Sadāśivabrahmendra's kīrtanas

 

॥सदाशिवब्रह्मेन्द्रविरचितानि॥


॥कीर्तनानि॥


(नवराज् रागः, आदितालम्)


सर्वं ब्रह्ममयम् , रे रे

सर्वं ब्रह्ममयम्॥

किं वचनीयम्, किमवचनीयम्।

किं रचनीयम् , किमरचनीयम्॥

किं पठनीयम्, किमपठनीयम्।

किं भजनीयम, किमभजनीयम्॥

किं बोद्धव्यम् , किमबोद्धव्यम्।

किं भोक्तव्यम् , किमभोक्तव्यम्॥

सर्वत्र सदा हंसध्यानम्।

कर्तव्यं भो मुक्तिनिदानम्॥


(नवराज् रागः, आदितालम्)


मानस सञ्चर रे, ब्रह्माणि

मानस सञ्चर रे॥

श्रीरमणीकुचदुर्गविहारे।

सेवकजनमन्दिरमन्दारे॥

मदशिखिपिञ्छालङ्कृतचिकुरे।

महनीयकपोलाचाजैतमुकुरे॥

परमहंसमुखचन्द्रचकोरे।

परिपूरितमुरलीरवधारे॥


(नवराज् रागः, आदितालम्)


तद्वज्जीवत्वम् , ब्रह्मणि

तद्वज्जीवत्वम्॥

यद्वत्तोये चन्द्रद्वित्वम्

यद्वन्मुकुरे प्रतिबिम्बत्वम्॥

स्थाणौ यद्वन्नररूपत्वम्

भानुकरे यद्वत्तोयत्वम्॥

शुक्तौ यद्वद्रजतमयत्वम्

रज्जौ यद्वत्फणिदेहत्वम्॥

परमहंसगुरुणाद्वयविद्या

फणिता धिक्कृतमायाविद्या॥



(कल्याणी रागः, आदितालम्)


पूर्णबोधोऽहम्, सदानन्द-

पूर्णबोधोऽहम्॥

वर्णाश्रमाचारकर्मातिदूरोऽहम्

स्वर्णवदाखिलविकारगतोऽहम्

प्रत्यगात्माहं प्रविततसत्यघनोऽहम्

श्रुत्यन्तशतकोटिप्रकटितब्रह्माहम्

नित्योऽहमभयोऽहमद्वितीयोऽहम्

साक्षिमात्रोऽहं प्रगलितपक्षपातोऽहम्

मोक्षस्वरूपोऽहमोङ्कारगम्योऽहम्

सूक्ष्मोऽहमनघोऽहमद्भुतात्माहम्।

स्वप्रकाशोऽहं विभुरहं निष्प्रपञ्चोऽहम्

अप्रमेयोऽहमचलोऽहमकलोऽहम्

निष्प्रतार्क्याण्डैकरसोऽहम्

अजनिर्ममोऽहं बुधजनभजनीयोऽहम्

अजरोऽहममरोऽहममृतस्वरूपोऽहम्

निजपूर्णमहिमनि निहितमहितोऽहम्

निरवयवोऽहं निरुपमनिष्कलङ्कोऽहम्

परमशिवेन्द्रश्रीगुरुसोमसमुदित-

निरवधिनिर्वाणसुखसागरोऽहम्॥



(मध्यमावती रागः, झम्पतालम्)


आनन्दपूर्णबोधोऽहम् , सतत-

मानन्दपूर्णबोधोऽहमजरोऽहम्॥

प्रत्यगद्वैतसारोऽहं सकलश्रुत्यन्ततन्त्र-

विदितोऽहममृतोऽहं मत्यनन्तरभावितोऽहम्

विदितनित्यनिष्कलरूपनिर्गुणपदोऽहम्॥१॥

साक्षिचिन्मात्रगात्रोऽहं परममोक्षसाम्राज्या-

धिपोऽहममृतोऽहं पक्षपातातिदूरोऽह-

मधिकसूक्ष्मोऽहमनवधिकसुखसागरोऽहम्॥२॥

स्वप्रकाशैकसारोऽहं सदहमप्रपञ्चात्म-

भावोऽहमभयोऽहं निष्प्रतर्क्योऽहम-

मरोऽहं चिदहमप्रमेयाख्यमूर्तिरेवाहम्॥३॥



(शङ्कराभरणरागः, मिश्रतालम्)


आनन्दपूर्णबोधोऽहं सच्चि-

दानन्दपूर्णबोधोऽहं शिवोऽहम्॥

सर्वात्मचरोऽहं

परिनिर्वाणनिर्गुणनिखिलात्मकोऽहम्

गीर्वाणवर्यानतोऽहं

कामगर्वनिर्वापणधीरतरोऽहम्॥

सत्यस्वरूपापरोऽहं

वरश्रुत्यन्तबोधितसुखसागरोऽहम्

प्रत्यगभिन्नपरोऽहं

शुद्धमन्तरहितमायातीतोऽहम्॥

अवबोधरससागरोऽहं

व्योमपवनादिपञ्चभूतातिदूरोऽहम्

कविवरसंसेव्योऽहं

घोरभवसिन्धुतारकपरमसूक्ष्मोऽहम्॥

बाधितगुणकलनोऽहं

बुद्धशोधितसमरसपरमात्माहम्

साधनजातातीतोऽहं

निरुपाधिकनिःसीमभूमानन्दोऽहम्॥

निरवयवोऽहमजोऽहं

निरूपममहिमनि निहितमहितोहम्

निरवधिसत्त्वघनोऽहं

धीरपरमशिवेन्द्रश्रीगुरुबोधितोऽहम्॥



(नाथनामक्रियारागः, आदितालम्)


ब्रह्मैवाहं किल, सद्गुरुकृपया

ब्रह्मैवाहं किल॥

ब्रह्मैवाहं किल गुरुकृपया

चिन्मयबोधानन्दघनं तत्॥

श्रुत्यन्तैकनिरूपितमतुलं

सत्यसुखाम्बुधिसमरसमनघम्॥

कर्माकर्मविकर्मविदरं

निर्मलसंविदखण्डमपारम्॥

निरवधिसत्तास्पदपदमजरं

निरुपममहिमनि निहितमनीहम्॥

आशापाशविमाशनचतुरं

कोशपञ्चकातीतमनन्तम्॥

कारणकारणमेकमनेकं

कालकालकलिदोषविहीनम् ॥

अप्रमेयपदमखिलाधारं

निष्प्रपञ्चनिजनिष्क्रियरूपम्॥

स्वप्रकाशशिवमद्वयमभयम्

निष्प्रतर्क्यमनपायमकायम्॥



(तोडिरागः, आदितालम्)


खेलति पिण्डाण्डे, भगवान्

खेलति पिण्डाण्डे॥

हंसः सोऽहं हंसः सोऽहं

हसंः सोऽहं सोऽहमिति॥

परमात्माहं परिपूर्णोऽहं

ब्रह्मैवाहमहं ब्रह्मेति॥

त्वचक्षुःश्रुतिजिह्वाघ्राणे

पञ्चविधप्राणोपस्थाने॥

शब्दस्पर्शरसादिकमात्रे

सात्त्विकराजसतामसमित्रे॥

बुद्धिमनश्चित्त्वाहंकारे

भूजलतेजोगगनसमीरे॥

परमहंसरूपेण विहर्ता

ब्रह्माविष्णुरुद्रादिककर्ता॥



(कल्याणीरागः आदितालम्)


भज रे गोपालम् , मानस

भज रे गोपालम्॥

भज गोपालं भजितकुचेलम्

त्रिजगन्मूलं दितिसुतकालम्॥

आगमसारं योगविचारम्

भोगशरीरं भुवनाधारम्॥

कदनकठोरं कलुषविदूरम्

मदनकुमारं मधुसंहारम्॥

नतमन्दारं नन्दकिशोरम्

हतचाणूरं हंसविहारम्॥



(जज्झोटिरागः, आदितालम्)


पिब रे रामरसम् , रसने

पिब रे रामरसम्॥

दूरीकृतपातकसंसर्गम्

पूरितनानाविधफलवर्गम्॥

जननमरणभयशोकविदूरम्

सकलशास्त्रनिगमागमसारम्॥

परिपालितसरसिजगर्भाण्डम्

परमपवित्रीकृतपाषण्डम्॥

शुद्धपरमहंसाश्रमगीतम्

शुकशौनककौशिकमुखपीतम्॥



(काम्बोदिरागः, आदितालम्)


चिन्ता नास्ति किल,

तेषां चिन्ता नास्ति किल॥

शमदमकरुणासम्पूर्णानाम्

साधुसमागमसङ्कीर्णानाम् ॥

कालत्रयजितकन्दर्पाणाम्

खण्डितसर्वेन्द्रियदर्पाणाम्॥

परमहंसगुरुपदचित्तानाम्

ब्रह्मानन्दामृतमत्तानाम्॥



(धनासरिरागः, आदितालम्)


स्थिरता न हि न हि रे,

मानस स्थिरता न हि न हि रे॥

तापत्रयसागरमग्नानाम्

दर्पाहङ्कारविलग्नानाम्॥

विषयपाशवेष्टितचित्तानाम्

विपरीतज्ञानविमत्तानाम्॥

परमहंसयोगविरुद्धानां

बहुचञ्चलतरसुखसिद्धानाम्॥



(आनन्दभैरवी रागः, आदितालम्)


न हि रे न हि शङ्का काचि-

न्नहि रे न हि शङ्का ॥

अजमक्षरमद्वैतमनन्तम्

ध्यायन्ति ब्रह्मपरं शान्तम्॥

ये त्यजन्ति बहुतरपरितापम्

ये भजन्ति सच्चित्सुखरूपम्॥

परमहंसगुरुफणितं गीतम्

ये पठन्ति निगमार्थसमेतम्॥




(सुरुटिरागः, आदितालम्)


ब्रूहि मुकुन्देति, रसने

ब्रूहि मुकुन्देति॥

केशव माधव गोविन्देति

कृष्णानन्द सदानन्दति॥

राधारमण हरे रामेति

राजीवाक्ष घनश्यामेति॥

गरुडगमननन्दकहस्तेति

खण्डितदशकन्धरमस्तेति॥

अक्रूरप्रिय चक्रधरेति

हंस निरञ्जन कंसहरोति॥




चेतः श्रीरामं चिन्तय

जीमूतश्यामम्॥

अङ्गीकृततुम्बुरुसङ्गीतम्

हनुमद्गवयगवाक्षसमेतम्॥

नवरत्नस्थापितकोटीरम्

नवतुलसीदलकल्पितहारम्॥

परमहंसहृद्गोपुरदीपम्

चरणदलितमुनितरुणीशापम्॥





क्रीडति वनमाली, गोष्ठे

क्रीडति वनमाली॥

अजमक्षरमद्वैतमनन्तम्

ध्यायन्ति ब्रह्मपरं शान्तम्॥

प्रह्लादपराशरपरिपाली

पवनात्मजजाम्बवदनुकूली॥

परमहंसवस्कुसुमसुमाली

प्रणवपयोरुहगर्भकपाली॥




जय तुङ्ग तरङ्गे, गङ्गे

जय तुङ्ग तरङ्गे॥

कमलभवाण्डकरण्डपवित्रे

बहुविधबन्धच्छेदलवित्रे॥

दूरीकृतजनपापसमृहे

पूरितकच्छपगुच्छग्राहे॥

परमहंसगुरुफणितचरित्रे

ब्रह्माविष्णुशङ्करनुतिपात्रे॥



खेलति मम हृदये श्रीरामः

खेलति मम हृदये॥

मोहमहार्णवतारणकारी

रागद्वेषमुखासुरमारी॥

शान्तिविदेहसुतासहचारी

दहरायोध्यानगरविहारी॥

परमहंससाम्राज्योद्धारी

सत्यज्ञानानन्दशरीरी॥



॥श्रीः ॥


॥ नववर्णमाला॥

ओङ्कारेकनिरूप्यं

पङ्कजभवनादिभावितपदाब्जम् ।

किङ्करकैरवशशिनं

शङ्करमेकं शिवं कलये॥१॥

ऐन्द्रं पदमपि मनुते

नैव वरं यस्य पदरजःस्पर्शात्।

सान्द्रसुखोदधिमेकं

चन्द्रकलोत्तंसमीशमासेवे॥२॥

नागेशकृत्तिवसनं

वागीशाद्यैकवन्दिताङ्घ्रियुगम्।

भोगीशभूषिताङ्गं

भागीकृतसर्वमङ्गलं नौमि॥३॥

नगराजशिखरवासिन-

मगजामुखकुमुदकौमुदीनिकरम्।

गगनशिरोरुहमेकं

निगमशिरस्तन्त्रविदितमवलम्बे॥४॥

मन्दस्मितलसदानन-

मिन्दुकलोत्तंसमम्बिकासचिवम्।

कन्दर्पकोटिशतगुण-

सुन्दरदिव्याकृतिं शिवं वन्दे॥५॥

मस्तक नम कमलाङ्ग्रि

संस्तुहि भो वाणि वरगुणोदारम्।

हस्तयुगार्चय शर्वं

स्वस्थो निवसामि निजमहिम्न्यमुना॥६॥

क्लिन्नेक्षणमतिकृपया

संनुतमहिमानमागमशिरोभिः।

तं नौमि पार्वतीशं

पन्नगवरभूषणोज्ज्वलकराब्जम्॥७॥

शिशिरारुणकञ्जदृशं

शशिभूषणमेकमगसुताजानिम्।

पशुपाशपाटनपटुं

वशिनं सर्वस्य देशिकं वन्दे॥८॥

वटविटीपनिकटनिलयं

कुटिलजटाघटितहिमकरोदारम्।

कटिलसितकरटिकृत्तिं

निटिलाम्बकमेकमालम्बे॥९॥

वामाङ्ककलितकान्तं

कामान्तकमादिदैवतं दान्तम्।

भूमानन्दघनं त-

द्धाम किमप्यन्तरान्तरं भाति॥१०॥

यदपाङ्गितात्प्रबोधा-

त्पदमलभेऽखण्डितात्ममात्रमहम्।

सदयं साम्बशिवं तं

मदनान्तकमादिदैवतं नौमि॥११॥

सौस्नातिकममृतजलैः

सुस्मितवदनेन्दुसमुदितदिगन्तम्।

संस्तुतममरगणैस्तं

निस्तुलमहिमानमानतोऽस्मि शिवम्॥१२॥

नववर्णरत्नमाला-

स्तुतिमेतामादिदेशिकेन्द्रस्य।

धारयतः स्याद्भुक्तिः

सकलकलावाप्तिरथ परा मुक्तिः॥१३॥


इति सदाशिवब्रह्मेन्द्रविरचिता नववर्णमाला संपूर्णा॥

No comments: