हेतुभ्यो जाठर एव वैश्वानरः। किञ्च अन्तः प्रतिष्ठानात् 'पुरुषेऽन्तः प्रतिष्ठितं वेद' इति वैश्वानरस्य अन्तः प्रतिष्ठानश्रवणात् जाठर एव वैश्वानरो न परमात्मेति चेत्, न। कुतः, तथादृष्ट्युपदेशात् तथा जाठररूपेण परमेश्वरस्य दृष्टेः उपास्ते उपदेशात्, 'मनोमयः...' इत्यादिवत्। अथवा तथा तस्मिन् जाठरे परमेश्वरदृष्टेरुपदेशात् 'मनो ब्रह्मेत्युपासीत' इतिवत्। ननु जाठर एव वैश्वानरो मुख्योऽस्तु तत्राह— असम्भवादिति। 'मूर्धेव सुतेजाः' इत्यादेः जाठरे तावदसम्भवादित्यर्थः। किञ्च पुरुषमपि चैनं वैश्वानरं वाजसनेयिनोऽधीयते— 'एतमेवमग्निं वैश्वानरं पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेद' इति। अतः परमेश्वरस्य सर्वात्मकतया पुरुषविधत्वाद्युपपत्तेः वैश्वानरः परमात्मैवेति सिद्धम्॥


इत्थं द्युमूर्धत्वादिविशेषस्य जाठरविषयत्वं सन्दृष्य देवतादिविषयत्वं दूषयितुमाह—

अत एव न देवताभूतं च॥१..२७॥

देवता च भूतं च देवताभूतम्। एकवद्भावः। उभयमपि न वैश्वानरः। कुतः। अत एव उक्तेभ्यो हेतुभ्यः। न हि विकारस्य भूताग्नेः विकारान्तरद्युलोकाद्यात्मकत्वं सम्भवति। न च देवताया ऐश्वर्ययोगात्तदस्त्विति वाच्यम्, तस्याः परमेश्वराधीनैश्वर्यवत्त्वात्। अतो वैश्वानरः सर्वात्मकपरमात्मैवेत्यर्थः॥


पूर्वं जाठरार्थकत्वं वैश्वानरादिशब्दस्याभ्युपेत्य जाठरोपाधिकं जाठरप्रतीकं वा ब्रह्मोपास्यमित्यभिहितम्। अधुना विना वैश्वानरोपाधिकल्पनां साक्षादेव परमात्मोपासनापरिग्रहे विरोधाभावं जैमिनिराचार्यो मन्यत इत्याह—

साक्षादप्यविरोधं जैमिनिः॥१..२८॥

वैश्वानरस्य पूर्वापरपर्यालोचनया ब्रह्मत्वे निर्णीते, विश्वसौ नरति विश्वानरः सर्वात्मकः, विश्वानर एव वैश्वानर इति योगेन वैश्वानरशब्दो ब्रह्मपरतया नेतव्य इति तात्पर्यार्थः॥


ननु परमात्मपरत्वे कथं प्रादेशमात्रश्रुतिः इत्याशङ्क्य तां व्याख्यातुमाह—

अभिव्यक्तेरित्याश्मरथ्यः॥१..२९॥

अनवच्छिन्नस्यापि परमात्मनः प्रादेशमात्रत्वमुपपद्यते। कुतः, अभिव्यक्तेः उपासकानामनुग्रहाय परमेश्वरो हृदयादिस्थानेषु प्रादेशपरिमाणोऽभिव्यञ्ज्यते किलेत्याश्मरथ्याचार्यो मन्यत इत्यर्थः॥


मतान्तरमाह—

अनुस्मृतेर्बादरिः॥१..३०॥

प्रादेशमात्रहृदयपुण्डरीकस्थेन मनसा अनुस्मृतेर्ध्यानात् प्रादेशमात्र इत्युपचर्यत इति बादरिराचार्यो मन्यत इति॥


मतान्तरमाह—

सम्पत्तेरिति जैमिनिस्तथाहि दर्शयति॥१..३१॥

मूर्धप्रभृति चुबुकान्ते प्रादेशमात्रे वैश्वानरस्योपास्यत्वप्रतिपादनात् परमेश्वरस्य प्रादेशमात्रत्वं सम्पन्नम्। ततः प्रादेशमात्रत्वसम्पत्तेः प्रादेशमात्रश्रुतिरुपपद्यत इति जैमिनिराचार्यो मन्यते। अस्मिन्नर्थे श्रुत्यन्तरसंवादमाह सूत्रकारः— तथाहि दर्शयति। 'प्रादेशमात्रमिव ह वै देवाः सुविदिता अभिसम्पन्नाः' इत्यादि वाजसनेयब्राह्मणं मूर्धादिचुबुकान्तेषु द्युप्रभृतीन् पृथिव्यन्तानवयवान् त्रैलोक्यात्मनो वैश्वानरस्य सम्पादयत् प्रादेशमात्रत्वसम्पत्तिं परमात्मनो दर्शयतीत्यर्थः॥


प्रादेशमात्रश्रुतिः सम्पत्तिनिमित्ता इत्यत्र श्रुत्यन्तरमाह—

आमनन्ति चैनमस्मिन्॥१..३२॥

अस्मिन्प्रादेशपरिमाणे मूर्धचुबुकान्तराले एनं परमेश्वरं जाबालाः 'य एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इति...' इत्याद्यामनन्ति। अतः प्रादेशमात्रश्रुतिरुपपन्नेत्यर्थः। तस्मात्सर्वात्मकः परमात्मैवेहोपास्य इत्यतिशोभनम्॥


इति श्रीब्रह्मतत्त्वप्रकाशिकायां प्रथमाध्यायस्य द्वितीयः पादः॥


No comments: