Brahmatattvaprakashika, a vritti on Brahmasutras by Bhagavan Sadashivabrahmendra 1.4

 

चतुर्थः पादः॥


पूर्वमीक्षत्यधिकरणे गतिसामान्यमशब्दत्वं च प्रतिज्ञाय तत्र वेदान्तानां ब्रह्मणि गतिसामान्यं पादत्रयेण प्रत्यपादि। अधुना प्रधानस्याशब्दत्वमाक्षिप्य समाधीयत इत्याक्षेपसङ्गत्या चतुर्थपादोऽयमारभ्यते। पूर्वम् 'सुषुप्त्युत्क्रान्त्योर्भेदेन' इत्यत्र

प्रसिद्धजीवोक्तिभङ्गेनाप्रसिद्धब्रह्मोक्तिवदप्रसिद्धप्रधानोक्तिपरमेव काठकवाक्यमस्त्विति दृष्टान्तसङ्गत्येदमधिकरणमारभ्यते—

... आनुमानिकाधिकरणम्।

आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च॥१..१॥

अत्र पूर्वपक्षे ब्रह्मण्येव वेदान्तानां समन्वय इति नियमाभावः फलम्, सिद्धान्ते तादृङ्नियम इति विवेकः। कठवल्लीषु श्रूयते— 'महतः परमव्यक्तमव्यक्तात्पुरुषः परः' इति। तत्र किमव्यक्तशब्देन प्रधानमुच्यते, उत पूर्वप्रकृतं शरीरमिति संशये, साङ्ख्यस्मृतौ

महदव्यक्तपुरुषशब्दानां तत्तत्प्रत्यये प्रसिद्धत्वात् आनुमानिकम् अनुमानगम्यं प्रधानमप्येकेषां शाखिनां प्रत्यक्षमव्यक्तशब्देन पठ्यत इति अशब्दत्वमसिद्धमिति चेदिति पूर्वः पक्षः। सिद्धान्तस्तु— न प्रधानम्। कुतः, शरीररूपकविन्यस्तगृहीतेः 'शरीरं रथमेव तु' इत्यस्मिन्पूर्ववाक्ये शरीरस्य रथरूपकेण विन्यस्तस्य कल्पितस्याव्यक्तशब्देन गृहीतेः ग्रहणात्। कथं तच्छब्दग्राह्यं शरीरमित्यत आह— दर्शयति च। पूर्वापरवाक्यसन्दर्भः पर्यालोच्यमान औचित्येन प्रकृतं शरीरमेवाव्यक्तशब्दग्राह्यं दर्शयतीत्यर्थः॥


ननु स्थूलशरीरस्य व्यक्तशब्दार्हस्य कथमव्यक्तशब्दार्हत्वमित्यत आह—

सूक्ष्मं तु तदर्हत्वात्॥१..२॥

दर्शयतीत्यनुषङ्गः। तुशब्दः शङ्कानिरासार्थः। स्थूलशरीरारम्भकं भूतसूक्ष्मं कारणमव्यक्तशब्देन दर्शयति। कुतः, तदर्हत्वात् अव्यक्तशब्दार्हत्वादित्यर्थः। 'गोभिः श्रीणीतमत्सरम्' इत्यादिवत्प्रकृतिवाचकशब्देन विकारो लक्ष्यत इति भावः॥


ननु भूतसूक्ष्माव्यक्ताङ्गीकारे तस्यैव प्रधानत्वेन साङ्ख्यैरङ्गीकृतत्वात्तद्वादः प्राप्त इत्यत आह—

तदधीनत्वादर्थवत्॥१..३॥

न स्वतन्त्रप्रधानवादोऽस्माभिरङ्गीकृतः। कस्मात् तदधीनत्वात् ईश्वराधीनत्वादव्यक्तस्य। तर्हि ईश्वरादेवास्तु जगदुत्पत्तिः, किं तेन। अत आह— अर्थवत्। 'मायिनं तु महेश्वरम्' इति श्रुतावव्यक्तस्येश्वरसहकारित्वावगमात्प्रयोजनवदव्यक्तमित्यर्थः॥


अव्यक्तं न प्रधानमित्यत्र हेत्वन्तरमाह—

ज्ञेयत्वावचनाच्च॥१..४॥

प्रधानपुरुषविवेकात्कैवल्यं वदद्भिः साङ्ख्यैर्ज्ञेयत्वेन प्रधानमभिधीयते। न चात्राव्यक्तशब्दमात्रमन्तरेण ज्ञातव्यमव्यक्तमिति वचः समस्ति। अतो ज्ञेयत्वस्य अवचनात् अनभिधानात् नाव्यक्तं प्रधानमित्यर्थः॥


ननु ज्ञेयत्वावचनमसङ्गतमित्याशङ्क्याह—

वदतीति चेन्न प्राज्ञो हि प्रकरणात्॥१..५॥

'महतः परं ध्रुवं निचाय्य' इत्युत्तरवाक्यमव्यक्तशब्दितं प्रधानं ज्ञेयत्वेन वदतीति चेत्, न। प्राज्ञो हि परमात्मा हि निचाय्यत्वेन निर्दिष्टः, न प्रधानम्। कस्मात्, 'पुरुषान्न परं किञ्चित्' इत्याद्यात्मप्रकरणादित्यर्थः॥


इतश्च न प्रधानमंत्र ग्राह्यमित्याह—

त्रयाणामेव चैवमुपन्यासः प्रश्नश्च॥१..६॥

त्रयाणामेव अग्निजीवपरमात्मनामेव। एवम् उत्तरवाक्यपर्यालोचनया वक्तव्यत्वेनोपन्यासः। तद्विषय एव प्रश्नोऽपि दृश्यते कठवल्लयाम्— 'स त्वमग्निम्' इत्याद्यग्निप्रश्नः। 'येयं प्रेते विचिकित्सा' इति जीवप्रश्नः। 'अन्यत्र धर्मात्' इत्यादि परमात्मप्रश्नः। अतो नाव्यक्तं प्रधानमित्यर्थः॥


श्रौतोऽव्यक्तशब्दो न साङ्ख्यासाधारणतत्त्वगोचरः, वैदिकशब्दत्वात् महच्छब्दवदित्याह—

महद्वच्च॥१..७॥

'बुद्धेरात्मा महान्परः' इति श्रुतो महच्छब्दो यथा न साङ्ख्याभिमतद्वितीयसत्तामात्रतत्त्ववाची, आत्मशब्दप्रयोगात्, तद्वन्न वैदिकाव्यक्तशब्दोऽपि प्रधानवाची। अतः शरीरमेवाव्यक्तशब्दितमिति सिद्धम्॥


पूर्वमव्यक्तशब्दमात्रेण प्रधानस्य अप्रत्यभिज्ञायामप्यत्र त्रिगुणत्वादिलिङ्गोपेतादजाशब्दात्प्रत्यभिज्ञा अस्त्विति प्रत्युदाहरणसङ्गत्येदमाह—

... चमसाधिकरणम्।

चमसवदविशेषात्॥१..८॥

अत्र पूर्वपक्षे ब्रह्मणि समन्वयासिद्धिः, सिद्धान्ते तत्सिद्धिरिति फलभेदः। श्वेताश्वतरोपनिषदि श्रूयते— 'अजामेकां लोहितशुक्लृकृष्णाम्...(श्वे. . .)' इत्यादि। तत्र किमजाशब्देन प्रधानमुच्यते, उत तेजोबन्नात्मिकावान्तरप्रकृतिरिति संशये, न जायत इत्यजा साङ्ख्यसिद्धा प्रकृतिरिति पूर्वः पक्षः। सिद्धान्तस्तु— न प्रधानस्यासाधारण्येनात्र प्रत्यभिज्ञापकं किञ्चित्समस्ति, लोहितादिशब्दानां वर्णविशेष एव रूढत्वात्, न रजआदौ। न जायते इत्यजेत्यन्यत्रापि साधारण्यादत्र निर्धारणाभावे दृष्टान्तः— चमसवत्। यथा 'अर्वाग्बिलश्चमसः' इत्यादावयं चमस इत्यवधारणं न सम्भवति, कथञ्चिदर्वाग्बिलत्वादेः अन्यत्राप्यविशेषात्। एवमजामन्त्रेऽप्यजात्वादेरविशेषान्न प्रधाननिर्णय इति अशब्दं प्रधानमित्यर्थः॥


ननु केयमजा प्रतिपत्तव्येत्यवाह—

ज्योतिरुपमा तु तथा ह्यघीयत एके॥१..९॥

ज्योतिस्तेज उपक्रमे यस्याः तेजोबन्नलक्षणायाः सा ज्योतिरुपक्रमा। तुशब्दोऽवधारणे। सैवेह निर्धारणीया, न प्रधानम्।

कस्मात्, तथा ह्यधीयत एके। हि यस्मात् एके छन्दोगाः तेजोबन्नात्मिकायाः प्रकृतेः 'यदग्ने रोहितं रूपम्' इत्यादिना

रोहितादिरूपवत्तामधीयते समामनन्ति, तथेह लोहितादिशब्दसाम्यात्तान्येव तेजोबन्नानि प्रत्यभिज्ञायन्त इति समञ्जसम्॥


नन्वजाशब्दस्य छागे रूढत्वात्कथं तेजोबन्नात्मकप्रकृतिपरत्वमित्यत आह—

कल्पनोपदेशाच्च मध्वादिवदविरोधः॥१..१०॥

चशब्दः शङ्कानिरासार्थः। तेजोबन्नात्मकप्रकृतौ नाजात्वानुपपत्तिः। कुतः, कल्पनोपदेशात् यथा लोके प्रसिद्धामजां

भुक्तभोगामेकोऽजस्त्यजति अन्यस्तामनुवर्तते, एवं त्यागभोगयोः कार्यकारणसङ्घाताद्युपादानतेजोबन्नात्मकप्रकृतेः साम्यद्योतनार्थं कल्पनया अजात्वस्योपदेशात्। यथा मधुभिन्नादित्यस्य 'असौ वादित्यो देवमधु' इति मधुत्वोपदेशः, तद्वदजाभिन्नायाः प्रकृतेः अजात्वोपदेशे न कञ्चिद्विरोधः। तस्मान्नात्र प्रधानस्यावकाश इत्यशब्दं प्रधानमिति सिद्धम्॥

पूर्वमाध्यात्मिकाधिकारे प्रसिद्धच्छागग्रहणायोगात् अजा तेजआदिकेत्युक्तम्। तथा 'यस्मिन्पञ्चपञ्चजनाः' इति मन्त्रे पञ्चजनशब्देन प्रसिद्धम्नुष्यग्रहणायोगात्साङ्ख्याभिमतपञ्चविंशतितत्त्वग्रहणमस्त्विति दृष्टान्तसङ्गत्येदमाह—

... सङ्ख्योपसङ्ग्रहाधिकरणम्।

न सङ्ख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च॥१..११॥

अत्र फलं पूर्ववद्द्रष्टव्यम्। बृहदारण्यके श्रूयते— 'यस्मिन्पञ्चपञ्चजना आकाशश्च प्रतिष्ठितः' इत्यादि। तत्र किं पञ्चजनशब्देन मूलप्रकृत्यादीनि पञ्चविंशतितत्त्वान्युच्यन्ते, उत वाक्यशेषगताः प्राणादय इति संशये, तत्त्वानीति पूर्वः पक्षः। सिद्धान्तस्तु—

अस्मिन्मन्त्रे श्रूयमाणया पञ्चविंशतिसङ्ख्यया स्मृतिसिद्धपञ्चविंशतितत्त्वानामुपसङ्ग्रहादपि न प्रधानस्य शब्दवत्त्वम्। कुतः, नानाभावात् तेषां पञ्चानां पञ्चकानामेकपञ्चकपर्याप्तान्यपञ्चकव्यावृत्तधर्मवत्त्वाभावेन नानात्वात्। नानात्वेऽपि

कथञ्चित्पञ्चविंशतिसङ्ख्याङ्गीकारे बाधकान्तरमाह— अतिरेकाच्च। अस्मिन्मन्त्रे श्रूयमाणयोरात्माकाशयोः पञ्चविंशतितत्त्वातिरिक्तत्वात्सप्तविंशतितत्त्वप्राप्तावपसिद्धान्तापातः। तस्मान्नात्र प्रधानादितत्त्वग्रहणमुचितम्॥


ननु ते पञ्चत्वसङ्ख्याकाः पञ्चजनाः क इत्यपेक्षायामाह—

प्राणादयो वाक्यशेषात्॥१..१२॥

प्राण एव आदिर्येषां प्राणचक्षुःश्रोत्रान्नमनसां ते प्राणादयः पञ्चजनशब्देनोच्यन्ते। कस्मात् वाक्यशेषात् 'प्राणस्य प्राणमुत चक्षुषश्चक्षुः' इत्यादिवाक्यशेषस्थत्वादित्यर्थः॥


नन्वस्तु माध्यन्दिनानां प्राणादिष्वन्नस्याम्नानात्पञ्चसङ्ख्या। काण्वानां तु तदाम्नानात्कथं पञ्चसङ्ख्येत्यत आह—

ज्योतिषैकेषामसत्यन्ने॥१..१३॥

एकेषां काण्वानामसत्यन्ने 'तद्देवा ज्योतिषां ज्योतिः' इत्यादिपूर्वं वाक्यस्थज्योतिषा पञ्चत्वं पूरणीयम्। अतः प्रधानमशब्दमिति सिद्धम्॥


इत्थमधिकरणत्रयेण प्रधानस्याशब्दत्वसाधनेन ब्रह्मणि वेदान्तानां समन्वयः साधितः। अधुना तेषामेव परस्परविरुद्धार्थप्रतिपादकत्वेनानिश्चायकत्वादनुमानसिद्धप्रधानपर एवोक्तसमन्वयोऽस्त्वित्याक्षेपसङ्गत्या, पूर्वं पञ्चत्वसङ्ख्यापूरणमन्नेन ज्योतिषा वेति विकल्पस्याविरोधेऽपि प्रकृते कारणे वस्तुनि विकल्पायोगाद्विरोधे सत्यप्रामाण्यं वाक्यानामिति प्रत्युदाहरणलक्षणावान्तरसङ्गत्या चेदमाह—

... कारणत्वाधिकरणम्।

कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः॥१..१४॥

अत्र पूर्वोत्तरयोः पक्षयोः समन्वयासिद्धिः, तत्सिद्धिरिति फलभेदः। अत्र जगत्कारणत्वादिवाक्यानि ब्रह्मणि मानं न वेति विशये, तेषां परस्परविरोधदर्शनान्न मानमिति पूर्वः पक्षः। सिद्धान्तस्तु— चशब्दः शङ्कानिरासार्थः। ब्रह्मणः कारणत्वे विरोधो नास्ति। कुतः, आकाशादिषु यथाव्यपदिष्टोक्तेः यथाभूत ईश्वरः कारणत्वेन व्यपदिष्ट एकस्मिन्वेदान्तवाक्ये तथाभूतस्यैवापरस्मिन्वाक्येऽपि उक्तेरभिधानादित्यर्थः॥


ननु क्वचिदसतः क्वचित्सत उत्पत्तिश्रवणाद्विरोध इत्याशङ्क्याह—

समाकर्षात्॥१..१५॥

'असदेवेदमग्र आसीत्' इत्यनभिव्यक्तनामरूपवाचिना असच्छब्देन सत एव समाकर्षात् नासतः कारणत्वशङ्कावकाशः। अतो जगत्कारणत्ववादिवाक्यसमन्वयो ब्रह्मण्येवेति सिद्धम्॥


पूर्वमेकवाक्यस्थसच्छब्दबलादसच्छब्दो नीतः। इह तु वाक्यभेदात् 'ब्रह्म ते ब्रवाणि' इति बालाकिवाक्यस्थब्रह्मशब्देन प्राणादिशब्दो ब्रह्मपरत्वेन नेतुमशक्य इति प्रत्युदाहरणसङ्गत्येदमाह—

... बालाक्यधिकरणम्।

जगद्वाचित्वात्॥१..१६॥

अत्र पूर्वपक्षे वाक्यस्य प्राणाद्युपासनापरत्वाद्ब्रह्मणि समन्वयासिद्धिः, सिद्धान्ते तत्सिद्धिरिति फलभेदः। कौषीतकिब्राह्मणे श्रूयते— यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्म स वै वेदितव्यः' इति। तत्र वेदितव्यः कर्ता किं प्राणः, उत जीवः, आहोस्वित्परमात्मेति विशये, 'यस्य वैतत्कर्म' इति चलनात्मककर्मणः प्राणस्यैव सम्भवात् 'एवमेवैष प्रज्ञात्मैत्तैरात्मभिर्भुङ्क्ते' इति

जीवलिङ्गाच्च प्राणजीवाविति पूर्वः पक्षः। सिद्धान्तस्तु—पुरुषाणां कर्ता परमात्मैव। कुतः, 'ब्रह्म ते ब्रवाणि' इति ब्रह्मण

एवोपक्रमात्। क्रियत इति व्युत्पत्त्या कर्मशब्दस्य प्रत्यक्षाद्युपस्थापितजगद्वाचित्वात्। ननु पुरुषाणां जगदन्तर्भावात्तत्कर्तृत्वं किमिति पृथगुच्यत इति चेत्, न। बालाकिना ब्रह्मत्वेनोक्तपुरुषाणामब्रह्मत्वद्योतनाय गोबलीवर्दन्यायेन पृथगुच्यत इति ध्येयम्॥


जीवमुख्यप्राणलिङ्गान्नेति चेत्तद्व्याख्यातम्॥१..१७॥

जीवमुख्यप्राणलिङ्गाच्च न ब्रह्मपरत्वावधारणमिति चेत्, तद्व्याख्यातं प्रतर्दनाधिकरणे 'नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात्' इति। प्रतर्दनविचारे कर्मपदस्याविचाराद्गतार्थता द्रष्टव्या॥


किञ्च—

अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके॥१..१८॥

जैमिनिराचार्योऽस्मिन्प्रकरणे जीवपरामर्शमन्यार्थं ब्रह्मप्रतिपत्त्यर्थं यतो मन्यतेऽतो ब्रह्मपरमेवेदं वाक्यम्। कुतो मन्यते,

प्रश्नव्याख्यानाभ्याम्। 'क्वैष एतद्बालाके पुरुषोऽशयिष्ट क्व वा एतदभूत्' इत्यादिप्रश्नः, 'यदा सुप्तः स्वप्नं न कंचन पश्यत्यथास्मिन्प्राण एवैकधा भवति' इत्युत्तरं व्याख्यानम्। ताभ्यां यस्मिञ्जीवस्य स्वापागमने भवतः, स एवात्र परमात्मा वेदितव्यतयोपदिष्टः। अपि चैके वाजसनेयिनो बालाक्यजातशत्रुसंवादे 'य एष विज्ञानमयः पुरुषः वैष तदाभूत्कुत एतदागात्' 'य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते' इति प्रश्नोत्तराभ्यां स्पष्टं विज्ञानमयातिरिक्तं परमात्मानमामनन्ति। अत एतत्कौषीतकीवाक्यं जगत्कर्तरि ब्रह्मणि समन्वितमिति सिद्धम्॥


पूर्वं ब्रह्मोपक्रमसामर्थ्याद्ब्रह्मपरत्वमुक्तम्। तर्हि तद्वदेव मैत्रेयी ब्राह्मणस्य 'न वा अरे पत्युः कामाय' इत्यादिजीवोपक्रमसामर्थ्यात् जीवपरत्वमस्त्विति दृष्टान्तसङ्गत्येदमाह—

... वाक्यान्त्रयाधिकरणम्।

वाक्यान्वयात्॥१..१९॥

फलं पूर्ववत्। बृहदारण्यके श्रूयते— आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यः' इत्यादि। तत्र किं जीवो द्रष्टव्यत्वादिरूपेण उपदिश्यते, किं वा परमात्मेति संशये, जीव इति पूर्वः पक्षः। सिद्धान्तस्तु— परमात्मैवात्र द्रष्टव्यतयोपदिष्ट आत्मा। कुतः, वाक्यान्वयात् उपक्रमादिपर्यालोचनया वाक्यस्य ब्रह्मण्येवान्वयादित्यर्थः॥


ननु पतिजायादिभोग्यजातेन लिङ्गेन जीवोपक्रमः प्रतीयते। स कथमित्याशङ्क्याह—

प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः॥१..२०॥

जीवब्रह्मणोहि कार्यकारणयोर्भेदाभेदौ वर्तेते। अत्यन्तभेदे एकविज्ञानेन सर्वविज्ञानप्रतिज्ञाविरोधप्रसङ्गात्। तथा च

तत्प्रतिज्ञासिद्धेरिममभेदांशमादाय जीवोपक्रमणं लिङ्गमित्याश्मरथ्य आचार्यो मन्यते॥


समाधानान्तरमाह—

उत्क्रमिष्यत एवम्भावादित्यौडुलोमिः॥१..२१॥

संसारदशायामत्यन्तं ब्रह्मणो भिन्नस्य जीवस्य ब्रह्मात्मत्वसाक्षात्कारात्कार्यकारणसङ्घातादुत्क्रमिष्यतः एवम्भावात् परमात्मनैकीभावात्, भविष्यद्भेदमादाय जीवोपक्रम इति औडुलोमिराचार्यो मन्यते॥


नन्विदमप्यसङ्गतम्, सत्यकार्यकारणसङ्घातवतः संसारिणोऽत्यन्तं ब्रह्मभिन्नस्य मुक्तिदशायामभेदायोगादित्यरुच्या परमं समाधानमाह—

अवस्थितेरिति काशकृत्स्नः॥१..२२॥

ब्रह्मण एवाविद्याकल्पितभेदेन जीवरूपेणावस्थितेः जीवोपक्रमोऽविरुद्ध इति काशकृत्स्न आचार्यः श्रुतितात्पर्यज्ञो मन्यते। अतो द्रष्टव्ये परब्रह्मणि मैत्रेयीब्राह्मणवाक्यं समन्वितमिति सिद्धम्॥


पूर्वम् 'जन्माद्यस्य यतः' इति सूत्रे ब्रह्मणो जगत्कारणत्वमभिहितम्। तदधुनात्र विचार्यते। एवञ्च सामान्यज्ञानस्य

विशेषविचारहेतुत्वात्तेन हेतुहेतुमद्भावसङ्गत्येदमाह—

... प्रकृत्यधिकरणम्।

प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्॥१..२३॥

अत्र पूर्वपक्षे एकविज्ञानात्सर्वविज्ञानप्रतिज्ञाया गौणत्वम्, सिद्धान्ते तन्मुख्यत्वमिति फलभेदः। तत्र किं ब्रह्मणो जगन्निमित्तत्वमात्वम्, उतोपादानत्वमपीति संशये, 'तदैक्षत' इति ईक्षणपूर्वककर्तृत्ववणान्निमित्तत्वमात्रमिति पूर्वः पक्षः। सिद्धान्तस्तु— प्रकृतिश्च ब्रह्म चकारान्निमित्तमपि। कुतः, प्रतिज्ञादृष्टान्तानुपरोधात् 'येनाश्रुतं श्रुतं भवति' इत्याद्येकविज्ञानेन सर्वविज्ञानप्रतिज्ञा, यथा सोम्यैकेन मृत्पिण्डेन सर्वे मृन्मयं विज्ञातं स्याद्वाचारम्भणम्' इत्यादिदृष्टान्तश्च तयोः सामञ्जस्यादित्यर्थः॥


किञ्च—

अभिध्योपदेशाच्च॥१..२४॥

'सोऽकामयत' इत्यात्मनो ध्यानोपदेशात्कर्तृत्वम्, 'बहुस्याम्' इति ध्यानोपदेशात्प्रकृतित्वम् इति॥


प्रकृतित्वे हेत्वन्तरमाह—

साक्षाच्चोभयाम्नानात्॥१..२५॥

'सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यन्ति' इत्याकाशशब्देन साक्षाद्ब्रह्म गृहीत्वा

जगदुत्पत्तिप्रलययोरुभयोराम्नानाद्ब्रह्म प्रकृतिरित्यर्थः॥


नन्वेकस्य कृतिमत्वं कृतिविषयत्वं च विरुद्धमित्याशङ्क्याह—

आत्मकृतेः परिणामात्॥१..२६॥

'तदात्मानं स्वयमकुरुत' इति आत्मानमिति द्वितीयया कृतिविषयत्वं स्वयमकुरुत इत्यनेन कृतिमत्त्वं चाम्नायते। तथा च ब्रह्मण उपादानत्वं निमित्तत्वं चाविरुद्धम्। कुतः, आत्मकृतेः आत्मसम्बन्धिनी कृतिरात्मकृतिः, ततो हेतोः। नन्वात्मनः कर्तृत्वेन पूर्वसिद्धस्य कथं कृतिकर्मत्वमत आह—परिणामात्। परिणामो विवर्तः। सिद्धस्यापि विवर्तात्मना साध्यत्वात्कर्मत्वोपपत्तिरित्यर्थः॥


किञ्च—

योनिश्च हि गीयते॥१..२७॥

'यद्भूतयोनिं परिपश्यन्ति' इति प्रकृतिवाचकयोनिशब्देन आत्मा हि यस्माद्गीयते, तस्मात् प्रकृतिः ब्रह्मेत्यतो ब्रह्मणः प्रकृतित्वं कर्तृत्वं च सिद्धम्॥


इत्थमभिहितेन न्यायेन 'ईक्षतेर्नशब्दम्' इत्यादिना अशब्दत्वादिहेतुभिः प्रधानकारणवादो यथा निराकृतः,

तथेहाणुस्वभावासत्कारणवादः। तेषामपि कारणत्वबोधकशब्दानां श्रुतत्वादिति प्रत्युदाहरणसङ्गत्येदमाह—

... सर्वव्याख्यानाधिकरणम्।

एतेन सर्वे व्याख्याता व्याख्याताः॥१..२८॥

अत्र पूर्वपक्षे ब्रह्मण्येव वेदान्तसमन्वयासिद्धिः, सिद्धान्ते तत्सिद्धिरिति फलभेदः। अत्र वेदान्ता विषयः। तत्र किं ब्रह्मण इव परमाणुशून्यादीनामपि क्वचिज्जगत्कारणत्वं श्रुतमस्ति, अथवा सर्वत्र ब्रह्मण एव सर्वकारणत्वं प्रतिनियतमिति संशये, 'अण्व्य इवेमा धानाः' 'असदेवेदमग्र आसीत्' 'स्वभावमेके' इत्यादिषु अण्वादीनामपि कारणत्वं श्रुतमिति पूर्वः पक्षः। सिद्धान्तस्तु— एतेन प्रधानवादनिराकरणे ये हेतवः अशब्दत्वाचेतनत्वैकविज्ञानप्रतिज्ञानुपपत्त्यादयः तेषामण्वादिपक्षेऽपि साम्येन, सर्वेऽण्वादिकारणवादा निराकृतत्वेन व्याख्याताः। न चासदित्यादिशब्दविरोधः। असच्छब्दस्य अनभिव्यक्तनामरूपपरत्वेन अविरोधात्। सूक्ष्मत्वाच्चात्मन्यणुशब्दो गौणः। स्वभाववादस्तु पूर्वपक्षत्वेनोपन्यस्तः। व्याख्याता इति पदाभ्यासोऽध्यायपरिसमात्यर्थः। तस्माज्जगत्कारणे सर्वज्ञे जिज्ञास्ये ब्रह्मणि वेदान्तानां समन्वयो नान्यत्रेति सिद्धम्॥


चतुत्रिंशत्परं सूत्रशतकं तु समन्वये।

अध्याये तद्वदेकोनचत्वारिंशन्न्याया मताः॥

ब्रह्मनाम्नि परे धाम्नि प्रत्यपादि समन्वयः।

त्रय्यन्तसन्ततेर्यस्मिंस्तदस्मिञ्ज्योतिराततम्॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीपरमशिवेन्द्रसरस्वतीपादाब्जसेवापरायणेन श्रीसदाशिवेन्द्रसरस्वत्या विरचितायां

श्रीमद्ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां प्रथमोऽध्यायः॥

No comments: