Brahmatattvaprakashika, a vritti on Brahmasutras by Bhagavan Sadashivabrahmendra 1.3

 

तृतीयः पादः॥


इत्थं द्वितीयपादे अस्पष्टब्रह्मलिङ्गवाक्यानां प्रायश उपास्यत्वेन ब्रह्मणि समन्वयः प्रत्यपादि। अधुना तादृशानां वाक्यानां प्रायशो ज्ञेयत्वेन ब्रह्मणि समन्वयं प्रतिपादयितुं तृतीयपादोऽयमारभ्यते। वैश्वानराधिकरणे त्रैलोक्यात्मा वैश्वानरः परमात्मेत्यभिहितम्,

तर्हि त्रैलोक्यायतनमन्यदित्याक्षिप्य समाधानादाक्षेपसङ्गत्या, उपक्रमस्थसाधारणशब्दस्य वाक्यशेषस्थद्युमूर्धत्वादिना ब्रह्मपरत्वमुक्तम्, तद्वदत्रापि उपक्रमस्थसाधारणायतनत्वस्य 'अमृतस्यैष सेतुः' इति वाक्यशेषस्थसेतुत्वलिङ्गेन परिच्छिन्नप्रधानादिपरत्वमस्त्विति दृष्टान्तसङ्गत्या वा इदमधिकरणमारभते—

..१ द्युभ्वाद्यधिकरणम्।

द्युभ्वाद्यायतनं स्वशब्दात्॥१..१॥

अत्र पूर्वपक्षे प्रधानाद्युपास्तिः, सिद्धान्ते ब्रह्मप्रमितिरिति फलभेदः। मुण्डके श्रूयते— 'यस्मिन्द्यौः पृथिवी चान्तरिक्षमोतम्...' इत्यादि। तत्र द्युभ्वादीनामोतत्वेन किञ्चिदायतनं प्रतीयते। तत्किं प्रधानम् उत जीवः, आहोस्विद्ब्रह्मेति संशये, प्रधानादिरिति पूर्वः पक्षः। सिद्धान्तस्तु— द्द्युभ्वाद्यायतनं द्यौञ्च भूञ्च द्युभ्वौ, द्युभ्वौ आदी यस्य द्यौः पृथिव्यन्तरिक्षमित्येवमात्मकस्य, तद्द्युभ्वादि, तस्यायतनम् अधिष्ठानं ब्रह्मैव। कुतः, स्वशब्दात् स्वस्य परब्रह्मणो वाचको य आत्मशब्दः 'तमेवैकं जानथ आत्मानम्' इति श्रुतः तस्मादित्यर्थः। एवञ्च उपक्रमस्थसाधारणायतनत्वस्य गौणसेतुत्वलिङ्गात्प्रथमश्रुतात्मश्रुत्या ब्रह्मपरत्वमेव, न प्रधानादिपरत्वमिति भावः॥


द्द्युभ्वाद्यायतनं ब्रह्मेत्यत्र हेत्वन्तरमाह—

मुक्तोपसृप्यव्यपदेशात्॥१..२॥

मुक्तैरुपसृप्यं मुक्तोपसृप्यम्, भावप्रधानोऽयं निर्देशः। तथा च 'तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्' इति ब्रह्मणोऽविद्यातत्कार्यसकलानर्थोच्छेदद्वारा मुक्तप्राप्यत्वस्य व्यपदिश्यमानत्वात्। अतो द्यु॒द्युभ्वाद्यायतनं ब्रह्मैवेत्यर्थः॥


सिद्धान्तमभिधाय प्रधानपक्षं निषेधति—

नानुमानमतच्छब्दात्॥१..३॥

अनुमीयत इत्यनुमानम्, साङ्ख्यपरिकल्पितं प्रधानम् न तद्द्युभ्वाद्यायतनम्। कुतः, अतच्छदात् तस्याचेतनस्य प्रधानस्य प्रतिपादकः शब्दः तच्छब्दः, न तच्छब्दोऽतच्छब्दः, तस्मात् प्रधानप्रतिपादकशब्दस्येहाश्रवणात्, प्रत्युत तद्विपरीतचेतनप्रतिपादकस्य 'यः सर्वज्ञः सर्ववित्' इत्यादेः शब्दस्य श्रवणादित्यर्थः॥


ननु तर्हि शारीरोऽस्तु द्युभ्वाद्यायतनम् तस्य चेतनत्वादियोगादित्याशङ्क्याह—

प्राणभृच्च॥१..४॥

प्राणभृत् शारीरोऽपि न द्युभ्वाद्यायतनम्। कुतः, अतच्छब्दादेव, शारीरस्य सर्वज्ञत्वासम्भवात् तत्साधारण आत्मशब्दोऽतच्छब्द एव॥


शारीरनिरासे हेत्वन्तरमाह त्रिभिः सूत्रैः—

भेदव्यपदेशात्॥१..५॥

"तमेवैकं जानथ' इति ज्ञातृज्ञेयभावेन जीवपरयोर्भेदेन व्यपदिश्यमानत्वादित्यर्थः॥

प्रकरणात्॥१..६॥

'कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातम्' इत्युपक्रमात् ब्रह्मण एवेदं प्रकरणम्। न हि शारीरज्ञानात् सर्वविज्ञानं सम्भवति। तस्मात्प्रकरणादपि न शारीर इत्यर्थः॥

स्थित्यदनाभ्यां च॥१..७॥

'द्वा सुपर्णा' इति मन्त्रे 'अननन्नन्यो अभिचाकशीति' इत्यौदासीन्येन स्थितिः परमात्मनो निर्दिश्यते, 'तयोरन्यः पिप्पलं स्वाद्वत्ति' इति अदनं शारीरस्य। अतः स्थित्यदनाभ्यां न शारीरो द्युभ्वाद्यायतनम् अपि तु परं ब्रह्मैवेति सिद्धम्॥


पूर्वमात्मशब्दात् द्युभ्वाद्यायतनं ब्रह्मेत्युक्तम्। तन्न। 'तरति शोकमात्मवित्' इत्यत्राब्रह्मणि प्राणेऽपि आत्मशब्दप्रयोगात् इत्याक्षेपसङ्गत्येदमाह—

... भूमाधिकरणम्।

भूमा सम्प्रसादादध्युपदेशात्॥१..८॥

अत्र पूर्वपक्षे प्राणोपास्तिः, सिद्धान्ते तु ब्रह्मधीरिति फलभेदः। छान्दोग्ये श्रूयते— 'भूमा त्वेव विजिज्ञासितव्य इति भूमानं भगवो विजिज्ञास इति। यत्र नान्यत्पश्यति...' इत्यादि। तत्र किं प्राणो भूमा, उत परमात्मेति सन्देहे, प्राण इति पूर्वः पक्षः। सिद्धान्तस्तु— भूमा परमात्मैव। कुतः, सम्प्रसादादध्युपदेशात् सम्यक्प्रसीदत्यस्मिन् जीव इति सम्प्रसादः सुषुप्त्यवस्था, तस्यां प्राणो जागर्तीति सम्प्रसादशब्देन प्राणोऽभिधीयते। प्राणादधि प्राणोपदेशानन्तरम्, 'एष तु वा अतिवदति यः सत्येनातिवदति' इति तुशब्देन प्राणवादस्यानतिवादित्वमभिधाय सत्यशब्दवाच्यपरमात्मवादस्यातिवादित्वं ब्रुवता भूम्न एवोपदिश्यमानत्वात्। 'तरति शोकमात्मवित्' इति प्रश्नवाक्ये आत्मोपक्रमेणात्मप्रकरणात्प्राणसंनिधेर्दुर्बलतया न प्राणो भूमा, परमात्मैवेति सिद्धम्॥


परमात्मनो भूमत्वे युक्त्यन्तरमाह—

धर्मोपपत्तेश्च॥१..९॥

'यत्र नान्यत्पश्यति' इत्यादिनोक्तानां सर्वव्यवहाराभावादिधर्माणां परमात्मन्येवोपपत्तेः परमात्मैव भूमेत्यर्थः॥


पूर्वं सत्यशब्दस्य ब्रह्मणि रूढत्वात् भूमा ब्रह्मेत्युक्तम्। तद्वदिहाप्यक्षरशब्दस्य वर्णे रूढत्वाद्वर्ण एवाक्षरमस्त्विति दृष्टान्तसङ्गत्येदमाह—

... अक्षराधिकरणम्।

अक्षरमम्बरान्तधृतेः॥१..१०॥

अत्र पूर्वपक्षे ओङ्काररूपाक्षरोपास्तिः, सिद्धान्ते ब्रह्मज्ञानमिति फलभेदः। बृहदारण्यके गार्गीं प्रति याज्ञवल्क्य आह—

'एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यधिकरणम्। अस्थूलम्...' इत्यादि। तत्र किम् अक्षरशब्देन वर्ण उच्यते, उत ब्रह्मेति सन्देहे, वर्ण इति पूर्वः पक्षः। सिद्धान्तस्तु— न क्षरतीत्यक्षरं ब्रह्मैव। कुतः, अम्बरान्तधृतेः 'एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च' इति पृथिव्यादेः आकाशान्तस्य विकारजातस्य धारणादित्यर्थः॥


नन्वम्बरान्तधारणं प्रधानेऽपि सम्भवतीत्यत आह—

सा च प्रशासनात्॥१..११॥

सा च धृतिः परमेश्वरस्यैव कर्म, नान्यस्याचेतनस्य। कुतः प्रशासनात् 'एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ

विवृतौ तिष्ठतः' इत्यादिना प्रशासनश्रवणादित्यर्थः॥


प्रधानादिनिरासेन ब्रह्मोपादाने हेत्वन्तरमाह—

अन्यभावव्यावृत्तेश्च॥१..१२॥

अन्यस्य प्रधानादेः भावो धर्मः सोऽन्यभावः, तद्व्यावृत्तेः 'तद्वा एतदक्षरं गार्ग्यदृष्टं द्रष्टृ...' इत्यादितद्विपरीतधर्मश्रवणात् न प्रधानादि अक्षरम्। किन्तु ब्रह्मैवेति सिद्धम्॥


पूर्वं वर्णे रूढस्याक्षरशब्दस्य जगद्धृतिलक्षणलिङ्गेन ब्रह्मणि 'न क्षरति' इति योगवृत्तिराश्रिता। तद्वदिहापि देशपरिच्छिन्नफलश्रुतिलिङ्गेन परशब्दस्य आपेक्षिकपरत्वविशिष्टे हिरण्यगर्भे वृत्तिरस्त्विति दृष्टान्तसङ्गत्येदमाह—

... ईक्षतिकर्माधिकरणम्।

ईक्षतिकर्मव्यपदेशात्सः॥१..१३॥

अत्र पूर्वपक्षे कार्यब्रह्मोपास्तिः, सिद्धान्ते परब्रह्मोपास्तिरिति फलभेदः। प्रश्नोपनिषदि श्रूयते— 'यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत...' इति। तत्र ध्येयं वस्तु किं हिरण्यगर्भाख्यमपरं ब्रह्म, उत परं ब्रह्मेति विशये, अपरमिति पूर्वः पक्षः। सिद्धान्तस्तु— सः ध्यातव्यः परमात्मैव। कुतः, ईक्षतिकर्मव्यपदेशात् 'परात्परं पुरिशयं पुरुषमीक्षते' इति वाक्यशेषे ध्यातव्यस्य ईक्षतिकर्मत्वेन व्यपदेशात्, ध्यानेक्षणयोरेकविषयत्वनियमात्। अतः क्रममुक्त्यर्थमोंकारावलम्बनेन ध्यातव्यः परमात्मैवेति समञ्जसम्॥


पूर्वं परपुरुषशब्दस्य ब्रह्मणि रूढत्वात् ब्रह्म उपास्यमित्युक्तम्। तद्वदिहाप्याकाशशब्दस्य भूताकाशे रूढत्वात् तस्यैवोपास्यत्वमस्त्विति दृष्टान्तसङ्गत्येदमाह्—

..४ दहराधिकरणम्।

दहर उत्तरेभ्यः॥१..१४॥

अत्र पूर्वपक्षे आकाशाद्युपास्तिः, सिद्धान्ते ब्रह्मोपास्तिरिति फलभेदः। छान्दोग्ये श्रूयते— 'अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाश' इत्यादि। तव दहरपुण्डरीके यो दहराकाशः श्रुतः स किं भूताकाशः, उत जीवः, उताहो परमात्मेति विशये, भूताकाशादिरिति पूर्वं पक्षः। सिद्धान्तस्तु— दहराकाशः परमात्मैव। कस्मात्, उत्तरेभ्यः 'यावान्वा

अयमाकाशस्तावानेषोऽन्तर्हृदय आकाश उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहिते एष आत्मापहतपाप्मा' इत्यादिवाक्यशेषगतेभ्य आकाशोपमानत्वद्यावापृथिव्याधिष्ठानत्वात्मत्वापह्तपाप्मत्वादिहेतुभ्य इत्यर्थः॥


दहराकाशस्य परब्रह्मपरत्वे हेत्वन्तरमाह—

गतिशब्दाभ्यां तथाहि दृष्टं लिङ्गं च॥१..१५॥

'इमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ति' इति दहरवाक्यशेषे प्रजाशब्दवाच्यानां जीवानां प्रत्यहमुच्यमाना प्रकृतदहरविषया या गतिः, यश्च ब्रह्मलोकशब्दः, ताभ्यां दहरस्य परब्रह्मतावगम्यते। तथाहि दृष्टं श्रुत्यन्तरे 'सता सोम्य तदा सम्पन्नो भवति' इति। एवञ्च प्रत्यहं हिरण्यगर्भलोकगमनासम्भवाद्ब्रह्मैव लोक इति सामानाधिकरण्यस्य परिग्रहे अहरहर्गमनमेव लिङ्गं ज्ञापकम्। चशब्देन निषादस्थपतिन्यायोऽपि सामानाधिकरण्यपरिग्रहे सूचित इति ध्येयम्॥


दहरस्य परब्रह्मत्वे हेत्वन्तरमाह द्वाभ्याम्—

धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः॥१..१६॥

'अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसम्भेदाय' इति श्रुताया धृतेरपि हेतोर्दहराकाशः परमात्मैव। अस्य च

सर्वलोकविधारणलक्षणमहिम्नः अस्मिन् परमात्मनि 'एष भूतपाल एष सेतुर्विधरणः' इत्यादिश्रुत्यन्तरेऽप्युपलब्धेरित्यर्थः॥

प्रसिद्धेश्च॥१..१७॥

दहराकाशस्थापि परमात्मन्येव प्रसिद्धेः, लोकरूढ्यपेक्षया 'आकाशो वै नाम नामरूपयोर्निर्वहिता' इत्यादिश्रौतरूढेर्बलीयस्त्वात् दहराकाशः परमात्मैव, न भूताकाश इति सिद्धम्॥


ननु तर्हि जीवोऽस्त्वित्याशङ्क्याह—

इतरपरामर्शात्स इति चेन्नासम्भवात्॥१..१८॥

'एष सम्प्रसादः' इति सम्प्रसादशब्देन इतरस्याप्यस्मिन्प्रकरणे परामर्शात्स जीवो दहराकाशोऽस्त्विति चेत्, न। असम्भवात् जीवे आकाशोपमेयत्वापहतपाप्मत्वादीनामसम्भवादित्यर्थः॥


इत्थमभिहितासम्भवस्यासिद्धिमाशङ्क्य परिहरति—

उत्तराच्चेदाविर्भूतस्वरूपस्तु ॥१..१९॥

उत्तरात् 'य एषोऽक्षिणि पुरुषो दृश्यते' इत्यादिप्रजापतिवाक्यात् जाग्रदाद्यवस्थापन्ने जीवे अपहतपाप्मत्वादिसम्भवाज्जीव एव दहराकाश इति चेत्, अत्राह— आविर्भूत स्वरूपस्तु। तुशब्दो जीवशङ्काव्यावृत्त्यर्थः। यतः तत्राप्याविर्भूतं पारमार्थिकं स्वरूपमस्येत्याविर्भूतस्वरूपो जीवो विवक्षितः, न तु जीवत्वेन रूपेण। 'परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते' इत्युपसंहारदर्शनात्। अतः तस्य ब्रह्मत्वेनापहतपाप्मत्वादिसम्भव इति जीवत्वेन तदसम्भवान्न पूर्वसूत्रस्थहेतुरसिद्ध इति भावः॥


ननु तर्हि 'सम्प्रसादः' इति जीवपरामर्शो व्यर्थः स्यादित्यत आह—

अन्यार्थश्च परामर्शः॥१..२०॥

जीवपरामर्शः 'अभिनिष्पद्यते' इति उपसम्पत्तव्यपरमात्मपर एव, न जीवप्रतिपादनार्थ इत्यर्थः॥


जीवपूर्वपक्षबीजमाशङ्क्य परिहरति—

अल्पश्रुतेरिति चेत्तदुक्तम्॥१..२१॥

'दहरोऽस्मिन्नन्तरराकाशः' इत्याकाशस्याल्पत्वश्रवणान्न परमात्मत्वम्, किन्तु जीवत्वमिति चेत्, तत्र समाधानमुक्तम्ब्रह्मसूत्रवृत्तौ 'अर्भकौकस्त्वात्तद्व्यपदेशाच्च...' ' इत्यत्र। तस्माद्दहराकाशः परमात्मैवोपास्य इति सिद्धम्॥


पूर्वम् 'परं ज्योतिरुपसम्पद्य...' इति वाक्यार्थविचारप्रसङ्गात् 'तच्छुभ्रं ज्योतिषां ज्योतिः...' '...' आयुर्होपासतेऽमृतम्' इति वाक्योक्तपरञ्ज्योतिष्ट्वसाधकम् 'न तत्र सूर्यः' इत्यादिवाक्यं विचार्यत इति प्रसङ्गसङ्गत्येदमाह—

... अनुकृत्यधिकरणम्।

अनुकृतेस्तस्य च॥१..२२॥

अत्र पूर्वपक्षे अलौकिकतेजस उपास्तिः, सिद्धान्ते निर्विशेषब्रह्मधीरिति फलभेदः। मुण्डके श्रूयते— 'न तत्र सूर्यो भाति न चन्द्रतारकम्...' इत्यादि। तत्र सूर्यादिजगद्भासकतया प्रतीयमानं किं तेजोविशेषः, उत ब्रह्मेति संशये, प्रबलेन तेजसा दुर्बलस्याभिभवदर्शनात्तेजोविशेष इति पूर्वः पक्षः। सिद्धान्तस्तु— तथा प्रतीयमानं ब्रह्मैव। कुतः, अनुकृतेः अनुकृतिरनुकरणं

'तमेव भान्तमनुभाति सर्वम्' इत्यनुभानात्। न हि सूर्यादिकं तेजस्तेजोऽन्तरमनुभाति, लोके तददर्शनात्। तर्हि प्राप्तं स्वतः सूर्यादेर्भानमित्यत्राह— तस्य चेति भासा सर्वमिदं विभाति' इति ब्रह्मभासा भास्यत्वावगमात्। न च विपरीतं किं न स्यादिति वाच्यम्, 'तच्छुभ्रं ज्योतिषां ज्योतिः' इति वाक्योपक्रमे ब्रह्मणः स्वयञ्ज्योतिष्ट्वावगमात्, 'न तत्र...' इति तच्छब्देन तस्यैव प्रकृतज्योतिषः परामर्शात्। अतः स्वयञ्ज्योतिः सूर्यादिसकलजगदवभासकं ब्रह्मैव, न तु लौकिकं तेजः, तस्यात्राप्रकृतत्वादिति सिद्धम्॥


अस्मिन् श्रुत्युक्तार्थे स्मृतिं दर्शयितुमाह—

अपि च स्मर्यते॥१..२३॥

'न तद्भासयते सूर्यो न शशाङ्को न पावकः' 'यदादित्यगतं तेजो जगद्भासयतेऽखिलम्...' इति भगवद्गीतासु स्मर्यत इत्यर्थः॥


पूर्वमनुभानादिना लिङ्गेन तत्रेति विषयसप्तमीं कृत्वा न भातीत्यादौ णिजध्याहारेण न भासयतीत्यर्थो वर्णितप्रायः। तथेहापि 'अङ्गुष्ठमात्रः' इति परिमाणलिङ्गाज्जीवमादाय ईशानोऽस्मीति भावयेदिति विध्यध्याहारेणोपास्तिपरमङ्गुष्ठवाक्यमस्त्विति दृष्टान्तसङ्गत्येदमाह—

... प्रमिताधिकरणम्।

शब्दादेव प्रमितः॥१..२४॥

अत्र पूर्वपक्षे जीवोपास्तिः, सिद्धान्ते तस्यैव परमात्मतया धीरिति फलभेदः। कठवल्लीषु श्रूयते— 'अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः। ईशानो भूतभव्यस्य...' इति। तत्र किमयमङ्गुष्ठवाक्यप्रतिपाद्यो जीवः, उत ब्रह्मेति सन्देहे, जीव इति पूर्वः पक्षः। सिद्धान्तस्तु— प्रमितः वाक्यप्रतिपाद्यः प्रत्यगभिन्नपरमात्मैव। कुतः, शब्दादेव 'ईशानो भूतभव्यस्य...' इत्यत्र ईशानशब्दात्। न चाङ्गुष्ठमात्रजीवलिङ्गविरोधः, लिङ्गश्रुत्योर्विरोधे श्रुतेरेव प्रबलत्वात्। न च परमात्मनोऽङ्गुष्ठमात्रत्वानुपपत्तिः, अङ्गुष्ठमात्रजीवानुवादेन ब्रह्माभेदबोधनादिति समञ्जसम्॥


ननु जीवस्य परमार्थतः सर्वगतब्रह्मत्वेन कथमङ्गुष्ठमात्रत्वमित्यत आह—

हृद्यपेक्षया तु मनुष्याधिकारत्वात्॥१..२५॥

तुशब्दः शङ्कानिरासार्थः। मनुष्याधिकारत्वाच्छास्त्रस्य, मनुष्याणां हृदयस्याङ्गुष्ठमात्रत्वात्तदपेक्षया सर्वगतस्यात्मनः अङ्गुष्ठमात्रत्वमविरुद्धम्। अतोऽङ्गुष्ठवाक्ये प्रतिपाद्यः परमात्मैवेति सिद्धम्॥


पूर्वं मनुष्याधिकारं शास्त्रमित्युक्ते तर्ह्यमनुष्याणां देवादीनामधिकारो न स्यादित्याक्षिप्य समाधीयत इत्याक्षेपसङ्गत्या

प्रसङ्गसङ्गत्या वा इदमाह—

... देवताधिकरणम्।

तदुपर्यपि बादरायणः सम्भवात्॥१..२६॥

अत्र पूर्वपक्षे मन्त्राद्यप्रामाण्यादुपगमनादिवाक्यानामपि स्वार्थे तदयोगात्तत्त्वमस्यादेरपि नैक्यनिष्ठतेति फलम्, सिद्धान्ते तत्सर्वसम्भवादैक्यनिष्ठतेति फलम्। बृहदारण्यके श्रूयते— 'तद्यो यो देवानां प्रत्यबुध्यत स एव तद्भवत्' इत्यादि। तत्र किं देवानां

ब्रह्मविद्यायामधिकारोऽस्ति न वेति सन्देहे, नास्तीति पूर्वः पक्षः। सिद्धान्तस्तु— तदुपर्यपि तेषां मनुष्याणामुपरिष्टात् ये देवादयः तेषामपि ब्रह्मविद्यायामधिकारोऽस्तीति बादरायण आचार्यो मन्यते स्म। कस्मात्, सम्भवात् अर्थित्वसामर्थ्याद्यधिकारकारणस्य सम्भवादित्यर्थः॥


ननु यदीन्द्रादीनां विग्रहवत्त्वेन विद्याधिकारः, तर्हि कर्मणि विरोध इत्याशङ्क्याह—

विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेदर्शनात्॥१..२७॥

इन्द्रादीनामृत्विगादिवदेकस्य शरीरस्य अनेकत्र कर्मणि युगपत्संनिधानासम्भवात्कर्मविरोधः प्रसज्येतेति चेत्, न। कस्मात्,

अनेकप्रतिपत्तेर्दर्शनात् एकस्येन्द्रस्य अनेकेषां शरीराणां युगपत्प्राप्तेः 'स एकधा भवति त्रिधा भवति' इत्यादिश्रुतौ दर्शनात्। यद्वा अनेकत्र कर्मणि एकस्य प्रतिपत्तिः अङ्गभावः तस्य ब्राह्मणो लोके दर्शनात्। यथा बहुभिर्नमस्कुर्वाणैर्युगपदेको नमस्क्रियमाणो दृश्यते तद्वदित्यर्थः॥


ननु मास्तु कर्मणि विरोधः, शब्दे स्यादित्याशङ्क्याह—

शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम्॥१..२८॥

शब्दे वेदवाक्ये अनित्यविग्रहवद्देवादेर्नित्यवेदार्थत्वाङ्गीकारे शब्दस्य अर्थेन सह नित्यसम्बन्धाभावेन नित्यानित्यसंयोगविरोध इति चेत्, न। अतः प्रभवात् अत एव हि वैदिकाच्छब्दात् देवादिजगत्प्रभवात् उत्पत्तेः। कथं तत्प्रभवत्वं देवादेः। प्रत्यक्षानुमानाभ्यां श्रुतिस्मृतिभ्याम्। 'एत इति वै प्रजापतिर्देवानसृजत' इत्यादिका श्रुतिः, 'वेदशब्देभ्य एवादौ' इत्यादिका स्मृतिः। ताभ्यां नित्यशब्दप्रभवत्वं देवादेरवगम्यते। एवञ्च देवादिव्यक्त्युत्पत्तावपि तन्निष्ठनित्याकृतेर्वेदार्थत्वात्तत्सम्बन्धो नित्य इत्याविरुद्धम्॥


नन्वेवमपि 'अतः प्रभवात्' इति देवादेर्वेदप्रभवत्वोक्त्या तदुत्पादकवेदस्यापि प्रभवप्रसङ्गादनित्यत्वमाशङ्क्याह—

अत एव च नित्यत्वम्॥१..२९॥

अत एव नियताकृतेर्देवादेर्जगतो वेदशब्दप्रभवत्वादेव वेदस्य नित्यत्वं प्रत्येतव्यम्। कर्त्रस्मरणात्सिद्धमेव वेदनित्यत्वमनेन दृढीकृतमिति बोध्यम्॥


ननु महाप्रलये आकृतेरप्यनित्यत्वाच्छब्दार्थसम्बन्धस्यानित्यत्वविरोधस्तदवस्थ एवेत्याशङ्क्याह—

समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात्स्मृतेश्च॥१..३०॥

सुषुप्तिप्रबोधयोरिव सृष्टिप्रलययोरावृत्तावपि प्रलये प्रपञ्चस्य संस्कारात्मना अविद्यायां विद्यमानत्वेन पूर्वकल्पप्रपञ्चसमाननामरूपत्वात् उत्तरकल्पप्रपञ्चस्य आकृतेर्नित्यतया न शब्दार्थसम्बन्धस्यानित्यत्वविरोधः। कथं समाननामरूपत्वम्। दर्शनात स्मृतेश्च। 'धाता यथा पूर्वमकल्पयत्' इति श्रुतौ दर्शनात्। 'यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये। दृश्यन्ते तानि तान्येव तथा भावा युगादिषु' इत्यादिस्मृतेश्च॥


इत्थमभिहितं देवानामधिकारमाक्षिपति—

मध्वादिष्वसम्भवादनधिकारं जैमिनिः॥१..३१॥

ब्रह्मविद्यायां देवादीनामनधिकारं जैमिनिराचार्यो मन्यते। कस्मात्, मध्वादिष्वसम्भवात् 'असौ वा आदित्यो देवमधु' आदित्यो ब्रह्मेत्यादेशः' इत्यादिषु मधुब्रह्माध्यासेनादित्यदेवतोपासनेषु मनुष्याधिकारकेषु तेषामेवादित्यादीनामधिकारासम्भवात्। न ह्येकस्योपास्योपासकभावः सम्भवति, तस्य भेदनिष्ठत्वात्। तथा चायं प्रयोगः— ब्रह्मविद्या न देवादीनधिकरोति, विद्यात्वान्मधुविद्यावदिति॥


ननु क्वचिदनधिकारान्न सर्वत्रानाधिकारोऽस्ति, ब्राह्मणस्य राजसूयानधिकारेऽपि बृहस्पतिसवेऽधिकारादित्याशङ्क्याह—

ज्योतिषि भावाच्च॥१..३२॥

लौकिकयोरादित्यशब्दप्रत्यययोर्ज्योतिर्मण्डले भावात्, तेषामस्मदादिवदिष्टानिष्टप्राप्तिपरिहाररूपचेष्टाया अदर्शनेन अचेतनत्वावधारणात् तदतिरिक्तस्याचेतनस्य विग्रहादिमतः प्रत्यक्षाद्यगोचरत्वात्, तद्विग्रहादिप्रतिपादकानां मन्त्राणामन्यपरत्वेन स्वार्थे प्रामाण्याभावान्न देवानां विद्याधिकार इति सूत्रद्वयस्य तात्पर्यार्थः॥


इत्थं पूर्वपक्षे, सिद्धान्तयति—

भावं तु बादरायणोऽस्ति हि॥१..३३॥

तुशब्दो जैमिनिमतनिरासार्थः। बादरायणस्त्वाचार्यो देवादीनां विग्रहवत्त्वेन ब्रह्मविद्यायामधिकारभावं मन्यते। कस्मात् अस्ति ह्यर्थित्वाद्यधिकारकारणम्। न हि क्वचिदधिकारो नेति सर्वत्र वक्तुं पार्यते, निर्गुणविद्यायां सम्भवाद्बृहस्पतिसवे ब्राह्मणस्येव। न च विग्रहवत्त्वं नेति वाच्यम्। तदप्यस्ति हि, तत्प्रतिपादकमन्त्राणां मानान्तरविरोधसंवादाभावेन प्रमाणत्वादिति दिक्॥


पूर्वं यथा 'तद्यो यो देवानाम्...' इति देवशब्दश्रुत्या मनुष्याधिकारनियमापवादेन देवानामधिकार उक्तः, तथेह् शूद्रशब्दश्रुत्या द्विजजात्यधिकारनियममपोद्य शूद्रस्याप्यधिकारोऽस्त्विति दृष्टान्तसङ्गत्येदमाह—

... अपशूद्राधिकरणम्।

शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि॥१..३४॥

अथ पूर्वपक्षे जातिशूद्रस्यापि ब्रह्मविद्यायां त्रैवर्णिकादविशेषः फलम्, सिद्धान्ते ततो विशेष इति विवेकः। छान्दोग्ये संवर्गविद्यायां श्रूयते— 'अहहारे त्वा शूद्र तवैव सह गोभिरस्तु' इति। तत्र श्रूयमाणस्य शूद्रस्य ब्रह्मविद्यायामधिकारोऽस्ति न वेति सन्देहे, अस्तीति पूर्वःपक्षः। सिद्धान्तस्तु— अस्य जानश्रुतेः क्षत्रियस्य तदनादरश्रवणात् तस्य हंसस्यानादरश्रवणाद्या शुगुत्पन्ना, सा शूद्रशब्देन सूच्यते हि रैक्वेण स्वस्य सर्वज्ञत्वज्ञापनार्थम्। योगेनापि शूद्रशब्दस्य क्षत्रियपरत्वमाह— तदाद्रवणात्। तं रैक्वं

प्रति जानश्रुतिः विद्याराहित्यजनितया शुचा दुद्रावेति शूद्रो जानश्रुतिरित्युच्यते। अतो न शूद्रस्याधिकार इत्यर्थः॥


ननु मुख्य एव शूद्रो जानश्रुतिरस्तु, किं जघन्येन योगेनेत्यत आह—

क्षत्रियत्वगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात्॥१..३५॥

जानश्रुतिर्न मुख्यशूद्रः। कुतः, क्षत्रियत्वगतेः क्षत्रियत्वस्यावगतेः। तत्कस्मात्, उत्तरत्र संवर्गविद्यावाक्यशेषे चैत्ररथेन प्रसिद्धक्षत्रियेण अभिप्रतारिणा समभिव्याहारात्मकलिङ्गादित्यर्थः। समानजातीयानामेव हि प्रायेण सहचारो भवतीति भावः। अतो न जातिशूद्रस्याधिकार इति सिद्धम्॥


ननु कस्मान्नाधिकार इत्यत आह—

संस्कारपरामर्शात्तदभावाभिलापाच्च॥१..३६॥

'तं होपनिन्ये' 'अधीहि भगव इति होपससाद' इत्यादिविद्या प्रदेशेषूपनयनादिसंस्कारपरामर्शात्। तर्हि शूद्रस्याप्युपनयनं कल्प्यतामित्यत आह— तदभावाभिलापाच्च। 'न शूद्रे पातकं किञ्चिन्न च संस्कारमर्हति' इत्यादिना उपनयनादिसंस्काराभावाभिधानादित्यर्थः॥


किञ्च—

तदभावनिर्धारणे च प्रवृत्तेः॥१..३७॥

तस्य जाबालस्य सत्यवचनेन शूद्रत्वाभावनिर्धारणे सत्येव गौतमस्य विद्योपदेशे प्रवृत्तिदर्शनात्। अतो न शूद्रस्याधिकार

इत्यर्थः॥


अपि च—

श्रवणाध्ययनार्थप्रतिषेधात्स्मृतेश्च॥१..३८॥

स्मृतेः 'अथास्य वेदमुपशृण्वतस्त्रपुजतुभ्यां श्रोत्रप्रतिपूरणम्' 'तस्माच्छूद्रसमीपे नाध्येतव्यम्' 'न शूद्राय मतिं दद्यात्' 'द्विजातीनामध्ययनमिज्या दानम्' इत्यादिस्मृतितो वेदश्रवणस्य तदध्ययनस्य तदर्थयोस्तत्प्रयोजनयोरर्थज्ञानानुष्ठानयोश्च प्रतिषेधात्। अतः कथञ्चिदपि न शूद्रस्य ब्रह्मविद्यायां विधिपूर्वकाधिकार इति सिद्धम्॥


समाप्तः प्रासङ्गिकोऽधिकारविचारः। अधुना प्रकृतवाक्यार्थविचारं प्रवर्तयिष्यामः। प्रासङ्गिकत्वान्नाव्यवहितेनास्य सङ्गत्यपेक्षा। पूर्वम् 'शब्दादेव प्रमितः' इत्यत्र ब्रह्मवाक्ये जीवानुवादो ब्रह्मज्ञानायेत्युक्तम्। न तथेह 'यदिदम्' इति वाक्ये प्राणानुवादो युक्तः,

तस्य स्वरूपतः कल्पितस्य ब्रह्मैक्यायोगादिति प्रत्युदाहरणसङ्गत्येदमाह—

..१०. कम्पनाधिकरणम्।

कम्पनात्॥१..३९॥

अत्र पूर्वपक्षे प्राणोपास्तिः, सिद्धान्ते निर्विशेषब्रह्मधीरिति फलभेदः। कठवल्लीषु श्रूयते— 'यदिदं किञ्च जगत्सर्वं प्राण एजति निःसृतम्' इत्यादि। तत्र 'एजृ कम्पने' इति धातोः कम्पनार्थकत्वात्सर्वजगत्कम्पनहेतुः प्राणः प्रतीयते। स किं वायुविकारः, उत परमात्मेति सन्देहे, वायुविकार इति पूर्वः पक्षः। सिद्धान्तस्तु— प्राणस्य प्राणम् ...' ' इति प्राणशब्दस्य परमात्मनि प्रसिद्धेः इह प्राणशब्दवाच्यः परमात्मैव। कुतः, कम्पनात् सर्वस्य सवायुकस्य जगतो जीवनादिचेष्टाहेतुत्वात्। तद्धेतुत्वं च 'न प्राणेन नापानेन...' इत्यादिश्रुतिप्रसिद्धम्॥


पूर्वं सर्वशब्दश्रुतिसङ्कोचानुपपत्त्या प्रकरणात्प्राणशब्दं ब्रह्मेत्युक्तम्। न तथेह् सम्प्रसादवाक्ये प्रकरणानुग्राहकं किञ्चिदस्ति, येन प्रकरणाज्ज्योतिःशब्दितं ब्रह्म स्यादिति प्रत्युदाहरणसङ्गत्येदमाह—

..११. ज्योतिरधिकरणम्।

ज्योतिर्दर्शनात्॥१..४०॥

अत्र पूर्वपक्षे आदित्योपास्त्या क्रममुक्तिः, सिद्धान्ते ब्रह्मज्ञानान्मुक्तिरिति फलभेदः। छान्दोग्ये प्रजापतिविद्यायां श्रूयते— “य एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य...' इत्यादि। तत्र किं ज्योतिःशब्दितमादित्यादितेजः, उत ब्रह्मेति विशये, आदित्यादितेज इति पूर्वः पक्षः। सिद्धान्तस्तु— ज्योतिरत्र परब्रह्मैव। कुतः, दर्शनात् 'य आत्मापहतपाप्मा' इत्युपक्रमालोचनया ब्रह्मण एव प्रतिपाद्यतयानुवृत्तिदर्शनादित्यर्थः॥


यथा पूर्वमुपक्रमवशादर्थान्तरे प्रसिद्धोऽपि ज्योतिःशब्दः स्वार्थात्प्रच्यावितः, तथाकाशोपक्रमवशाद्ब्रह्मादिशब्दोऽपि स्वार्थात्प्रच्याव्यतामिति दृष्टान्तसङ्गत्येदमाह—

..१२. अर्थान्तरत्वादिव्यपदेशाधिकरणम्।

आकाशोऽर्थान्तरत्वादिव्यपदेशात्॥१..४१॥

अत्र पूर्वपक्षे भूताकाशात्मकब्रह्मोपास्त्या क्रममुक्तिः, सिद्धान्ते ब्रह्मधिया मुक्तिरिति फलभेदः। छान्दोग्ये श्रूयते—

'आकाशो वै नाम नामरूपयोर्निर्वहिता...' इत्यादि। तत्र किमाकाशशब्दितो भूताकाश, उत परमात्मेति विशये, भूताकाश

इति पूर्वः पक्षः। सिद्धान्तस्तु— परमात्मैव आकाशशब्दितः। कस्मात् अर्थान्तरत्वादिव्यपदेशात् 'ते यदन्तरा' इत्याकाशस्य नामरूपाभ्यामर्थान्तरत्वेन व्यपदेशात्। आदिशब्देन 'तद्ब्रह्म तदमृतं स आत्मा' इति ब्रह्मत्वादिव्यपदेशो द्रष्टव्यः॥


पूर्वं नामरूपाभ्यां भेदोक्तेराकाशो ब्रह्मेत्युक्तम्, तन्न। 'प्राज्ञेनात्मना सम्परिष्वक्तः...' इत्यत्राभिन्नेऽपि जीवे भेदोपचारात् इत्याक्षिप्य समाधानादाक्षेपसङ्गत्येदमाह—

..१३. सुषुत्युत्क्रान्त्यधिकरणम्।

सुषुप्त्युत्क्रान्त्योर्भेदेन॥१..४२॥

अत्र पूर्वपक्षे जीवानुवादेन कर्मशेषकर्तृस्तुतिः, सिद्धान्ते तदनुवादेन तत्तादात्म्यधीरिति फलभेदः। बृहदारण्यके श्रूयते— 'योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः' इत्यादि। तत्किं जीवानुवादकम् उत तदनुवादेनासंसारिब्रह्मस्वरूपप्रतिपादकमिति सन्देहे, जीवानुवादकमिति पूर्वः पक्षः। सिद्धान्तस्तु— विज्ञानमयसुषुप्त्याद्यवस्थावज्जीवानुवादेन ब्रह्माभेदप्रतिपादकमिदं वाक्यम्। कस्मात्, 'प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम्' 'प्राज्ञेनात्मनान्वारूढ उत्सर्जन्याति' इति सुषुत्युत्क्रान्त्योरवस्थयोः शारीराद्भेदेन परमात्मनः प्राज्ञशब्देन व्यपदेशादित्यर्थः॥


इतश्च ब्रह्माभेदप्रतिपादकमिदं वाक्यमित्याह—

पत्यादिशब्देभ्यः॥१..४३॥

'सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः' इति पत्यादिशब्दा असंसारित्वप्रतिपादकाः, 'स न साधुना कर्मणा भूयान्' इत्याद्याः संसारित्वनिषेधकाः एतद्वाक्यगताः। तेभ्योऽसंसारिब्रह्मात्मप्रतिपादकमिदं वाक्यमिति समञ्जसम्॥


इति श्रीब्रह्मतत्त्वप्रकाशिकायां प्रथमाध्यायस्य तृतीयः पादः॥

No comments: